अध्यायः 152
हनुमता भीमाय समुद्रतरणकालिकपृथुतरनिजरूपप्रदर्शनपूर्वकं चतुर्वर्णधर्मनिरूपणम् ॥ 1 ॥ 001 भीमसेन उवाच । 001a पूर्वरूपमदृष्ट्वा ते न यास्यामि कथञ्चन । 001c यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना ॥ 002 वैशम्पायन उवाच । 002a एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवङ्गमः । 002c तद्रूपं दर्शयामास यद्वै सागरलङ्घने ॥ 003a भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः । 003c 'तद्रूपं यत्पुरा तस्य बभूवोदधिलङ्घने' ॥ 004a देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः । 004c सद्रुमं कदलीषण्डं छादयन्नमितद्युतिः ॥ 005a गिरिश्चोच्छ्रयमाक्रम्य तस्थौ तत्र च वानरः । 005c समुच्छ्रितमहाकायो द्वितीय इव पर्वतः ॥ 006a ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः । 006c दीर्घं लाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः ॥ 007a तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः । 007c विसिष्मिये तदा भीमो जहृषे च पुनः पुनः ॥ 008a तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् । 008c प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् ॥ 009a आबभाषे च हनुमान्भीमसेनं स्मयन्निव । 009c एतावदिह शक्तस्त्वं द्रुष्टुं रूपं ममानघ ॥ 010a वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम् । 010c भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा ॥ 011 वैशम्पायन उवाच । 011a तदद्भुतं महारौद्रं विन्ध्यपर्वतसन्निभम् । 011c दृष्ट्वा हनूमतो वर्ष्म सम्भ्रान्तः पवनात्मजः ॥ 012a प्रत्युवाच ततो भीमः सम्प्रहृष्टतनूरुहः । 012c कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् ॥ 013a दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो । 013c संहरस्व महावीर्य स्वयमात्मानमात्मना ॥ 014a न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् । 014c अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् ॥ 015a विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै । 015c यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात् ॥ 016a त्वमेव शक्तस्तां लङ्कां सयोधां सहरावणाम् । 016c स्वबाहुबलमाश्रित्य विनाशयितुमञ्जसा ॥ 017a न हि ते किञ्चिदप्राप्यं मारुतात्मज विद्यते । 017c न चैव तव पर्याप्तो रावणः सगणो युधि ॥ 018a एवमुक्तस्तु भीमेन हनूमान्प्लवगोत्तमः । 018c प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा ॥ 019a एवमेतन्महाबाहो यथा वदसि भारत । 019c भीमसेन न पर्याप्तो ममासौ राक्षसाधमः ॥ 020a मया तु निहते तस्मिन्रावणे लोककण्टके । 020c कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् ॥ 021a तेन वीरेण तं हत्वा सगणं राक्षसाधमम् । 021c आनीता स्वपुरं सीता कीर्तिश्च स्थापिता नृषु ॥ 022a तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः । 022c अरिष्टं क्षेममध्वानं वायुना परिरक्षितः ॥ 023a एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते । 023c द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः ॥ 024a न च ते तरसा कार्यः कुसुमापचयः स्वयम् । 024c दैवतानि हि मान्यानि पुरुषेण विशेषतः ॥ 025a बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ । 025c दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत ॥ 026a मा तात साहसं कार्षीः स्वधर्मं परिपालय । 026c स्वधर्मस्थापनं धर्मं बुध्यस्वागमयस्व च ॥ 027a न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च । 027c धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि ॥ 028a अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसञ्ज्ञितः । 028c स विज्ञेयो विभागेन यत्रमुह्यन्त्यबुद्धयः ॥ 029a आचारसम्भवो धर्मो धर्माद्वेदाः समुत्थिताः । 029c वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ॥ 030a वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः । 030c बृहस्पत्युशनःप्रोक्तैर्नयैर्धार्यन्ति मानवाः ॥ 031a बल्याकरवणिज्याभिः कृष्यर्थैर्योनिपोषणैः । 