अध्यायः 153
उपसंहृतपृथुरूपेण हनुमता सपरिष्वङ्गवरदानं विसृष्टेन भीमेन गन्धमादने सौगन्धिकसरोदर्शनम् ॥ 1 ॥ 001वैशम्पायन उवाच । 001a ततः संहृत्य विपुलं तद्वपुः कामवर्धितम् । 001c भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः ॥ 002a परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत । 002c श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम् ॥ 003a [बलं चातिबलो मेने न मेऽस्ति सदृशो महान् ।] 003c ततः पुनरथोवाच पर्यश्रुनयनो हरिः ॥ 004a भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा । 004c गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे ॥ 005a इहस्थश्च कुरुश्रेष्ठ न निवेद्योस्मि कस्यचित् । 005c धनदस्यालयाच्चापि विसृष्टानां महाबल ॥ 006a एष काल इहायातुं देवगन्धर्वयोषिताम् । 006c ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम् ॥ 007a [रामाभिधानं विष्णुं हि जगद्धृदयनन्दनम् । 007c सीतावक्रारविन्दार्कं दशास्यध्वान्तभास्करम् ॥] 008a मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह । 008c तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते ॥ 009a भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत । 009c यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम् ॥ 010a धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम् । 010c शिलया नगरं वा तन्मर्दितव्यं मया यदि ॥ 011a [बद्ध्वा दुर्योधनं चाद्य आनयामि तवान्तिकम् ।] 011c यावदेतत्करोम्यद्य कामं तव महाबल ॥ 012a भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः । 012c प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना ॥ 013a कृतमेव त्वया सर्वं मम वानरपुङ्गव । 013c स्वस्ति तेऽस्तु महाबाहो कामये त्वां प्रसीद मे ॥ 014a सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् । 014c तवैव तेजसा सर्वान्विजेष्यामो वयं परान् ॥ 015a एवमुक्तस्तु हनुमान्भीमसेनमभाषत । 015c भ्रातृत्वात्सौहृदाच्चैव करिष्यामि प्रियं तव ॥ 016a चमूं विगाह्य शत्रूणां परशक्तिसमाकुलाम् । 016c यदा सिंहरवं वीर करिष्यसि महाबल ॥ 017a तदाहं बृंहयिष्यामि स्वरवेण रवं तव । 017c 'यं श्रुत्वैव भविष्यन्ति व्यसवस्तेऽरयो रणे' ॥ 018a विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान् । 018c शत्रूणां ये प्राणहराः सुखं येन हनिष्यथ ॥ 019a एवमाभाष्य हनुमांस्तदा पाण्डवनन्दनम् । 019c मार्गमाख्याय भीमाय तत्रैवान्तरधीयत ॥ 020a गते तस्मिन्हरिवरे भीमोपि बलिनां वरः । 020c तेन मार्गेण विपुलं व्यचरद्गन्धमादनम् ॥ 021a अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि । 021c माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ ॥ 022a स तानि रमणीयानि वनान्युपवनानि च । 022c विलोलयामास तदा सौगन्धिकवनेप्सया ॥ 023a फुल्लपद्मविचित्राणि सरांसि सरितस्तथा । 023c नानाकुसुमचित्राणि पुष्पितानि वनानि च ॥ 024a मत्तवारणयूथानि पङ्कक्लिन्नानि भारत । 024c वर्षतामिव मेघानां वृन्दानि ददृशे तदा ॥ 025a हरिणैश्चपलापाङ्गैर्हरिणीसहितैर्वनम् । 025c सशष्पकवलैः श्रीमान्पथि दृष्ट्वा द्रुतं ययौ ॥ 026a महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम् । 026c व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत ॥ 027a कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः । 027c याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः ॥ 028a कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः । 028c प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् ॥ 029a सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु । 029c द्रौपदीवाक्यपाथेयो भीमो भीमपराक्रमः ॥ 030a परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने । 030c काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम् ॥ 031a हंसकारण्डवयुतां चक्रवाकोपशोभिताम् । 031c रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम् ॥ 032a तस्यां नद्यां महासत्वः सौगन्धिकवनं महत् । 032c अपश्यत्प्रीतिजननं बालार्कसदृशद्युति ॥ 033a तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः । 033c वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