अध्यायः 158

विप्रवेषेण पाण्डवनिकटचिरवासिना जटासुरेण भीमासन्निधाने द्रौपदीसहितान्युधिष्ठिरादीनपहृत्य पलायनम् ॥ 1 ॥ मध्येमार्गं यदृच्छासमागतेन भीमन तस्य मारणम् ॥ 2 ॥ 001वैशम्पायन उवाच । 001a ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान् । 001c [पर्वतेन्द्रे द्विजैः सार्धं पार्तागमनकाङ्क्षया ॥] 002a गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च । 002c रहितान्मीमसेनेन कदाचित्तान्यदृच्छया । 002e जहार धर्मराजं वै यमौ कृष्णां च राक्षसः ॥ 003 'जनमेजय उवाच । 003a ब्रह्मन्कथं धर्मराजं यमौ कृष्णां च राक्षसः । 003c जहार चित्रं भीमश्च गतो राक्षसकण्टकः । 003e वक्तुमर्हसि विप्राग्र्य व्यक्तमेतन्ममाऽनघ ॥ 004 वैशम्पायन उवाच ।' 004a ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः । 004c इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा । 004e परीप्समानः पार्थानां कलापांश्च धनूंषि च ॥ 005a अन्तरं सम्परिप्रेप्सुर्द्रौपद्या हरणं प्रति । 005c दुष्टात्मा पापबुद्धिः स नाम्ना ख्यातो जटासुरः ॥ 007a [पोषणं तस्य राजेन्द्र चक्रे पाण्डवनन्दनः । 007c बुबुधे न च तं पापं भस्मच्छन्नमिवानलम् ॥ 007a स भीमसेने निष्क्रान्ते मृगयार्थमरिन्दमे । 007c [घटोत्कचं सानुचरं दृष्ट्वा विप्रद्रुतं दिशः ॥ 008a लोमशप्रभृतींस्तांस्तु महर्षींश्च समाहितान् । 008c स्नातुं विनिर्गतान्दृष्ट्वा पुष्पार्थं च तपोधनान्] ॥ 009a रूपमन्यत्समास्थाय विकृतं भैरवं महत् । 009c गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च । 009e प्रातिष्ठत सुदुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् ॥ 0010a सहदेवस्तु यत्नेन ततोपक्रम्य पाण्डवः 010c [विक्रम्य कौशिकं खङ्गं मोक्षयित्वा ग्रहं रिपोः ।] 010e आक्रन्दद्भीमसेन वै येन यातो महाबलः ॥ 011a तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः । 011c धर्मस्ते हीयते मूढ न चैनं समवेक्षसे ॥ 012a येऽन्ये क्वचिन्मनुष्येषु तिर्यग्योनिगताश्च ये । 012c धर्मं ते समवेक्षन्ते रक्षांसि च विशेषतः ॥ 013a धर्मस्य राक्षसा मूलं धर्मं ते विदुरुत्तमम् । 013c एतत्परीक्ष्य सर्वं त्वं समीपे स्थातुमर्हसि ॥ 014a देवाश्च ऋषयः सिद्धाः पितरश्चापि राक्षस । 014c गन्धर्वोरगरक्षांसि वयांसि पशवस्तथा ॥ 015a तिर्यग्योनिगताश्चैव अपि कीटपिपीलिकाः । 015c मनुष्यानुपजीवन्ति ततस्त्वमपि जीवसि ॥ 016a समृद्ध्या यस्य लोकस्य लोको युष्माकमृध्यति । 016c इमं च लोकं शोचन्तमनुशोचन्ति देवताः । 016e पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ॥ 017a वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस । 017c राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ॥ 018a न च राजाऽवमन्तव्यो रक्षसा जात्वनागसि । 018c अणुरप्यपचारश्च नास्त्यस्माकं नराशन ॥ 019a विघसाशान्यथाशक्त्या कुर्महे देवतादिषु । 019c गुरूंश्च ब्राह्मणांश्चैव प्रमाणप्रवणाः सदा ॥ 020a द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् । 020c येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥ 021a स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः । 021c भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि ॥ 022a एवमेव वृथाचारो वृथा वृद्धो वृथामतिः । 022c वृथामरणमर्हस्त्वं वृथाऽद्य न भविष्यसि ॥ 023a अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः । 023c प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर ॥ 024a अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि । 024c अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलं ॥ 025a एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम् । 