031c वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः ॥ 032a त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम् । 032c ताभिः सम्यक्प्रवृत्ताभिर्लोकयात्रा विधीयते ॥ 033a सा चेद्धर्मकृता न स्यात्रयीधर्ममृते भुवि । 033c दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत् ॥ 034a वार्ताधर्मे ह्यवर्तिन्यो विनश्येयुरिमाः प्रजाः । 034c सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः ॥ 035a द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णकः । 035c यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः ॥ 036a याजनाध्यापने चोभे ब्राह्मणानां परिग्रहः । 036c पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम् ॥ 037a शुश्रूषा च द्विजातीनां शूद्राणां धर्म उच्यते । 037c भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिताः ॥ 038a क्षत्रधर्मोऽत्रकौन्तेय तव धर्मोऽत्र रक्षणम् । 038c स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः ॥ 039a वृद्धैः सम्मन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः । 039c आस्थितः शास्तिदण्डेन व्यसनी परिभूयते ॥ 040a निग्रहानुग्रहैः सम्यग्यदा नेता प्रवर्तते । 040c तदा भवन्ति लोकस्य मर्यादाः सुव्यवस्थिताः ॥ 041a तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च । 041c नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा ॥ 042a राज्ञामुपायश्चारश्च बुद्धिमन्त्रपराक्रमाः । 042c निग्रहप्रग्रहौ चैव दाक्ष्यं वै कार्यसाधकम् ॥ 043a साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च । 043c साधनीयानि कार्याणि समासव्यासयोगतः ॥ 044a मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ । 044c सुमन्त्रितनयैः सद्भिस्तद्विधैः सह मन्त्रयेत् ॥ 045a स्त्रिया मूढेन बालेन लुब्धेन लघुनाऽपि वा । 045c न मन्त्रयीत गुह्यानि येषु चास्पनदलक्षणम् ॥ 046a मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत् । 046c स्निग्धैश्च नीतिविन्यासैर्मूर्खान्सर्वत्र वर्जयेत् ॥ 047a धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान् । 047c स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु ॥ 048a स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा । 048c बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् ॥ 049a बुद्ध्या स्वप्रतिपन्नेषु कुर्यात्साधुष्वनुग्रहम् । 049c निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् ॥ 050a निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते । 050c तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ॥ 051a एष तेऽभिहितः पार्थ घोरो धर्मो दुरन्वयः । 051c तं स्वधर्मविभागेन विनयस्थोऽनुपालय ॥ 052a तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम् । 052c दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम् ॥ 053a 'द्विजशुश्रूषया शूद्रा लभन्ते गतिमुत्तमाम्' । 053c क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः ॥ 054a सम्यक्प्रणीतदण्डा हि कामद्वेपविवर्जिताः । 054c अलुब्धा विगतक्रोधाः सतां यान्ति सलोकतां ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः ॥
3-152-5 गिरिश्च विन्ध्यगिरिरिव । इवार्थे चः ॥ 3-152-17 पर्याप्तः समर्थः ॥ 3-152-22 अरिष्टं निर्विघ्नम् ॥ 3-152-24 पुरुषेण मर्त्येन ॥ 3-152-26 आगमयस्व मात्वरिष्ठाः ॥ 3-152-28 दुर्जनवधोऽधर्मोपि धर्मएव । परोपघातकं सत्यं धर्मोपि अधर्मएव ॥ 3-152-30 यज्ञैर्देवानां नीत्या मनुष्याणां च स्थितिरित्यर्थः ॥ 3-152-31 वार्ता जीविकार्थावृत्तिः ॥ 3-152-32 साच क्रमेण ब्राह्मणस्य त्रयीयाजनाध्यापनादिः । वैश्यस् वार्तापण्यादिः । क्षत्रियस्य दण्डादिः ॥ 3-152-33 सा लोकयात्रा ॥ 3-152-37 गुरौ त्रिवर्णे वासितं वासो येषां ते ॥ 3-152-39 आस्थितोऽनुगृहीतः ॥ 3-152-41 स्थानं सिद्धसंरक्षणम् ॥ 3-152-48 स्वेभ्यश्चारेभ्यः परेभ्य उत्कोचादिना लोभितेभ्यः ॥ 3-152-49 बुद्ध्या जीवनाशया ।प्रतिपन्नेषु शरणागतेषु ॥ 3-152-51 घोरो धर्मो राजधर्मः ॥