अध्यायः 167

इन्द्रेण सभ्रातृकं युधिष्ठिरमेत्य जयाशीः शंसनपूर्वकं पुनः स्वर्गम्प्रति गमनम् ॥ 1 ॥

वैशम्पायन उवाच KK03-09-167-001
[ततो रजन्यां व्युष्टायां धर्मराजं युधिष्ठिरम् । KK03-09-167-001a
भ्रातृभिः सहितः सर्वैरवन्दत धनञ्जयः ॥] KK03-09-167-001c
एतस्मिन्नेव काले तु सर्ववादित्रनिःस्वनः । KK03-09-167-002a
बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् ॥ KK03-09-167-002c
रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत । KK03-09-167-003a
पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः ॥ KK03-09-167-003c
'रवोन्मुखास्ते ददृशुः प्रीयमाणाः कुरूद्वह । KK03-09-167-004a
मरुद्भिरन्वितं शक्रमापतन्तं विहायसा' ॥ KK03-09-167-004c
ते समन्तादनुययुर्गन्धर्वाप्सरसस्तथा । KK03-09-167-005a
विमानैः सूर्यसङ्काशैर्देवराजमरिन्दमम् ॥ KK03-09-167-005c
ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम् । KK03-09-167-006a
मेघनादिनमारुह्य श्रिया परमया ज्वलन् ॥ KK03-09-167-006c
पार्थानभ्याजगामाशु देवराजः पुरन्दरः । KK03-09-167-007a
आगत्य च सहस्राक्षो रथादवरुरोह वै ॥ KK03-09-167-007c
तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः । KK03-09-167-008a
भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत् ॥ KK03-09-167-008c
पूजयामास चैवाथ विधिवद्भूरिदक्षिणः । KK03-09-167-009a
यथार्हममितात्मानं विधिदृष्टेन कर्मणा ॥ KK03-09-167-009c
धनञ्जयश्च तेजस्वी प्रणिपत्य पुरन्दरम् । KK03-09-167-010a
भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः ॥ KK03-09-167-010c
आघ्राय तं महातेजाः कुन्तीपुत्रो युधिष्ठिरः । KK03-09-167-011a
धनञ्जयमभिप्रेक्ष्य विनीतं स्थितमन्तिके ॥ KK03-09-167-011c
जटिलं देवराजस्य तपोयुक्तमकल्मषम् । KK03-09-167-012a
हर्षेण महताऽऽविष्टः फल्गुनस्याथ दर्शनात् । KK03-09-167-012c
बभूव परमप्रीतो देवराजं च पूजयन् ॥ KK03-09-167-012e
तं तथाऽदीनमनसं राजानं हर्षसम्प्लुतम् । KK03-09-167-013a
उवाच वचनं धीमान्धर्मराजं पुरन्दरः ॥ KK03-09-167-013c
त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव । KK03-09-167-014a
स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम् ॥ KK03-09-167-014c
अस्त्राणि लब्धानि च पाण्डवेन सर्वाणि मत्तः प्रयतेन राजन् । KK03-09-167-015a
कृतप्रियश्चास्मि धनञ्जयेन जेतुं न शक्यस्त्रिभिरेष लोकैः ॥ KK03-09-167-015c
एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम् । KK03-09-167-016a
जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः ॥ KK03-09-167-016c
धनेश्वरगृहस्थानां पाण्डवानां समागमम् । KK03-09-167-017a
शक्रेण य इदं विद्वानधीयीत समाहितः ॥ KK03-09-167-017c
संवत्सरं ब्रह्मचारी नियतः संशितव्रतः । KK03-09-167-018a
स जीवेद्धि निराबाधः सुसुखी शरदां शतम् ॥ KK03-09-167-018c

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥

3-167-3 भुजङ्गव्याघ्रसिंहानाम् इति थ. पाठः ॥ 3-167-6 हरिभिर्युक्तं रथम् ॥ 3-167-9 अमितात्मा अमितबुद्धिः ॥ 3-167-15 कृतप्रियः शत्रुवधेन । सर्वाणि मत्तो गिरिशाच्च देवात् इति थ. पाठः ॥