अध्यायः 163

कुबेरेण युधिष्ठिरानुशासनपूर्वकं स्वभवनगमनम् ॥ 1 ॥ कुबेराज्ञया राक्षसपूजितैर्युधिष्ठिरादिभिस्तद्रात्रौ तद्गृहे सुखवासः ॥ 2 ॥ 001 धनद उवाच । 001a युधिष्ठिर धृतिर्दाक्ष्यं देशकालपराक्रमाः । 001c लोकतन्त्रविधानानामेष पञ्चविधो विधिः ॥ 002a धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत । 002c पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् ॥ 003a धृतिमान्देशकालज्ञः सर्वधर्मविधानवित् । 003c क्षत्रियः क्षत्रियश्रेष्ठ शास्ति वै पृथिवीमनु ॥ 004a य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु । 004c स लोके लभते वीर यशः प्रेत्य च सद्गतिम् ॥ 005a देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् । 005c सम्प्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह ॥ 006a [यस्तु केवलसंरम्भात्प्रपातं न निरीक्षते ।] 006c पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते । 006e कर्मणामविभागज्ञः प्रेत्य चेह विनश्यति ॥ 007a अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित् । 007c वृथाचारसमारम्भः प्रेत्य चेह विनश्यति ॥ 008a साहसे वर्तमानानां निकृतीनां दुरात्मनाम् । 008c सर्वेषामर्थलिप्सूनां पापो भवति निश्चयः ॥ 009a अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः । 009c निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ ॥ 010a आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम् । 010c तमिस्रां प्रथमां तत्र वीतशोकभयो वस ॥ 011a अलकां सह गन्धर्वैर्यक्षैश्च सह किन्नरैः । 011c 'गमिष्यामि महाबाहो त्वं चापि बदरीं व्रज' ॥ 012a मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः । 012c रक्षन्तु त्वां महाबाहो सहितं द्विजसत्तमैः ॥ 013a साहसेषु च सन्तिष्ठंस्त्वया शैले वृकोदरः । 013c वार्यतां साध्वयं राजंस्त्वया धर्मभृतांवर ॥ 014a इतः परं च वो राजन्द्रक्ष्यन्ति वनगोचराः । 014c उपस्थास्यन्ति वो राजन्रक्षिष्यन्ते च वः सदा ॥ 015a तथैव चान्नपानानि स्वादूनि च बहूनि च । 015c आहरिष्यन्ति मत्प्रेष्याः सदा वः पुरुषर्षभाः ॥ 016a यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः । 016c धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः ॥ 017a आत्मजावात्मसम्पन्नौ यमौ चोभौ यथाश्विनोः । 017c रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर ॥ 018a अर्थतत्त्वविधानज्ञः सर्वधर्मविधानवित् । 018c भीमसेनादवरजः फल्गुनः कुशली दिवि ॥ 019a याः काश्चन मता लोके स्वर्ग्याः परमसम्पदः । 019c जन्मप्रभृति ताः सर्वाः स्थितास्तात धनञ्जये ॥ 020a दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् । 020c एतान्यपि महासत्वे स्थितान्यमिततेजसि ॥ 021a न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम् । 021c न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु ॥ 022a स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः । 022c आनीतः कुरुतेऽस्त्राणि शक्रसद्मनि भारत ॥ 023a योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत् । 023c स शन्तनुर्महातेजाः पितुस्तव पितामहः ॥ 024a प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना । 024c सम्यक्वासौ महावीर्यः कुलधुर्य इव स्थितः ॥ 025a पितॄन्देवानृषीन्विप्रान्पूजयित्वा महायशाः । 025c सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति ॥ 026a अधिराजः स राजंस्त्वां शन्तनुः प्रपितामहः । 026c स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति ॥ 027 वैशम्पायन उवाच । 027a एतच्छ्रुत्वा तु वचनं धनदेन प्रभाषितम् । 027c पाण्डवाश्च ततस्तेन बभूवः सम्प्रहर्षिताः ॥ 028a ततः शक्तिं गदां खङ्गं धनुश्च भरतर्षभः । 028c प्राध्वङ्कृत्वा नमश्चक्रे कुबेराय वृकोदरः ॥ 029a ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम् । 029c मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः ॥ 030a 'विभयस्ताप शैलाग्रे वसानः सह बन्धुभिः । 030c सुपर्णपितृदेवानां सततं मानकृद्भव ॥ 031a ऋजुं पश्यत मा वक्रं सत्यं वदत माऽनृतम् । 031c दीर्घं पश्यत मा ह्रस्वं परं पश्यत माऽपरम्' ॥ 032a स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः । 032c कामान्न परिहास्यन्ति यक्षा वो भरतर्षभाः ॥ 033a शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः । 033c साक्षान्मघवतोत्सृष्टः सम्प्राप्स्यति धनञ्जयः ॥ 034a एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम् । 034c अस्तं गिरिमिवादित्यः प्रययौ गुह्यकाधिपः ॥ 035a तं परिस्तोमसङ्कीर्णैर्नानारत्नविभूषितैः । 035c यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः ॥ 036a पक्षिणामिव निर्घोषः कुबेरसदनं प्रति । 036c बभूव परमाश्वानामैरावतपथे यथा ॥ 037a ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः । 037c प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम् ॥ 038a ततस्तानि शरीराणि गतसत्वानि रक्षसाम् । 038c अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् ॥ 039a तेषां हि शापकालः स कृतोऽगस्त्येन धीमता । 039c समरे निहतास्तस्माच्छापस्यान्तोऽभवत्तदा ॥ 040a पाण्डवाश्च महात्मानस्तेषु वेश्मसु तां क्षपाम् । 040c सुखमूषुर्गतोद्वेगाः पूजिताः सह राक्षसैः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि त्रिषष्ट्यधिकशततमोऽध्यायः ॥ 163 ॥

3-163-1 दाक्ष्यं यत्नशीलता । पराक्रमः शत्रूणामभिभावनहेतुः क्रिया । विधानानां कार्याणां विधिरभ्युदयहेतुः । अदेशे अकाले च कृतं धृत्यादिकमभिभवहेतुरित्यर्थः ॥ 3-163-6 संरम्भात् कोपात् ॥ 3-163-8 निकृतीनां वञ्चनापराणाम् ॥ 3-163-9 अवलिप्तो गर्वितः ॥ 3-163-18 तत्त्वं याथात्म्यम् । विधानं प्राप्त्युपायम् ॥ 3-163-19 स्वर्ग्याः स्वर्गाय हिताः सम्पदः ॥ 3-163-22 कुरुते अभ्यस्यति ॥ 3-163-25 महामेधानश्वमेधान् ॥ 3-163-28 प्राध्वङ्कृत्वा बह्वा । उपसंहृत्येत्यर्थः ॥ 3-163-29 नन्दिः समृद्धिः ॥ 3-163-32 स्वेषु वेश्मसु अस्मदीयेषु । कामान् काम्यमानानर्थान् न परिहास्यन्ति किन्तु साधयिष्यन्त्येवेत्यर्थः ॥ 3-163-35 परिस्तोमाश्रित्रकम्बला हस्त्यादीनां पल्याणभूताः ॥ 3-163-36 ऐरावतपथे इन्द्रपुरीप्रदेशे ॥ 3-163-38 अपाकृष्यन्त अपाकृतानि ॥