अध्यायः 156
दुर्निमित्तप्रदर्शिना भीमसेनानवलोकिना च युधिष्ठिरेण द्रौपदीम्प्रतिभीमाभिगतदेशप्रश्नः ॥ 1 ॥ द्रौपद्या भीमचिकीर्षितं निवेदितेन युधिष्ठिरेण घटोत्कचसाहाय्येन भीमसमीपगमनम् ॥ 2 ॥ कुबेरबहुमानितैस्तैरर्जुनदिदृक्षया तत्रैव सुखेन विहरणम् ॥ 3 ॥ 001वैशम्पायन उवाच । 001a ततस्तानि महार्हाणि दिव्यानि भरतर्षभ । 001c बहूनि बहुरूपाणि विरजांसि समाददे ॥ 002a ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः । 002c प्रादुरासीद्वरस्पर्शः सङ्ग्राममभिचोदयन् ॥ 003a पपात महती चोल्का सनिर्घाता महाभया । 003c निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः ॥ 004a निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते । 004c चचाल पृथिवी चापि पांसुवर्षं पपात च ॥ 005a सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः । 005c तमोवृतमभूत्सर्वं न प्राज्ञायत किञ्चन । 005e [अन्ये च बहवो भीमा उत्पातास्तत्र जज्ञिरे ॥] 006a तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः । 006c उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति ॥ 007a सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः । 007c यथा रूपाणि पश्यामि सुव्यक्तो नः पराक्रमः ॥ 008a एवमुक्त्वा ततो राजा वीक्षाञ्चक्रे समन्ततः । 008c अपश्यमानो भीमं तु धर्मपुत्रो युधिष्ठिरः ॥ 009a ततः कृष्णां यमौ चापि समीपस्थानरिन्दमः । 009c पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे ॥ 010a कच्चिन्न भीमः पाञ्चालि किञ्च कृत्यं चिकीर्षति । 010c कृतवानपि वा वीर साहसं साहसप्रियः ॥ 011a इमे ह्यकस्मादुत्पाता महासमरशंसिनः । 011c दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः ॥ 012a तं तथावादिनं कृष्णा प्रत्युवाच मनस्विनी । 012c प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी ॥ 013a यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना । 013c तन्मया भीमसेनस्य प्रीतयाऽद्योपपादितम् ॥ 014a अपि चोक्तो मया वीरो यदि पश्येर्बहून्यपि । 014c तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति ॥ 015a स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः । 015c प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः ॥ 016a उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत् । 016c गच्छाम सहितास्तूर्णं येन यातो वृकोदरः ॥ 017a वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान् । 017c त्वमप्यमरसङ्काश वह कृष्णां घटोत्कच ॥ 018a व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः । 018c चिरं च तस्य कालोऽयं स च वायुसमो जवे ॥ 019a तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने । 019c उत्पतेदपिचाकाशं निपतेच्च यथेच्छकम् ॥ 020a तमन्वियाम भवतां प्रभावाद्रजनीचराः । 020c पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् ॥ 021a तथेत्युक्त्वा तु ते सर्वेहैडिम्बप्रमुखास्तदा । 021c उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ ॥ 022a आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः । 022c लोमशेनैव सहिताः प्रययुः प्रीतमानसाः ॥ 023a ते सर्वे त्वरिता गत्वा ददृशुस्तत्र कानने । 023c पद्मसौगन्धिकवतीं नलिनीं सुमनोरमाम् ॥ 024a तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् । 024c ददृशुर्निहतांश्चैव यक्षांश्च विपुलेक्षणान् ॥ 025a भिन्नकायाक्षिबाहूरुन्सञ्चूर्णितशिरोधरान् । 025c तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् ॥ 026a सक्रोधं स्तब्धनयनं सन्दष्टदशनच्छदम् । 026c उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् ॥ 027a प्रजासङ्क्षेपसमये दण्डहस्तमिवान्तकम् । 027c तं दृष्ट्वा धर्मराजस्तु परिष्वज्याथ भारत ॥ 028a उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम् । 028c साहसं वत भद्रं ते देवानामपि चाप्रियम् । 028e पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥ 029a अनुशिष्य तु कौन्तेयं पद्मानि परिगृह्य च । 029c तस्यामेव नलिन्यां तु विजह्रुरमरोपमाः ॥ 030a एतस्मिन्नैव काले तु प्रगृहीतशिलायुधाः । 030c प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः ॥ 031a ते दृष्ट्वा धर्मराजानं महर्षिं चापि लोमशम् । 031c नकुलं सहदेवं च तथाऽन्यान्ब्राह्मणर्षभान् ॥ 032a विनयेन नताः सर्वेप्रणिपत्य च भारत । 032c सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः ॥ 033a विदिताश्चकुबेरस्य तत्रते कुरुपुङ्गवाः । 033c ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः । 033e प्रतीक्षमाणा बीभत्सुं गन्धमादनसानुषु ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चपञ्चाशदधिकशततमोऽष्यायः ॥ 156 ॥
3-156-7 पराक्रमः पराक्रमकालः ॥ 3-156-21 उद्देशज्ञाः स्थलज्ञाः ॥