अध्यायः 161

कदाचन गरुडपक्षवातानीताद्भुताम्बुजदर्शिन्या द्रौपद्या तादृशबहुपुष्पानयनं तथा दुष्टयक्षराक्षसक्षपणं च प्रार्थितेन भीमेन तदर्थं गन्धमादनशिखरारोहणम् ॥ 1 ॥ तथा स्वीयशङ्खध्वनिश्रवणेनाभिद्रुतवतां मणिमदादीनां युद्धे हननम् ॥ 2 ॥ 001जनमेजय उवाच । 001a आर्ष्टिषेणाश्रमे तस्मिन्मम पूर्वपितामहाः । 001c पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः ॥ 002a कियन्तं कालमवसन्पर्वते गन्धमादने । 002c किञ्च चक्रुर्महावीर्याः सर्वेऽतिबलपौरुषाः ॥ 003a कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् । 003c वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम ॥ 004a विस्तरेण च मे शंस भीमसेनपराक्रमम् । 004c यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ ॥ 005a न खल्वासीत्पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम । 005c 'धनदाध्युषिते नित्यं वसतस्तत्र पर्वते' ॥ 006a कच्चित्समागमस्तेषामासीद्वैश्रवणस्य च । 006c तत्र ह्यायाति धनद आर्ष्टिषेणो यथाऽब्रवीत् ॥ 007a एतदिच्छाम्यहं श्रोतुं रविस्तरेण तपोधन । 007c न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् ॥ 008 वैशम्पायन उवाच । 008a एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः । 008c शासनं सततं चक्रुस्तथैव भरतर्षभाः ॥ 009a भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च । 009c शुद्धबाणहतानां च मृगाणां पिशितान्यपि ॥ 010a मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च । 010c एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ॥ 011a तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात् । 011c शृण्वतां लोमशोक्तानि वाक्यानि विविधान्युत ॥ 012a कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः । 012c राक्षसैः सह सर्वैश्च पूर्वमेव गतः प्रभो ॥ 013a आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् । 013c अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् ॥ 014a तैस्तत्रविहरद्भिश्च रममाणैश्च पाण्डवैः । 014c प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा ॥ 015a आजग्मुः पाण्डवान्द्रष्टुं शुद्धात्मानो यतव्रताः । 015c ते तैः सह कथां चक्रुर्द्रिव्यां भरतसत्तमाः ॥ 016a ततः कतिपयाहस्सु महाह्रदनिवासिनम् । 016c ऋद्धिमन्तं महानागं सुपर्णः सहसाऽहरत् ॥ 017a प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः । 017c ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम् ॥ 018a ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः । 018c अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च ॥ 019a तत्रपुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः । 019c ददृशुः पञ्चवर्णानि द्रौपदी च यशस्विनी ॥ 020a भीमसेनं ततः कृष्णा काले वचनमब्रवीत् । 020c विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ॥ 021a सुपर्णानिलवेगेन श्वसनेन महाबलात् । 021c पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ॥ 022a 'दिव्यावर्णानि दिव्यानि दिव्यगन्धवहानि च । 022c मदयन्तीव गन्धेन मनो मे भरतर्षभ ॥ 023a येषां तु दर्शनात्स्पर्शान्सौरभ्याच्च तथैव च । 023c नश्यतीव मनोदुःखं ममेदं शत्रुतापन ॥ 024a ईदृशैः कुसुमैर्दिव्यैर्दिव्यगन्धवहैः शुभैः । 024c देवतान्यर्चयित्वाऽहमिच्छेयं सङ्गमं त्वया ॥ 025a इदं तु पुरुषव्याघ्र विशेषेणाम्बुजं शुभम् । 025c गन्धसंस्थानसम्पन्नं मम मानसवर्धनम्' ॥ 026a प्रत्यक्षं सर्वलोकस्य नह्यदृश्यत मां प्रति ॥ 027a 'वासुदेवसहायेन वासुदेवप्रियेण च' । 027c खाण्डवे सत्यसन्धेन भ्रात्रा तव महात्मना ॥ 028a गन्धर्वोरगरक्षांसि वासवश्च पराजितः । 028c हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवं ॥ 029a तवापि सुमहत्तेजो महद्बाहुबलं च ते । 029c अविषह्यमनाधृष्यं शक्रतुल्यपराक्रम ॥ 030a त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः । 030c हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ॥ 031a ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् । 031c व्यपेतभयसम्मोहाः पश्यन्तु सुहृदस्तव ॥ 032a एवं प्रणिहितं भीम चिरात्प्रभृति मे मनः । 032c द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता ॥ 033a 'इच्छामि च नरव्याघ्र पुष्पं प्रत्यक्षमीदृशम् । 033c आनीयमानं क्षिप्रं वै त्वया भरतसत्तम' ॥ 034a ततः क्षिप्तमिवात्मानं द्रौपद्या स परन्तपः । 034 नामृष्यत महाबाहुः प्रहारमिवसद्गजः ॥ 035a सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः । 035c मनस्वी बलवान्दृप्तो मानी शूरश्च पाण्डवः ॥ 036a लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः । 036c सिंहदंष्ट्रो वृषस्कन्धः सालपोत इवोद्गतः ॥ 037a महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाहनुः । 037c रुक्मपृष्ठं धनुः खङ्गं तूणांश्चापि परामृशन् ॥ 038a स केसरीव चोत्सिक्तः प्रभिन्न इव वारणः । 038c व्यपेतभयसम्मोहः शैलमभ्यपतद्बली ॥ 039a तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम् । 039c ददृशुः सर्वभूतानि पार्थं खङ्गधनुर्धरम् ॥ 040a द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः । 040c व्यपेतभयसम्मोहः शैलराजं समाविशत् ॥ 041a न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः । 041c कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥ 042a तदेकायनमासाद्य विषमं भीमदर्शनम् । 042c बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः ॥ 043a स किन्नरमहानागमुनिगन्धर्वराक्षसान् । 043c हर्षयन्पर्वतस्याग्रमारुरोह महाबलः ॥ 044a ततो वैश्रवणावासं ददर्श भरतर्षभः । 044c काञ्चनैः स्फाटिकैश्चैव वेश्मभिः समलङ्कृतम् ॥ 045a [प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः । 045c सर्वरत्नद्युतिमता सर्वोद्यानवता तथा ॥ 046a शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना । 046c द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना ॥ 047a विलासिनीभिरत्यर्थं नृत्यन्तीभिः समन्ततः । 047c वायुना धूयमानाभिः पताकाभिरलङ्कृतम् ॥ 048a धनुष्कोटिमवष्टभ्य वक्रभावेन बाहुना । 048c पश्यमानः सखेदेन द्रविणाधिपतेः पुरम् ॥] 049a मोदयनसर्वभूतानि गन्धमादनसम्भवः । 049c सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥ 050a चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः । 050c अचिन्त्या विविधास्तत्र द्रुमाः परमशोभिनः ॥ 051a रत्नजालपरिक्षिप्तं चित्रमाल्यविभूषितम् । 051c राक्षसाधिपतेः स्थानं ददृशे भरतर्षभः ॥ 052a गदाखङ्गधनुष्पाणिः समभित्यक्तजीवितः । 052c भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः ॥ 053a ततः शङ्खमुपाध्माय द्विषतां रोमहर्षणम् । 053c ज्याघोषं तलशब्दं च कृत्वा भूतान्यमोहयत् ॥ 054a ततः प्रहृष्टरोमाणस्तं शब्दमभिदुद्रुवुः । 054c यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ॥ 055a गदापरिघनिस्त्रिंशशूलशक्तिपरश्वथाः । 055c प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ॥ 056a ततः प्रववृते युद्धं तेषां तस्य च भारत ॥ 057a तैः प्रयुक्तान्महामायैः शूलशक्तिपरश्वथान् । 057c भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ॥ 058a अन्तरिक्षगतानां च भूमिष्ठानां च गर्जताम् । 058c शरैर्विव्याध गात्राणि राक्षसानां महाबलः ॥ 059a 'शोणितस्य ततः पेतुर्घनानामिव भारत ।’ 059c गात्रेभ्यः प्रच्युता धारा राक्षसानां समन्ततः' । 059e स लोहितमहावृष्टिमभ्यवर्षन्महाबलः ॥ 060a गदापरिघपाणीनां रक्षसां कायसम्भवा । 060c कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ॥ 061a भीमबाहुबलोत्सृष्टैरायुधैर्यक्षरक्षसाम् । 061c विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च ॥ 062a प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् । 062c ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ॥ 063a स रश्मिभिरिवादित्यः शरैररिनिपातिभिः । 