अध्यायः 159

जटासुरवधानन्तरं सपरिवारेण युधिष्ठिरेण नरनारायणाश्रमे निवासः ॥ 1 ॥ ततो वृषपर्वाश्रमादिषु सुखेन सञ्चरणम् ॥ 2 ॥ तत आर्ष्टिषेणाश्रमगमनम् ॥ 3 ॥ 001 वैशम्पायन उवाच । 001a निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् । 001c अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः ॥ 002a स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः । 002c द्रौपद्या सहितः काले संस्मरन्भ्रातरं जयम् ॥ 003a समाश्चतस्रोऽभिगताः शिवेन चरतां वने । 003c कृतोद्देशः स बीभत्सुः पञ्चमीमभितः समाम् ॥ 004a प्राप्य पर्वतराजानं श्वेतं शिखरिणांवरम् । 004c [पुष्पितैर्द्रुमषण्डैश्च मत्तकोकिलषट्पदैः ॥ 005a मयूरैश्चातकैश्चापि नित्योत्सवविभूषितम् । 005c व्याघ्रैर्वराहैर्महिषैर्गवयैर्हरिणैस्तथा ॥ 006a श्वापदैर्व्यालरूपैश्च रुरुभिश्च निषेवितम् । 006c फुल्लैः सहस्रपत्रैश्च शतपत्रैस्तथोत्पलैः ॥ 007a प्रफुल्लैः कमलैश्चैव तथा नीलोत्पलैरपि । 007c महापुण्यं पवित्रं च सुरासुरनिषेवितम् ।] 007e तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ॥ 008a कृतश्च समयस्तेन पार्थेनामिततेजसा । 008c पञ्चवर्षाणि वत्स्याभि विद्यार्थीति पुरा मयि ॥ 009a अत्र गाण्डीवधन्वानमवाप्तास्त्रमरिन्दमम् । 009c देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् ॥ 010a इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः । 010c कारणं चैव तत्तेवामाचचक्षे तपस्विनाम् ॥ 011a तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् । 011c ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च ॥ 012a सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ । 012c क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि ॥ 013a तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम् । 013c प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परन्तपः ॥ 014a 'द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तदा' । 014c राक्षसैरनुयातो वै लोमशेनाभिरक्षितः ॥ 015a क्वचित्पद्भ्यां ततोऽगच्छद्राक्षसैरुदह्यते क्वचित् । 015c तत्रतत्र महातेजा भ्रातृभिः सह सुव्रतः ॥ 016a ततो युधिष्ठिरो राजा बहुन्क्लेशान्विचिन्तयन् । 016c सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् ॥ 017a अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् । 017c गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् ॥ 018a उपर्युपरि शैलस्य बहीश्च सरितः शिवाः । 018c पृष्ठं हिमवतः पुण्यं ययौ सप्तदशेऽहनि ॥ 019a ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकम् । 019c पृष्ठे हिमवतः पुण्ये नानाद्रुमलतावृते ॥ 020a सलिलावर्तसञ्जातैः पुष्पितैश्च महीरुहैः । 020c समावृतं पुण्यतममाश्रमं वृषपर्वणः ॥ 021a तमुपक्रम्य राजर्षिं धर्मात्मानमरिन्दमाः । 021c पाण्डवा वृषपर्वाणमवदन्त गतक्लमाः ॥ 022a अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान् । 022c पूजिताश्चावसंस्तत्रसप्तरात्रमरिन्दमाः ॥ 023a अष्टमेऽहनि सम्प्राप्ते तमृषिं लोकविश्रुतम् । 023c आमन्त्र्य वृषपर्वाणं प्रस्थानं प्रत्यरोचयन् ॥ 024a एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणि । 024c न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान् । 024e पारिबर्हं च तं शेषं परिदाय महात्मने ॥ 025a ततस्ते यज्ञपात्राणि रत्नान्याभरणानि च । 025c न्यदधुः पाण्डवा राजन्नाश्रमे वृषपर्वणः ॥ 026a अतीतानागते विद्वान्कुशलः सर्वधर्मवित् । 