अध्यायः 164
धौम्येन युधिष्ठिरं प्रति मेरुमन्दरवर्णनपूर्वकं चन्द्रसूर्यादिगतिप्रकारनिरूपणम् ॥ 1 ॥ 001 वैशम्पायन उवाच । 001a ततः सूर्योदये धौम्यः पाञ्चालीसहितांश्च तान् । 001c आर्ष्टिणेन सहितः पाण्डवानभ्यवर्तत ॥ 002a तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह । 002c ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् ॥ 003a 'आर्ष्टिषेणं परिष्वज्य पुत्रवद्भरतर्षभ' । 003c धर्मराजं स्पृशन्पाणौ पाणिना स महातपाः । 003e प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् ॥ 004a असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति । 004c शैलराजो महाराज मन्दरोऽभिविराजयन् । 004e इन्द्रवैश्रवणोपेतां दिशं पाण्डव रक्षति ॥ 005a पर्वतैश्च वनान्तैश्च काननैश्चैव शोभितम् । 005c एतमाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च । 005e ऋषयः सर्वधर्मज्ञाः सर्वे तात मनीषिणः ॥ 006a अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः । 006e ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ॥ 007a यमस्तु राजा धर्मज्ञः सर्वप्राणभृतां प्रभुः । 007e प्रेतसत्वगतीमेतां दक्षिणामाश्रितो दिशम् ॥ 008a एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम् । 008c प्रेतराजस्य भवनमृद्ध्या परमया युतम् ॥ 009a यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति । 009c अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ॥ 010a एवं पर्वतराजानं समुद्रं च महोदधिम् । 010c अवसन्वरुणो राजा भूतानि परिरक्षति ॥ 011a उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान् । 011c महामेरुर्महाभाग शिवो ब्रह्मविदाङ्गतिः ॥ 012a यस्मिन्ब्रह्मसदश्चैव भूतात्मा चावतिष्ठते । 012c प्रजापतिः सृजन्सर्वं यत्किञ्चिज्जङ्गमागमम् ॥ 013a यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान् । 013c तेषामपि महामेरुः शिवं स्थानमनामयम् ॥ 014a अत्रैव प्रतितिष्ठन्ति पुनरेषोदयन्ति च । 014c सप्त देवर्षयस्तात वसिष्ठप्रमुखास्तदा ॥ 015a देशं विरजसं पश्य मेरोः शिखरमुत्तमम् । 015c यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ॥ 016a यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् । 016c अनादिनिधनं देवं प्रभुं नारायणं परम् ॥ 017a ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते । 017c देवाश्च यत्नात्पश्यन्ति सर्वतेजोमयं शुभम् ॥ 018a अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः । 018c स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः ॥ 019a प्राच्यां नारायणस्थानं मेरावतिविराजते ॥ 020a यत्र भूतेश्वरस्तात सर्वप्रकृतिरात्मभूः । 020c भासयन्सर्वभूतानि सुश्रियाऽभिविराजते ॥ 021a नात्र ब्रह्मर्षयस्तात कुत एव महर्षयः । 021c प्राप्नुवन्ति गतिं ह्येतां यतीनां भावितात्मनाम् ॥ 022a न तं ज्योतींषि सर्वाणि प्राप्य भासन्ति पाण्डव । 022c स्वयम्प्रभुरचिन्त्यात्मा तत्र ह्यतिविराजते ॥ 023a यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम् । 023c परेण तपसा युक्ता भाविताः कर्मभिः शुभैः । 023e योगसिद्धा महात्मानस्तमोमोहविवर्जिताः ॥ 024a तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत । 024c स्वयम्भुवं महात्मानं देवदेवं सनातनम् ॥ 025a स्थानमेतन्महाभाव ध्रुवमक्षयमव्ययम् । 025c ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर ॥ 026a [एनं त्वहरहर्मेरुं सूर्याचन्द्रमसौ ध्रुवम् । 026c प्रदक्षिणमुपावृत्य कुरुतः कुरुनन्दन ॥ 027a ज्योतींषि चाप्यशेषेण सर्वाण्यनघ सर्वतः । 027c परियान्ति महाराज गिरिराजं प्रदक्षिणम् ॥] 028a एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि । 028c कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् ॥ 029a अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः । 029c उदीचीं भजते काष्ठां बहुधा पर्वसन्धिषु ॥ 030a सुमेरुमनुवृत्तः स पुनर्गच्छति पाण्डव । 030c प्राङ्मुखः सविता देवः सर्वभूतहिते रतः ॥ 031a स सम्यग्विभजन्कालान्बहुधा पर्वसन्धिषु । 031c तथैव भगवान्सोमो नक्षत्रैः सह गच्छति ॥ 032a एवमेतं त्वतिक्रम्य महामेरुमतन्द्रितः । 032c सोमश्च विभजन्कालं बहुधा पर्वसन्धिषु । 032e भासयन्सर्वभूतानि पुनर्गच्छति सागरम् ॥ 033a तथा तमिस्रहा देवो मयूखैर्भासयञ्जगत् । 033c मार्गमेतमसम्बाधमादित्यः परिवर्तते ॥ 034a सिसृक्षुः शिशिराण्येव दक्षिणां भजते दिशम् । 034c ततः सर्वाणि भूतानि कालं शिशिरमृच्छति ॥ 035a स्थावराणां च भूतानां जङ्गमानां च तेजसा । 035c तेजांसि समुपादत्ते निवृत्तः स विभावसुः ॥ 036a ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् । 036c प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते ॥ 037a एवमेतमनिर्देश्यं मार्गमावृत्य भानुमान् । 037c पुनः सृजति वर्षाणि भगवान्भासयन्प्रजाः ॥ 038a वृष्टिमारुतसन्तापैः सुखैः स्थावरजङ्गमान् । 038c वर्धयनसुमहातेजाः पुनः प्रतिनिवर्तते ॥ 039a एवमेष चरन्पार्थ कालचक्रमतन्द्रितः । 039c प्रकर्षन्सर्वभूतानि सविता परिवर्तते ॥ 040a सन्तता गतिरेतस्य नैष तिष्ठति पाण्डव । 040c आदायैव तु भूतानां तेजो विसृजते पुनः ॥ 041a विभजन्सर्वभूतानामायुः कर्म च भारत । 041c अहोरात्रं कलाः काष्ठाः सृजत्येष सदा विभुः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥
3-164-4 इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः इति झ. पाठः ॥ 3-164-7 प्रेतसत्वगतीं मृतानां प्राणिनां गम्याम् ॥ 3-164-7 संयमनं नामतः ॥ 3-164-10 आवसन्नधितिष्ठन् ॥ 3-164-12 भूतात्मा सर्वेषां भूतानामात्मा । सम्पूर्णब्रह्माण्डपिण्डाभिमानित्वात् ॥ 3-164-17 ब्रह्मणः चतुर्मुखस्य ॥ 3-164-25 प्रणम नमस्कुरु ॥ 3-164-26 उपावृत्य अप्रदक्षिणं गत्वैव । भचक्रवेगात् कुलालचक्रे प्रतीपं क्रमन्ती पिपीलिकेव प्रदक्षिणं कुरुत इत्यर्थः ॥ 3-164-32 पुनर्गच्छति मन्दरमिति झ. पाठः ॥ 3-164-34 शिशिराणि शीतानि ॥ 3-164-35 तेजांसि समुपादत्ते ग्रीष्मे ॥ 3-164-37 अनिर्देश्यं मार्गं अन्तरिक्षम् ॥