अध्यायः 155

भीमेन सौगन्धिकसरोरक्षकान्प्रति स्वचिकीर्षितकथनपूर्वकं सौगन्धिकाहरणे प्रवर्तनम् ॥ 1 ॥ तथा सप्रतिषेधं स्वजिघांसूनां तेषां गदया ताडनम् ॥ 2 ॥ भीमगदाप्रहारमशक्नुवद्भिस्तैर्भीमवृत्तं निवेदितेन कुबेरेण तदनुमोदनम् ॥ 3 ॥ 001 भीम उवाच । 001a पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः । 001c विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ॥ 002a अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम् । 002c अनिलोढमितो नूनं सा बहूनि परीप्सति ॥ 003a तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् । 003c पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ॥ 004 राक्षसा ऊचुः । 004a आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ । 004c नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मणा ॥ 005a देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर । 005c आमन्त्र्य यक्षप्रवरं पिबन्ति च हरन्ति च ॥ 006a गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव । 006c 'यक्षाधिपस्यानुमते कुबेरस्य महात्मनः' ॥ 007a अन्यायेनेह यः कश्चिदवमत्य धनेश्वरम् । 007c विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येन्न संशयः ॥ 008a तमनादृत्य पद्मानि जिहीर्षसि बलादिह । 008c धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ॥ 009a [आमन्त्र्य यक्षराजं वै ततः पिब हरस्व च । 009c नातोऽन्यथा त्वया शक्यं किञ्चित्पुष्करमीक्षितुं ॥ 010 भीमसेन उवाच । 010a राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके । 010c दृष्ट्वाऽपि च महाराजं नाहं याचितुमुत्सहे ॥ 011a न हि याचन्ति राजान एष धर्मः सनातनः । 011c न चाहं हातुमिच्छामि क्षात्रधर्मं कथञ्चन ॥ 012a इयं च नलिनी रम्या जाता पर्वतनिर्झरे । 012c नेयं भवनमासाद्य कुबेरस्य महात्मनः ॥ 013a तुल्या हि सर्वभूतानामियं वैश्रवणस्य च । 013c एवं गतेषु द्रव्येषु कः कं याचितुमर्हति ॥ 014a इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत । 014c तां तु पुष्करिणीं वीरः प्रभिन्न इव कुञ्जरः ॥ 015a ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् । 015c मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ॥ 016a कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः । 016c व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ॥ 017a गृह्णीत बध्नीत विकर्ततेमं पचाम खादाम च भीमसेनम् । 017c क्रुद्धा ब्रुवन्तोऽभिययुर्द्रुतं ते शस्त्राणि चोद्यम्य विवृत्तनेत्राः ॥ 018a ततः स गुर्वीं यमदण्डकल्पां महागदां काञ्चनपट्टबद्धाम् 018c प्रगृह्य तानभ्यपतत्तरस्वी ततोऽब्रवीत्तिष्ठत तिष्ठतेति ॥ 019a ते तं तदा तोमरपट्टसाद्यैर्व्याविद्धशस्त्रैः सहसा निपेतुः । 019c जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात्परिवव्रुरुग्राः ॥ 020a वातेन कुन्त्यां बलवान्सुजातःशूरस्तरस्वी द्विषतां निहन्ता । 020c सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ॥ 021a तेषां स मार्गान्विविधान्महात्मा निहत्य शस्त्राणि च शात्रवाणाम् । 021c यथा प्रवीरान्निजघान भीमः परश्शतान्पुष्करिणी समीपे ॥ 022a ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव । 022c अशक्नुवन्तः सहितं समन्ताद्द्रुतं प्रवीरा सहसा निवृत्ताः ॥ 023a विदीर्यमाणास्तत एव तूर्णमाकाशमास्थाय विमूढसञ्ज्ञाः । 023c कैलासशृङ्गाण्यभिदुद्रुवुस्ते भीमार्दिताः क्रोधवशाः प्रभग्नाः ॥ 024a स शक्रवद्दानवदैत्यसङ्घान्विक्रम्य जित्वा च रणेऽरिसङ्घान् । 024c विगाह्य तां पुष्करीणीं जितारिः कामं स जग्राह ततोऽम्बुजानि ॥ 025a ततः स पीत्वाऽमृतकल्पमम्भो भूयो बभूवोत्तमवीर्यतेजाः । 025c उत्पाट्य जग्राह ततोऽम्बुजानि सौगन्धिकान्युत्तमगन्धवन्ति ॥ 026a ततस्तु ते क्रोधवशाः समेत्यधनेश्वरं भीमबलप्रणुन्नाः । 026c भीमस्य वीर्यं च बलं च सङ्ख्ये यथावदाचख्युरतीव दीनाः ॥ 027a तेषां वचस्तत्तु निशाम्य देवः प्रहस्य रक्षांसि ततोऽभ्युवाच । 027c गृह्णातु भीमो जलजानि कामं कृष्णानिमित्तं विदितं ममैतत् ॥ 028a ततोऽभ्यनुज्ञाय धनेश्वरं ते जग्मुः कुरूणां प्रवरं विरोषाः । 028c भीमं च तस्यां ददृशुर्नलिन्यांयथोपजोषं विहरन्तमेकम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ 155 ॥

3-155-1 प्राप्तं मां निबोधत राक्षसाः इति ध. पाठः ॥ 3-155-2 अनिलोढं वायुना आनीतम् ॥ 3-155-22 सहितमेकीभूयाप्यशक्नुवन्तः ॥