026c अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् ॥ 027a तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम् । 027c 'कुष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः 028a तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतीन् । 028c उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा ॥ 029a अनुसंसार्य कौन्तेयानाशीर्भिरभिनन्द्य च । 029c वृषपर्वा निववृते पन्थानमुपदिश्य च ॥ 030a नानामृगगणैर्जुष्टङ् कौन्तेयः सत्यविक्रमः । 030c पदातिर्भ्रातृभिः सार्धम् प्रातिष्ठत युधिष्ठिरः ॥ 031a नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु । 031c पर्वतं विविशुस्ते तञ् चतुर्थेऽहनि पाण्डवाः ॥ 032a महाभ्रघनसङ्काशं सलिलोपहितं शुभम् । 032c मणिकाञ्चनरम्यञ् च शैलन् नानासमुच्छ्रयम् ॥ 033a 'रम्यं हिमवतः प्रस्थम् बहुकन्दरनिर्झरम् । 033c शिलाविभङ्गविकटं लतापादपसङ्कुलम्' ॥ 034a ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा । 034c अनुसस्रुर्यथोद्देशम् पश्यन्तो विविधान्नगान् ॥ 035a उपर्युपरि शैलस्य गुहाः परमदुर्गमाः । 035c सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः ॥ 036a धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः । 036c आगच्छन्सहितास्तत्र न कश्चिदपि हीयते ॥ 037a ते मृगद्विजसङ्घुष्टन् नानाद्रुमलतायुतम् । 037c शाखामृगगणैश्चैव सेवितं सुमनोरमम् ॥ 038a पुण्यम् पद्मसरोपेतं सपल्वलमहावनम् । 038c उपतस्थुर्महाभागा माल्यवतम् महागिरिम् ॥ 039a ततः किम्पुरुषावासं सिद्धचारणसेवितम् । 039c ददृशुर्हृष्टरोमाणाः पर्वतङ् गन्धमादनम् ॥ 040a विद्याधरानुचरितङ् किन्नरीभिस्तथैव च । 040c गजसङ्घसमावासं सिंहव्याघ्रगणायुतम् ॥ 041a शरभोन्नादसङ्घुष्टन् नानमृगनिषेवितम् ॥ 042a ते गन्धमादनवनं तन्नन्दनवनोपमम् । 042c मुदिताः पाण्डुतनया मनोनयननन्दनम् ॥ 043a विविशुः क्रमशो वीरा अरण्यं शुभकाननम् । 043c द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः ॥ 044a शृण्वन्तः प्रीतिजननान्वल्गून्मन्दकलाञ्शुभान् । 044c श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ॥ 045a सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलाम् । 045c पश्यन्तः पादपांश्चापि फलभारावनामितान् ॥ 046a आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान् । 046c मुञ्जातकांस्तथाञ्जीरान्दाडिमान्बीजपूरकान् ॥ 047a पनसाल्ँलिकुचान्मोचाः खर्जूरानम्लवेतसान् । 047c परावतांस्तथा क्षौद्रानीपांश्चापि मनोरमान् ॥ 048a बिल्वान्कपित्थाञ्जम्बूश्च काश्मरीर्ब्रदरीस्तथा । 048c पुक्षानुदुम्बरवटानश्वत्थान्क्षीरिकास्तथा ॥ 049a भल्लातकानामलकीर्हरीतकबिभीतकान् । 049c इङ्गुदान्करमर्दांश्च तिन्दुकांश्च महाफलान् ॥ 050a एतानन्यांश्च विविधान्गन्धमादनसानुषु । 050c फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरून् ॥ 051a तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा । 051c पुन्नागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान् । 051e पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा ॥ 052a पारिजातान्कोविदारान्देवदारुद्रुमांस्तथा । 052c शालांस्तालांस्तमालांश्च पिप्पलान्हिङ्गुकांस्तथा ॥ 052e शाल्मलीःकिंशुकाशोकाञ्शिंशुपाः सरलांस्तथा || 053a चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः । 053c कोकिलैः कलविङ्कैश्च हारितैर्जीवजीवकैः ॥ 054a प्रियकैश्चातकैश्चैव तथाऽन्यैर्विविधैः खगैः । 