अध्यायः 165

इन्द्रादधिगतास्त्रेणार्जुनेन स्वर्गाद्गन्धमादननिवासिनो युधिष्ठिरादीन्प्रत्यागमनम् ॥ 1 ॥ 001 वैशम्पायन उवाच । 001a तस्मिन्नगेन्द्रे वसतां तु तेषाम्महात्मनां सद्व्रतमास्थितानाम् । 001c रतिः प्रमोदश्च बभूव तेषामाकाङ्क्षतां दर्शनमर्जुनस्य ॥ 002a तान्वीर्ययुक्तान्सुविशुद्धसत्वांस्तेजस्विनः सत्यधृतिप्रधानान् । 002c सम्प्रीयमाणा बहवोऽभिजग्मुर्गन्धर्वसङ्घाश्च महर्षयश्च ॥ 003a तं पादपैः पुष्पफलैरुपेतं नगोत्तमं प्राप्य महारथानाम् । 003c मनःप्रसादः परमो बभूव यथा दिवं प्राप्य मरुद्गणानाम् ॥ 004a मयूरहंसस्वननादितानि पुष्पोपकीर्णानि महाचलस्य । 004c शृङ्गाणि सानूनि च पश्यमाना गिरेः परं हर्षमवाप्य तस्थुः ॥ 005a साक्षात्कुबेरेण कृताश्च तस्मिन्नगोत्तमे संवृतकूटगुल्माः । 005c कादम्बकारण्डवहंसजुष्टाःपद्माकुलाः पुष्करिणीरपश्यन् ॥ 006a क्रीडाप्रदेशांश्च समृद्धरूपान्सवेदिकांस्ते न्यवसन्सुवेशान् । 006c मणिप्रकीर्णांश्च मनोरमांश्च यथा भवेयुर्नदस्य राज्ञः ॥ 007a अनेकवर्णैश्च सुगन्धिभिश्चमहाद्रुमैः सन्ततमभ्रजालैः । 007c तपःप्रधानाः सततं चरन्तः शृङ्गं गिरेश्चिन्तयितुं न शेकुः ॥ 008a स्वतेजसा तस्य नगोत्तमस्यमहौषधीनां च तथा प्रभावात् । 008c विभक्तरूपः सविता बभूव निशामुखं प्राप्य नरर्षभाणाम् ॥ 009a यमास्थितः स्थावरजङ्गमानांविभावसुर्भावयिता हरीशः । 009c तथोदयं चास्तमनं च वीरस्तत्रस्थितास्ते ददृशुर्नृसिंहाः ॥ 010a रवेस्तमिस्रागमनिर्गमांस्ते तथोदयं चास्तमनं च वीराः । 010c समावृताः प्रेक्ष्य तमोनुदस्यगभस्तिजालैः प्रदिशो दिशश्च ॥ 011a स्वाध्यायवन्तः सततक्रियाश्च धर्मप्रधानाश्च शुचिव्रताश्च । 011c सत्ये स्थितास्तस्य महारथस्य सत्यव्रतस्यागमनप्रतीक्षाः ॥ 012a इहैव हर्षोऽस्तु समागतानां क्षिप्रं कृतास्त्रेण धनञ्जयेन । 012c इति ब्रुवन्तः परमाशिषस्ते पार्थास्तपोयोगपरा बभूवुः ॥ 013a दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनं चिन्तयतामभीक्ष्णम् । 013c बभूव राविर्दिवसश्च तेषां संवत्सरेणैव समानरूपः ॥ 014a यदैव धौम्यानुमते महात्मा कृत्वा जटां प्रव्रजितः स जिष्णुः । 014c तदैव तेषां न बभूव हर्षः कुतो रतिस्तद्गतमानसानाम् ॥ 015a भ्रातुर्नियोगात्तु युधिष्ठिरस्यवनादसौ वारणमत्तगामी । 015c यत्काम्यकात्प्रव्रजितः स जिष्णुस्तथैव ते शोकहता बभूवुः ॥ 016a तथैव तं चिन्तयतां सिताश्वमस्त्रार्थिनं वासवमभ्युपेतम् । 016c कालः स कृच्छ्रेण महानतीतस्तस्मिन्नगे भारत भारतानाम् ॥ 017a [उषित्वा पञ्चवर्षाणि सहस्राक्षनिवेशने । 017c अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात् ॥ 018a आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् । 018c ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ॥ 019a यमस्य धातुः सवितुस्त्वष्टुर्वैश्रवणस्य च । 019c तानि प्राप्य सहस्राक्षादभिवाद्य शतक्रतुम् ॥] 020a अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम् । 020c आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धमादनम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥

3-165-4 महती चला लक्ष्मीः शोभा यस्य महाचलस्य । चला लक्ष्म्यां पुमान् कम्पे इति मेदिनी । सानून्येव तीक्ष्णाग्राणि पुंसञ्चारायोग्यानि शृङ्गाणीत्युच्यन्ते ॥ 3-165-9 यं सूर्यम् । विभावसुर्वह्निरास्थितः । यस्य सूर्यस्याश्रयेणैव रात्रौ वह्निर्जगद्दीपयति तस्योदयमित्यन्वयः ॥