अध्यायः 166

अर्जुनेन युधिष्ठिरादीन्प्रति सङ्क्षेपेण स्वकीयस्वर्गनिवासप्रकारकथनम् ॥ 1 ॥

वैशम्पायन उवाच KK03-09-166-001
ततः कदाचिद्धरिसम्प्रयुक्तं महेन्द्रवाहं सहसोपयातम् । KK03-09-166-001a
विद्युत्प्रभं प्रेक्ष्य महारथानां हर्षोऽर्जुनं चिन्तयतां बभूव ॥ KK03-09-166-001c
स दीप्यमानः सहसाऽन्तरिक्षं प्रकाशयन्मातलिसङ्गृहीतः । KK03-09-166-002a
बभौ महोल्केव घनान्तरस्था शिखेव चाग्नेर्ज्वलिता विधूमा ॥ KK03-09-166-002c
तमास्थितः सन्ददृशे किरीटी स्रग्वी नवान्याभरणानि बिभ्रत् । KK03-09-166-003a
धनञ्जयो वज्रधरप्रभावः श्रिया ज्वलन्पर्वतमाजगाम ॥ KK03-09-166-003c
स शैलमासाद्य किरीटमाली महेन्द्रवाहादवरुह्य तस्मात् । KK03-09-166-004a
धौम्यस्य पादावभिवाद्य पूर्वमजातशत्रोस्तदनन्तरं च ॥ KK03-09-166-004c
वृकोदरस्यापि च वन्द्य पादौ माद्रीसुताभ्यामभिवादितश्च । KK03-09-166-005a
समेत्य कृष्णां परिसान्त्व्य चैनां प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ॥ KK03-09-166-005c
बभूव तेषां परमः प्रहर्षस्तेनाप्रमेयेण समेत्य तत्र । KK03-09-166-006a
स चापि तान्प्रेक्ष्य किरीटमाली ननन्द राजानमभिप्रशंसन् ॥ KK03-09-166-006c
यमास्थितः सप्त जघान पूगान्दितेः सुतानां नमुचेर्निहन्ता । KK03-09-166-007a
तमिन्द्रवाहं समुपेत्य पार्थाः प्रदक्षिणं चक्रुरदीनसत्वाः ॥ KK03-09-166-007c
ते मातलेश्चक्रुरतीव हृष्टाः सत्कारमग्र्यं सुरराजतुल्यम् । KK03-09-166-008a
सर्वं यथावच्च दिवौकसङ्घं पप्रच्छुरेनं कुरुराजपुत्राः ॥ KK03-09-166-008c
तानप्यसौ मातलिरभ्यनन्दत्पितेव पुत्राननुशिष्य पार्थान् । KK03-09-166-009a
ययौ रथेनाप्रतिमप्रभेण पुनः सकाशं त्रिदिवेश्वरस्य ॥ KK03-09-166-009c
गते तु तस्मिन्वरदेववाहे शक्रात्मजः सर्वरिपुप्रमाथी । KK03-09-166-010a
'साक्षात्सहस्राक्ष इव प्रतीतः श्रीमान्स्वदेहादवमुच्य जिष्णुः' ॥ KK03-09-166-010c
शक्रेण दत्तानि ददौ महात्मा महाधनान्युत्तमरूपवन्ति । KK03-09-166-011a
दिवाकराभाणि विभूषणानि प्रीतः प्रियायै सुतसोममात्रे ॥ KK03-09-166-011c
ततः स तेषां कुरुपुङ्गवानां तेषां च सूर्याग्निसमप्रभाणाम् । KK03-09-166-012a
विप्रर्षभाणामुपविश्य मध्ये सर्वं यथावत्कथयाम्बभूव ॥ KK03-09-166-012c
एवं मयाऽस्त्राण्युपशिक्षितानि शक्राच्च वायोश्च शिवाच्च साक्षात् । KK03-09-166-013a
तथैव शीलेन समाधिना च प्रीताः सुरा मे सहिताः सहेन्द्राः ॥ KK03-09-166-013c
सङ्क्षेपतो वै स विशुद्धकर्मा तेभ्यः समाख्याय दिवःप्रवेशम् । KK03-09-166-014a
माद्रीसुताभ्यां सहितः किरीटी सुष्वाप तामावसतिं प्रतीतः ॥ KK03-09-166-014c

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि षट्षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥

3-166-1 हरिभिरश्वैः सम्प्रयुक्तम् । महेन्द्रस्य वाहं रथम् ॥ 3-166-5 प्रह्वो नम्रः । उपह्णरे समीपे ॥ 3-166-7 पूगान्यूथानि ॥ 3-166-8 एनं मातलिम् ॥ 3-166-11 सुतसोमो भीमाद्द्रौपद्यां जातः ॥ 3-166-14 आवसतिं रात्रिम् । प्रतीतो हृष्ठः ॥