054c श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् ॥ 055a सरांसि च मनोज्ञानि समन्ताज्जलचारिभिः । 055c कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः । 055e कहारैः कमलैश्चैव आचितानि समन्ततः ॥ 056a कादम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः । 056c कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च ॥ 057a एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः । 057c हृष्टैस्तथा तामरसरसासवमदालसैः ॥ 058a पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः । 058c मञ्जुस्वरैर्मधुकरैर्विरुतान्कमलाकरान् ॥ 059a अपश्यंस्ते नरव्याघ्रा गन्धमादनसानुषु । 059c तथैव पद्मषण्डैश्च मण्डितांश्च समन्ततः ॥ 060a शिखण्डिनीभिः सहिताल्ँलतामण्डलकेषु च । 060c मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् ॥ 061a कृत्वैव केकामधुरं सङ्गीतं मधुरस्वरम् । 061c चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् ॥ 062a मयूरान्ददृशुर्हृष्टान्नृत्यतो वनलालसान् । 062c कांश्चित्प्रियाभिः सहितान्रममाणान्कलापिनः ॥ 063a वल्लीलतासङ्कटेषु कुटजेषु स्थितांस्तथा । 063c कांश्चिच्च कुटजानां तु विटपेषूत्कटानिव ॥ 064a कलापरुचिराटोपनिचितान्मुकुटानिव । 064c विवरेषु तरूणां च रुचिरान्ददृशुश्च ते ॥ 065a सिन्धुवारांस्तथोदारान्मन्मथस्येव तोमरान् । 065c सुवर्णवर्णकुसुमान्गिरीणां शिखरेषु च । 065e कर्णिकारान्विकसितान्कर्णपूरानिवोत्तमान् ॥ 066a तथाऽपश्यन्कुरबकान्वनराजिषु पुष्पितान् । 066c कामवश्यौत्सुक्यकरान्कामस्येव शरोत्करान् ॥ 067a तथैव वनराजीनामुदारान्रचितानिव । 067c विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव ॥ 068a तथानङ्गशराकारान्सहकारान्मनोरमान् । 068c अपश्यन्भ्रामरान्राजन्मञ्जरीभिर्विराजितान् ॥ 069a हिरण्यसदृशैः पुष्यैर्दावाग्निसदृशैरपि । 069c लोहितैरञ्जनाभैश्च वैदूर्यसदृशैरपि । 069e अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥ 070a तथा सालांस्तमालांश्च पाटलाबकुलानपि । 070c माला इव समासक्ताः शैलानां शिखरेषु च ॥ 071a विमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः । 071c कलहंसैरुपेतानि सारसाभिरुतानि च ॥ 072a सरांसि बहुशः पार्था पश्यन्तः शैलसानुषु । 072c पद्मोत्पलविमिश्राणि सुखशीतजलानि च ॥ 073a एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः । 073c गन्धवन्त्यथ माल्यानि रसवन्ति फलानि च ॥ 074a सरांसि च मनोज्ञानि वृक्षांश्चातिमनोरमान् । 074c विविशुः पाण्डवाः सर्वेविस्मयोत्फुल्ललोचनाः ॥ 075a कमलोत्पलकह्लारपुण्डरीकसुगन्धिना । 075c सेव्यमाना वने तस्मिन्सुखस्पर्शेन वायुना ॥ 076a ततो युधिष्ठिरो भीममाहेदं प्रीतिमद्वचः । 076c अहो श्रीमदिदं भीम गन्धमादनकाननम् ॥ 077a वने ह्मस्मिन्मनोरम्ये दिव्या काननजा द्रुमाः । 077c लताश्च विविधाकाराः पत्रपुष्पफलोपगाः । 077e भान्त्येते पुष्पविकचाः पुंस्कोकिलकुलाकुलाः ॥ 078a नात्र कण्टकिनः केचिन्न च विद्यन्त्यपुष्पिताः । 078c स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ॥ 079a भ्रमरारावमधुरा नलिनीः फुल्लपङ्कजाः । 079c विलोड्यमाना पश्येमाः करिभिः सकरेणुभिः ॥ 080a पश्येमां नलिनीं चान्यां कमलोत्पलमालिनीम् । 080c स्रग्धरां विग्रहवतीं साक्षाच्छ्रियमिवापराम् ॥ 081a नानाकुसुमगन्धाढ्यास्तस्येमाः काननोत्तमे । 081c उपगीयमाना भ्रमरै राजन्ते वनराजयः ॥ 082a पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः । 082c अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ॥ 