025c विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया ॥ 026a ततो युधिष्ठिरस्तस्य भारिकः समपद्यत । 026c स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् ॥ 027a अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः । 027c मा भैष्टं राक्षसान्मूढाद्गतिरस्य मया हृता ॥ 028a नातिदूरे महबाहुर्भविता पवनात्मजः । 028c अस्मिन्मुहूर्ते सम्प्राप्ते न भविष्यति राक्षसः ॥ 029a सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम् । 029c उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् ॥ 030a राजन्किं नाम सत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम् । 030c यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रुं जयेत वा ॥ 031a एष वास्मान्वयं वैनं युध्यमानाः परन्तप । 031c सूदयेम महाबाहो देशः कालो ह्ययं नृप ॥ 032a क्षत्रधर्मस्य सम्प्राप्तः कालः सत्यपराक्रम । 032c जयन्तो हन्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥ 033a राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि । 033c नाहं ब्रूयां पुनर्जातु क्षत्रियोस्मीति भारत ॥ 034a भोभो राक्षस तिष्ठस्व सहदेवोस्मि पाण्डवः । 034c हत्वा वा मां नयस्वैनां हतो वा स्वप्स्यसीह वै ॥ 035a तदा ब्रुवति माद्रेये भीमसेनो यदृच्छया । 035c प्रादृश्यत महाबाहुः सवज्र इव वासवः ॥ 036a सोऽपश्यद्धातरौ तत्र द्रौपदीं च यशस्विनीम् । 036c क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा ॥ 037a मार्गाच्च राक्षसं मूढं कालोपहतचेतसम् । 037c भ्रमन्तं तत्रतत्रैव दैवेन परिमोहितम् ॥ 038a हृतान्सन्दृश्य तान्भ्रातृन्द्रौपदीं च महाबलः । 038c क्रोधमाहारयद्भीमो राक्षसञ्चेदमब्रवीत् ॥ 039a विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे । 039c आस्था तु त्वयि मे नास्ति यतोसि न हतस्तदा ॥ 040a ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् । 040c प्रियेषु रममाणं त्वां न चैवाप्रियकारिणम् । 040e ब्रह्मरूपेण विहितं नैव हन्यामनागसम् ॥ 041a राक्षसं जानमानोऽपि यो हन्यान्नरकं व्रजेत् । 041c अपक्वस्य च कालेन वधस्तव न विद्यते ॥ 042a नूनमद्यासि सम्पक्वो यथा ते मतिरीदृशी । 042c दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा । 042e 'सोपि कालं समासाद्य तथाऽद्य न भविष्यसि' ॥ 043a बडिशोऽयन्त्वया ग्रस्तः कालसूत्रेण लम्बितः । 043c मत्स्योऽम्भसीव स्यूतास्यः कथमद्य गमिष्यसि ॥ 044a यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते । 044c न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ॥ 045a एवमुक्तस्तु भीमेन राक्षसः कालचोदितः । 045c भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ॥ 046a अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः । 046c न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् ॥ 047a श्रुता मे राक्षसा ये ये त्वया विनिहता रणे । 047c तेषामद्यकरिष्यामि तवास्रेणोदकक्रियाम् ॥ 048a 'एवमुक्त्वातदा भीमं राक्षसो योद्धुमाययौ । 048c करालवदनः क्रोधात्कालसर्प इव श्वसन्' ॥ 049a एवमुक्तस्ततो भीमः सृक्विणी परिलेलिहन् । 049c स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः ॥ 050a 'ब्रुवन्वै तिष्ठतिष्ठेति क्रोधसंरक्तलोचनः' । 050c बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् ॥ 051a राक्षसो'पि तदा भीमं युद्धार्थिनमवस्थितम् 051c मुहुर्मुहुर्व्याददानः सृक्विणी परिसंलिहन् ।] 051e अभिदुद्राव संरब्धो बलो वज्रधरं यथा ॥ 052a भीमसेनोऽप्यवष्टब्धो नियुद्धायाभवत्स्थितः । 052c राक्षसोऽपि च विस्रब्धो बाहुयुद्धमकाङ्क्षत' ॥ 053a वर्तमाने तयो राजन्बाहुयुद्धे सुदारुणे । 