अध्यायः 154
सौगन्धिकसरोविविक्षुं भीमम्प्रति तद्रक्षिभिः क्रोधवशनामकै राक्षसैस्तच्चिकीर्षिप्रश्नः ॥ 1 ॥ 001 वैशम्पायन उवाच । 001a स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम् । 001c कैलासशिखरे रम्ये ददर्श शुभकानने ॥ 002a कुबेरभुवनाभ्याशे जातां पर्वतनिर्झरैः । 002c सुरम्यां विपुलच्छायां नानाद्रुमलताकुलाम् ॥ 003a हरिताम्बुजसञ्छन्नां दिव्यां कनकपुष्कराम् । 003c नानापक्षिजनाकीर्णां सूपतीर्थामकर्दमाम् ॥ 004a अतीव रम्यां सुजलां जातां पर्वतसानुषु । 004c विचित्रभूतां लोकस्य शुभामद्भुतदर्शनाम् ॥ 005a तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् । 005c ददर्शविमलं तोयं पिबंश्च बहु पाण्डवः ॥ 006a तां तु पुष्करिणीं रम्यां दिव्यसौगन्धिकावृताम् । 006c जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः ॥ 007a वैडूर्यवरनालैश्च बहुचित्रैर्मनोरमैः । 007c हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः ॥ 008a आक्रीडं राजराजस्य कुबेरस्य महात्मनः । 008c गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् ॥ 009a सेवितामृषिभिर्दिव्यैर्यक्षैः किम्पुरुषैस्तथा । 009c राक्षसैः किन्नरैश्चापि गुप्तां वैश्रवणेन च ॥ 010a तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाहलः । 010c बभूव परमप्रीतो दिव्यं प्रेक्ष्य सरो महत् ॥ 011a तच्च क्रोधवशा नाम राक्षसा राजशासनात् । 011c रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः ॥ 012a ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् । 012c रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् ॥ 013a सायुधं बद्धनिस्त्रिंशमशङ्कितमरिन्दमम् । 013c पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः ॥ 014a अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः । 014c यच्चिकीर्षुरिह प्राप्तस्तत्सम्प्रष्टुमिहार्हथ ॥ 015a ततः सर्वे महाबाहुं समासाद्य वृकोदरम् । 015c तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि ॥ 016a मुनिवेषधरश्चैव सायुधश्चैव लक्ष्यसे । 016c यदर्थमाभिसम्प्राप्तस्तदाचक्ष्यमहामते ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥
3-154-3 सूपतीर्थां शोभनानि उपतीर्थानि तीराणि यस्यां सा ॥ 3-154-5 लघु आरोग्यकरम् ॥ 3-154-6 जातरूपं स्वर्णम् ॥ 3-154-8 आक्रीडं क्रीडास्थानम् ॥