अध्यायः 160

आर्ष्टिपेणराजर्षिणा युधिष्ठिरम्प्रति कैलासवर्णनपूर्वकमर्जुनागमनपर्यन्तं स्वाश्रम एव निवासचोदना ॥ 1 ॥ 001 वैशम्पायन उवाच । 001a युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम् । 001c अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् ॥ 002a ततः कृष्णा च भीमश्च यमौ च सुतपस्विनौ । 002c शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे ॥ 003a तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः । 003c यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् ॥ 004a अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा । 004c पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् ॥ 005a कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः । 005c सह भ्रातृभिरासीनं पर्यपृच्छदनामयम् ॥ 006a नानृते कुरुषे भावं कच्चिद्धर्मे प्रवर्तसे । 006c मातापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति ॥ 007a कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः । 007c कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु ॥ 008a सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् । 008c यथान्यायं कुरुश्रेष्ठ जानासि न विकत्थसे ॥ 009a यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः । 009c वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे ॥ 010a कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते । 010c दानधर्मतपःशौचैरार्जवेन तितिक्षया ॥ 011a पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे । 011c कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव ॥ 012a स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः । 012c पितरः पितृलोकस्थाः शोचन्ति च रमन्ति च ॥ 013a किं तस्य दुष्कृतेऽस्माभिः सम्प्राप्तव्यं भविष्यति । 013c किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनं ॥ 014a पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः । 014c यस्यैतेपूजिताः पार्थ तस्य लोकावुभौ जितौ ॥ 015 [युधिष्ठिर उवाच । 015a भगवन्नार्य माऽऽहैतद्यथावद्धर्मनिश्चयम् । 015c यथाशक्ति यथान्यायं क्रियते विधिवन्मया ॥ 016 आर्ष्टिषेण उवाच ।] 016a अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा । 016c जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसन्धिषु ॥ 017a कामिनः सह कान्ताभिः परस्परमनुव्रताः । 017c दृश्यन्ते शैलशृङ्गस्था यथा किम्पुरुषा नृप ॥ 018a अरजांसि च वासांसि वसानाः कौशिकानि च । 018c दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः ॥ 019a विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः । 019c महोरगगणाश्चैव सुपर्णाश्चारणादयः ॥ 020a अस्य चोपरि शैलस्य श्रूयते पर्वसन्धिषु । 020c भेरीपणवशङ्खानां मृदङ्गानां च निःस्वनः ॥ 021a इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः । 021c न कार्या वः कथञ्चित्स्यात्तत्राभिगमने मतिः ॥ 022a न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः । 022c विहारस्तत्र देवानाममानुषगतिस्तु सा ॥ 023a ईषच्चपलकर्माणं मनुष्यमिह भारत । 023c द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः ॥ 024a अस्यातिक्रम्य शिखरं कैलासस्य युधिष्ठिर । 024c गतिः परमसिद्धानां देवर्षीणां प्रकाशते ॥ 025a चापलाद्धि न गन्तव्यं पार्थ यानैस्ततः परम् । 025c अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन ॥ 026a अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः । 026c इह वैश्रवणस्तात पर्वसन्धिषु दृश्यते ॥ 027a शिखरे तं समासीनमधिपं यक्षरक्षसाम् । 027c प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् ॥ 028a देवदानवसिद्धानां तथा वैश्रवणस्य च । 028c गिरेः शिखरमुद्यानमिदं भरतसत्तम ॥ 029a उपासीनस्य धनदं तुम्बुरोः पर्वसन्धिषु । 029c गीतसामस्वनस्तात श्रूयते गन्धमादने ॥ 030a एतदेवंविधं चित्रमिह तात युधिष्ठिर । 030c प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसन्धिषु ॥ 031a भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च । 031c वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनात् ॥ 032a न तात चपलैर्भाव्यमिह प्राप्तैः कथञ्चन । 032c 'चपलः सर्वभूतानां द्वेष्यो भवति मानवः' ॥ 033a उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च ।
033c ततः शस्त्रजितां श्रेष्ठ पृथिवीं पालयिष्यसि ॥

इति श्रीमन्महाभारते अरण्यपर्वणिः यक्षयुद्धपर्वणि षष्ट्यधिकततमोऽध्यायः ॥ 160 ॥

3-160-4 मुनिः आर्ष्टिषेणः ॥ 3-160-7 वैद्याः विद्यया विदिताः ॥ 3-160-8 सुष्टु कृतमस्य तं उपकारिणम् । दुष्कृतं अपकारिणं हातुं त्यक्तुं न विकत्थसे ज्ञातास्मीति न श्लाघसे ॥ 3-160-15 यथावत् माऽऽह यथामामाह ॥ 3-160-16 पर्वसन्धिषु प्रतिपत्पञ्चदश्योरन्तराले ॥ 3-160-28 उद्यानं क्रीडावनयुतम् ॥