053c माद्रीपुत्रावतिक्रुद्धावुभावप्यभ्यधावताम् ॥ 054a न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः । 054c शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ॥ 055a आत्मना भ्रातृभिश्चैव धर्मेण सुकृतेन च । 055c इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ॥ 056a इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् । 056c बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ॥ 057a तयोरासीत्सम्प्रहारः क्रुद्धयोर्भीमरक्षसोः । 057c अमृष्यमाणयोः सङ्ख्ये शक्रशम्बरयोरिव ॥ 058a तौ वीरौ समभिक्रुद्धावन्योन्यं पर्यधावताम् । 058c आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः । 058e जीमूताविव धर्मान्ते विनदन्तौ महाबलौ ॥ 059a बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ । 059c अन्योन्येनाभिसंरब्धौ परस्परवधैषिणौ ॥ 070a तद्वृक्षयुद्धमभवनमहीरुहविनाशनम् । 070c वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥ 071a आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् । 071c ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः ॥ 072a तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः । 072c पुगीकृताश्च शतशः परस्परवधेप्सया ॥ 073a ततः शिलाः समादाय मुहूर्तमिव भारत । 073c महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ ॥ 074a शिलाभिरुग्ररूपाभिर्बृहतीभिः परस्परम् । 074c वज्रैरिव महावेगैराजघ्नतुरमर्षणौ ॥ 075a अभिद्रुत्य च भूयस्तावन्योन्यबलदर्पितौ । 075c भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव ॥ 076a मुष्टिभिश् महाघोरैरन्योन्यमभिपेततुः । 076c ततः कटकटाशब्दो बभूव सुमहात्मनोः ॥ 077a ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम् । 077c वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् ॥ 078a ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् । 078c सुपरिभ्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत ॥ 079a तत एनं महाबाहुर्बाहुभ्याममरोपमः । 079c समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले ॥ 070a 'ततः सम्पीड्य बलवद्भुजाभ्यां क्रोधमूर्च्छितः । 070c ‘तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः । 070e अरत्निना चाभिहत्य शिरः कायादपाहरत् ॥ 071a सन्दष्टौष्ठं विवृत्ताक्षं फलं वृक्षादिव च्युतम् । 071c जटासुरस्य तु शिरो भीमसेनबलाद्धृतम् । 071e पपात रुधिरादिग्धं सन्दष्टदशनच्छदम् ॥ 072a तं निहत्यमहेष्वासो युधिष्ठिरमुपागमत् 072c स्तूयमानो द्विजाग्र्यैस्तु मरुद्भिरिव वासवः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि जटासुरवधपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥

3-158-4 कलापान् निषङ्गान् ॥ 3-158-10 कौशिकं कोशादागतम् । ग्रहं ग्रहणम् ॥ 3-158-16 युष्माकं देवासुरादीनाम् । ऋध्यति वृद्धिं गच्छति ॥ 3-158-19 विघसाशान् देवादिशेषान्नं विघसं तस्य आशो भोजनं येषां तान् ॥ 3-158-20 प्रतिश्रयो गृहम् ॥ 3-158-22 नभविष्यसि मरिष्यति ॥ 3-158-26 गुरुकः समपद्यतेति झ. पाठः ॥ 3-158-30 सत्कृत्यं साधुकार्यम् ॥ 3-158-39 आस्था त्वन्मारणे आदरः ॥ 3-158-40 अतिथि ब्रह्मरूपं च कथं इति झ. पाठः ॥ 3-158-42 कालपक्व इदानीं त्वं यथेति थ. पाठः ॥ 3-158-43 बडिशो मत्स्यवेधनम् ॥ 3-158-47 अस्रेण लोहितेन ॥ 3-158-60 पुरा स्त्रीकाङ्क्षिणोर्यथा इति झ. पाठः ॥ 3-158-61 आविध्य भ्रामयित्वा ॥ 3-158-62 मुञ्जीकृताश्चेति झ. पाठः । तत्र मुञ्जीकृताः रज्ज्वर्थं मुञ्जवज्जर्जरीकृता इत्यर्थः ॥ 5-158-63 महाभ्रैरिवेत्यभूतोपमा ॥ 3-158-67 शिरोधरां ग्रीवाम् ॥ 3-158-68 अभ्यवर्तत अधिकोत्साह्वानभूत् ॥