अध्यायः 151
भीमेन जलधिलङ्घनकलिकपृथुरूपप्रदर्शनं प्रार्थितेन हनुमता तं प्रति एतत्कालिकैस्तात्कालिकरूपस्य दुर्निरीक्षताकथनपूर्वकं कृतादियुगधर्मप्रतिपादनम् ॥ 1 ॥ 001वैशम्पायन उवाच । 001aएवमुक्तो महाबाहुर्भीमसेनः प्रतापवान् । 001cप्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः ॥ 002a उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् । 002c मत्तो धन्यतरो नास्ति यदार्यं दृष्टवानहम् ॥ 003a अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् । 003c एतत्तु कृतमिच्छामि त्वयाऽऽर्येण प्रियं मम ॥ 004a यत्त्वेतदासीत्प्लवतः सागरं मकरालयम् । 004c रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् ॥ 005a एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः । 005c एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् ॥ 006a न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् । 006c कालावस्था तदा ह्यन्या वर्तते सा न साम्प्रतम् । 006e 'ततोऽद्य दुष्करं द्रष्टुं मम रूपं नरोत्तम' ॥ 007a अन्यः कृतयुगे कालस्त्रेतायां द्वापरे परः । 007c अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ॥ 008a भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः । 008c कालं समनुवर्तन्ते यथा भावा युगेयुगे ॥ 009a 'कालङ्कालं समासाद्य नराणां नरपुङ्गव' । 009c बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ॥ 010a तदलं बत तद्रूपं द्रष्टुं कुरुकुलोद्वह । 010c युगं समनुवर्तामि कालो हि दुरतिक्रमः ॥ 011 भीम उवाच । 011a युगसङ्ख्यां समाचक्ष्व आचारं च युगेयुगे । 011c धर्मकामार्थभावांश्च कर्मवीर्ये भवाभवौ ॥ 012 हनूमानुवाच । 012a कृतं नाम युगं श्रेष्ठं यत्रधर्मः सनातनः । 012c कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ॥ 013a न तत्र धर्माः सीदन्ति क्षीयन्ते न च वै प्रजाः । 013c ततः कृतयुगं नाम कालेन गुणतां गतम् ॥ 014a देवदानवगन्धर्वयक्षराक्षसपन्नगाः । 014c नासन्कृतयुगे तात तदा न क्रयविक्रयः ॥ 015a न सामऋग्यजुर्वर्णाः क्रिया नासीच्च मानवी । 015c अभिध्याय फलं तत्र धर्मः सन्न्यास एव च ॥ 016a न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः । 016c नासूया नापि रुदितं न दर्पो नापि वैकृतम् ॥ 017a न विग्रहः कुतस्तन्द्री न द्वेषो न च पैशुनम् । 017c न भयं नापि सन्तापो न चेर्ष्या न च मत्सरः ॥ 018a ततः परमकं ब्रह्म सा गतिर्योगिनां परा । 018c आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ॥ 019a ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः । 019c कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ॥ 020a समाश्रयं समाचारं समज्ञानं च केवलम् । 020c तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् ॥ 021a एकदेवसदायुक्ता एकमन्त्रविधिक्रियाः । 021c पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ॥ 022a चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना । 022c अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ॥ 023a आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः । 023c कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ॥ 024a 'कामः कामयमानेषु ब्राह्मणेषु तिरोहितः' । 024c एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् ॥ 025a त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते । 025c पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः ॥ 026a सत्यप्रवृत्ताश्च नराः क्रिया धर्मपरायणाः । 026c ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः ॥ 027a त्रेतायां भावसङ्कल्पाः क्रियादानफलोपगाः । 027c प्रचलन्ति न वै धर्मात्तपोदानपरायणाः । 027e स्वधर्मस्थाः क्रियावन्तो नरास्त्रेतायुगेऽभवन् ॥ 028a द्वापरे च युगे धर्मो द्विभागो नः प्रवर्तते । 028c विष्णुर्वै पीततां याति चतुर्धा वेद एव च ॥ 029a ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथा परे । 029c द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे ॥ 030a एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया । 030c तपोदानप्रवृत्ता च राजसी भवति प्रजा ॥ 031a एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः । 031c सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः ॥ 032a सत्यात्प्रच्यवमानानां व्याघयो बहवोऽभवन् । 032c कामाश्चोपद्रवाश्चैव तदा वै दैवकारिताः ॥ 033a यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः । 033c कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ॥ 034a एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः । 034c पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः ॥ 035a तामसं युगमासाद्य कृष्णो भवति केशवः । 035c वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ॥ 036a ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा । 036c उपद्रवाः प्रवर्तन्ते आधयो व्याधयस्तथा ॥ 037a युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः । 037c धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः ॥ 038a लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः । 038c युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते ॥ 039a एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते । 039c युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ॥ 040a यच्च ते मत्परिज्ञाने कौतूहलमरिन्दम । 040c अनर्थकेषु को भावः पुरुषस्य विजानतः ॥ 041a एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । 041c युगसङ्ख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥
3-151-3 एकं तु कृतमिच्छामीति ध. पाठः ॥ 3-151-5 हरिर्वानरः ॥ 3-151-9 वर्ष्म शरीरम् ॥ 3-151-11 भावान् तत्त्वानि । कर्म शुभाशुभम् । वीर्यं फलोदयपर्यन्तं शक्तिः । भवाभवावुत्पत्तिविनाशौ ऐश्वर्यानैश्वर्ये वा ॥ 3-151-12 कृतमेव सर्वे कृतकृत्या एवेत्यर्थः । ततएव हेतोः कृतयुगं नाम ॥ 3-151-15 त्रयीधर्मस्य चित्तशुद्ध्यर्थत्वात्तस्याश्च तदानीं स्वभावसिद्धत्वान्न सामादीन्यासन् । मानवीक्रिया कृष्याद्यारम्भरूपा । किन्तु अभिध्याय फलं सङ्कल्पादेव सर्वं सम्पद्यत इत्यर्थः ॥ 3-151-16 वैकृतं कपटम् ॥ 3-151-17 विग्रहो वैरम् । तन्द्री आलस्यम् । ईर्ष्या अक्षमा । मत्सरः परोत्कर्षासहिष्णुत्वम् ॥ 3-151-18 ततोऽसूयादित्यागात् परमकं परमानन्दात्मकं ब्रह्म प्राप्यत इति शेषः । गतिः प्राप्यम् । श्वेतरक्तपीतकृष्णरूपाणि क्रमेण कृतादिषु भवन्तीति कृते नारायणः शुक्ल इत्युक्तम् ॥ 3-151-33 यैः व्याधिभिः कामैश्च ॥ 3-151-35 तामसं तमोगुणप्रधानं कलिम् ॥ 3-151-36 ईतयः अतिवृष्ट्यादयः ॥ 3-151-37 व्यावर्तते नश्यति ॥ 3-151-38 भावाः धर्मज्ञानादयः । प्रार्थनानि विकुर्वते । अन्यत्प्रार्थ्यतेऽन्यत् जायते । पौष्टिकमपि कर्म विधिलोपान्नाशकं भवतीति भावः ॥ 3-151-39 चिरजीविनो मादृशा अपि युगानुवर्तिनः कालानुसारिणो भवन्ति ॥ 3-151-40 अनर्थकेषु निष्प्रयोजनेषु । भावोऽभिनिवेशः ॥ 3-151-41 स्वस्ति कल्याणम् ॥