063c सर्वानार्च्छन्महाबाहुर्बलवान्सत्यविक्रमः ॥ 064a अभितर्जयमानाश्च रुवन्तश्च महारवान् । 064c सन्नाहं भीमसेनस्य ददृशुः सर्वराक्षसाः ॥ 065a ते हि विक्षतसर्वाङ्गा भीमसेनभयार्दिताः । 065c भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ॥ 066a उत्सृज्य ते गदाशूलानसिशक्तिपरश्वथान् । 066c दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना ॥ 067a तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः । 067c सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ॥ 068a दर्शयन्स प्रतीकारं पौरुषं च महाबलः । 068c स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् ॥ 069a एकेन बहवः सङ्ख्ये मानुषेण पराजिताः । 069c प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ॥ 070a एवमाभाष्य तान्सर्वानभ्यवर्तत राक्षसः । 070c शक्तिशूलगदापाणिरभ्यधावत्स पाण्डवम् ॥ 071a तमापतन्तं वेगेन प्रभिन्नमिव वारणम् । 071c वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समार्दयत् ॥ 072a मणिमानपि सङ्क्रुद्धः प्रगृह्य महतीं गदाम् । 072c प्राहिणोद्भीमसेनाय परिगृह्य महाबलः ॥ 073a विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् । 073c शरैर्बहुभिरानर्छद्भीमसेनः शिलाशितैः ॥ 074a प्रत्यहन्यन्त ते सर्वेगदामासाद्य सायकाः । 074c न वेगं धारयामासुर्गदावेगस्य वेगिताः ॥ 075a गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् । 075c व्यंसयामास तं तस्य प्रहारं भीमविक्रमः ॥ 076a ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम् । 076c तस्मिन्नेवान्तरे धीमान्प्रचिक्षेप स राक्षसः ॥ 077a सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम् । 077c साग्निज्वाला महारौद्रा पपात सहसा भुवि ॥ 078a सोऽतिविद्धो महेष्वासः शक्त्याऽमितपराक्रमः । 078c गदां जग्राह कौन्तेयो गदायुद्धविशारदः ॥ 079a रुक्मपट्टपिनद्धां तां शत्रूणां भयवर्धिनीम् । 079c प्रगृह्याथ नदन्भीमः शैक्यां सर्वायसीं गदाम् । 079e तरसा चाभिदुद्राव मणिमन्तं महाबलम् ॥ 080a दीप्यमानं महाशूलं प्रगृह्य मणिमानपि । 080c प्राहिणोद्भीमसेनाय वेगेन महता नदन् ॥ 081a भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविभागवित् । 081c अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् ॥ 082a सोऽन्तरिक्षमवप्लुत्य विधूय सहसा गदाम् । 082c प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ॥ 083a सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा । 083c हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह ॥ 084a तं राक्षसं भीमबलं भीमसेनबलाहतम् । 084c ददृशुः सर्वभूतानि सिंहेनेव गवाम्पतिम् ॥ 085a तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः । 085c भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति ॥

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥

3-161-34 सद्गव इति झ. पाठः ॥ 3-161-36 पृथू विशिष्टौ अंसौ यस्यस पृथुव्यंसः ॥ 3-161-41 ग्लानिः श्रमः| कातर्यं भयम् । वैक्लव्यमनुत्साहः । मत्सरः परोत्कर्षासहिष्णुत्वम् ॥ 3-161-42 एकायनं वामदक्षिणसञ्चारशून्यम् ॥ 3-161-45 परिक्षिप्तं परित आवृतम् ॥ 3-161-46 चयाट्टालकशोभिना । चयः प्रकारस्य मूलबन्धः । अट्टालकः उपरिगृहम् । तोरणं वहिर्द्वारम् । निर्व्यूहः नागदन्ताख्यं गृहान्निर्गतं दारु ॥ 3-161-48 वक्रभावेन वक्रेण बाहुना उपलक्षितः । खेदेन तद्दर्शनात्खसम्पात्स्मरणं तेन. द्रविणाधिपतेः धनाधिपतेः ॥ 3-161-51 ददृशे ददर्श ॥ 3-161-64 न मोहं भीमसेनस्येति झ. पाठः ॥ 3-161-68 अदर्शयदाधीकारमिति झ. पाठः ॥ 3-161-69 सङ्ख्ये सङ्ग्रामे ॥ 3-161-74 प्रत्यहन्यन्त प्रतिहताः । वेगिताः वेगवन्तोपि । गदावेगस्य गदायां वेगोऽत्यभ्यासो यस्य तस्य ॥ 3-161-75 सः भीमः । व्यंसयामास व्यर्थीचकार ॥ 3-161-76 अयस्मयी अयोमयीम् ॥ 3-161-79 शैक्यां शीकयति शत्रुन्पराभवतीति शैक्या । शीकयतेर्ऋहलोर्ण्यदिति ण्यत् । ततः स्वार्थिकोण् ॥