083a लताभिः पुष्पिताग्राभिः पुष्पिताः पादपोत्तमाः । 083c संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु ॥ 084a शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम् । 084c नदतां शृणु निर्घोषं भीम पर्वतसानुषु ॥ 085a चकोराः शतपत्राश्च मत्तकोकिलशारिकाः । 085c पत्रिणः पुष्पितानेतान्सम्पतन्ति महाद्रुमान् ॥ 086a रक्तपीतारुणाः पार्थ पादपाग्रगताः खगाः । 086c परस्परमुदीन्ते बहवो जीवजीवकाः ॥ 087a हरितारुणवर्णानां शाड्वलानां समीपतः । 087c सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि ॥ 088a वदन्ति मधुरा वाचः सर्वभूतमनोरमाः । 088c भृङ्गराजोपचक्राश्च लोहपृष्ठाः पतत्रिणः ॥ 089a चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः । 089c एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः ॥ 090a बहुतालसमुत्सेघाः शैलशृङ्गपरिच्युताः । 090c नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्ति च ॥ 091a भास्कराभप्रभा भीमाः शारदाभ्रघनोपमाः । 091c शोभयन्ति महाशैलं नानारजतधातवः ॥ 092a क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसन्निभाः । 092c धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ॥ 093a मनःशिलागुहाश्चैव सन्ध्याभ्रनिकरोपमाः । 093c शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः ॥ 094a सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः । 094c एते बहुविधाः शैलं शोभयन्ति महाप्रभाः ॥ 095a गन्धर्वाः सह कान्ताभिर्यथेष्टं भीमविक्रमाः । 095c दृश्यन्ते शैलशृङ्गेषु पार्थ किम्पुरुषैः सह ॥ 096a गीतानां समतालानां तथा साम्नां च निःस्वनः । 096c श्रूयते बहुधा भीम सर्वभूतमनोहरः ॥ 097a महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम् । 097c कलहंसगणैर्जुष्टामृषिकिन्नरसेविताम् ॥ 098a धातुभिश्च सरिद्भिश्च किन्नरैर्मृगपक्षिभिः । 098c गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः ॥ 099a व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः । 099c उपेतं पश्य कौन्तेय शैलराजमरिन्दम ॥ 100 वैशम्पायन उवाच । 100a ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम् । 100c नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परन्तपाः ॥ 101a उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः । 101c आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा ॥ 102a ततस्ते तिग्मतपसं कृशं धमनिसन्ततम् । 102c पारगं सर्वविद्यानामार्ष्टिषेणमुपागमन् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि एकोनषष्ट्यधिकशततमोऽध्यायः ॥ 159 ॥

3-159-2 जयं अर्जुनम् ॥ 3-159-3 कृतोद्देशः पञ्चमे वर्षे मयाऽवश्यमागन्तव्यमिति कृतसङ्केतः ॥ 3-159-4 श्वेतं कैलासम् ॥ 3-159-7 तत्रापि देशे अस्माभिरिति शेषः । उद्देशः कृतः । सन्धिरार्षः ॥ 3-159-12 सुखोदर्कं सुखोदयम् ॥ 3-159-28 उपन्यस्य निवेद्य ॥ 3-159-29 अनुसंसार्य अनुगम्य ॥ 3-159-57 तामरसानां रसएव आसवो मद्यं तज्जेन मदेन अलसाः ॥ 3-159-58 विरुतान्विशिष्टशब्दयुतान् ॥ 3-159-63 कुटजेषु वृक्षविशेषेषु । वल्लीनां रलताप्रतानानि तैः सङ्कटेषु कुञ्जीकृतेषु ॥ 3-159-65 सिन्धुवारान् पद्मविशेषान् ॥ 3-159-66 कामवश्यानां नराणामौत्मुक्यकरान् ॥ 3-159-76 हे भीम ॥ 3-159-80 नलिनीं सरसीम् । कमलोत्पलयोरवान्तरजातिभेदः । विग्रहवतीं शरीरवतीम् ॥ 3-159-81 तस्य शैलस्य ॥ 3-159-88 भृङ्गराजादयः पक्षिविशेषाः ॥ 3-159-89 चतुर्विषाणाश्चतुर्दन्ताः ॥