अध्यायः 157
गन्धमादनादुत्तरं देशं जिगमिषुणा युधिष्ठिरेण आकाशवाणीश्रवणात्ततः प्रतिनिवृत्य अनुचरैःसह नरनारायणाश्रमं प्रति पुनरागमनम् ॥ 1 ॥ 001वैशम्पायन उवाच । 001a तस्मिन्निवसमानोऽथ धर्मराजो युधिष्ठिरः । 001c आमन्त्र्य सहितान्भ्रातृनित्युवाच सहद्विजान् ॥ 002a दृष्टानि तीर्थान्यस्माभिः पुण्यानि च शिवानि च । 002c मनसो ह्लादनीयानि वनानि च पृथक्पृथक् ॥ 003a देवैः पूर्वं विचीर्णानि मुनिभिश्च महात्मभिः । 003c यथाक्रममशेषेण द्विजैः सम्पूजितानि च ॥ 004a ऋषीणां पूर्वचरितं तपोधर्मविचेष्टितम् । 004c राजर्षीणां च चरितं कथाश्च विविधाः शुभाः ॥ 005a शृण्वानास्तत्रतत्र स्म आश्रमेषु शिवेषु च । 005c अभिषेकं द्विजैः सार्धं कृतवन्तो विशेषतः ॥ 006a अर्चिताः सततं देवाः पुष्पैरद्भिः सदा च वः । 006c यथालब्धैर्मूलफलैः पितरश्चापि तर्पिताः ॥ 007a पर्वतेषु च रम्येषु सर्वेषु च सरस्सु च । 007c उदधौ च महापुण्ये सूपस्पृष्टं महात्मभिः ॥ 008a इला सरस्वती सिन्धुर्यमुना नर्मदा तथा । 008c नानातीर्थेषु रम्येषु सूपस्पृष्टं सह द्विजैः ॥ 009a गङ्गाद्वारमतिक्रम्य बहवः पर्वताः शुभाः । 009c हिमवान्पर्वतश्चैव नानाद्विजगणायुतः ॥ 010a विशाला बदरी दृष्टा नरनारायणाश्रमः । 010c दिव्यपुष्करिणी दृष्टा सिद्धदेवर्षिपूजिता ॥ 011a यथाक्रमविशेषेण सर्वाण्यायतनानि च । 011c दर्शितानि द्विजेनद्रेण लोमशेन महात्मना ॥ 012a इमं वैश्रवणावासं दुर्गमं गन्धमादनम् । 012c कथं भीम गमिष्यामो मतिरत्र विधीयताम् ॥ 013 वैशम्पायन उवाच । 013a एवं ब्रुवति राजेन्द्रे वागुवाचाशरीरिणी । 013c न शक्यो दुर्गमो गन्तुं पर्वतो गन्धमादनः ॥ 014a अननैव पथा राजन्प्रतिगच्छ यथागतम् । 014c नरनारायणस्थानं बदरीत्यभिविश्रुतम् ॥ 015a तस्माद्यास्यसि कौन्तेय सिद्धचारणसेवितम् । 015c बहुपुष्पफलं रम्यमाश्रमं वृषपर्वणः ॥ 016a अतिक्रम्य च तं पार्थ त्वार्ष्टिषेणाश्रमे वसेः । 016c ततो द्रक्ष्यसि कौन्तेय निवेशं धनदस्य च ॥ 017a एतस्मिन्नन्तरे वायुर्दिव्यगन्धवहः शुभः । 017c मनःप्रह्लादनः शीतः पुष्पवर्षं ववर्ष वै ॥ 018a तच्छ्रुत्वा दिव्यमाकाशाद्विस्मयः समपद्यत । 018c ऋषीणां ब्राह्मणानां च पार्थिवानां विशेषतः ॥ 019a श्रुत्वा तन्महदाश्चर्यं द्विजो धौम्यस्त्वभाषत । 019c न शक्यमुत्तरं गन्तुं प्रतिगच्छाम पाण्डव ॥ 020a ततो युधिष्ठिरो राजा विस्मयोत्फुल्ललोचनः । 020c [प्रत्यागम्य पुनस्तं तु नरनारायणाश्रमम् ॥] 021a भीमसेनादिभिः सर्वैर्भ्रातृभिः परिवारितः । 021c पाञ्चाल्या ब्राह्मणैश्चैव न्यवसत्सुसुखं तदा ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ 157 ॥