अध्यायः 150

हनुमता भीमम्प्रति समग्ररामकथाकथनम् ॥ 1 ॥ 001 हनूमानुवाच । 001a हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः । 001c दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ॥ 002a तेन तस्याभवत्सख्यं राघवस्य महात्मनः । 002c स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् ॥ 003a स राज्यं प्राप्य सुग्रीवः सीतायाः परिमार्गणे । 003c वानरान्प्रेषयामास शतशोऽथ सहस्रशः ॥ 004a ततो वानरकोटीभिः सहितोऽहं नरर्षभ । 004c सीतां मार्गन्महाबाहो प्रस्थितो दक्षिणां दिशम् ॥ 005a ततः प्रवृत्तिः सीताया गृध्रेण सुमहात्मना । 005c सम्पातिना समाख्याता रावणस्य निवेशने ॥ 006a ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः । 006c शतयोजनविस्तारमर्णवं सहसा प्लुतः ॥ 007a अहं स्ववीर्यादुत्तीर्य सागरं मकरालयम् । 007c सुतां जनकराजस्य सीतां सुररसुतोपमाम् ॥ 008a दृष्टवान्भरतश्रेष्ठ रावणस्य निवेशने । 008c समेत्य तामहं देवीं वैदेहीं राघवप्रियाम् ॥ 009a दग्ध्वा लङ्कामशेषेण साट्टप्राकारतोरणाम् । 009c प्रत्यागतश्चास्य पुनर्नाम तत्रप्रकाश्य वै ॥ 010a मद्वाक्यं चावधार्याशु रामो राजीवलोचनः । 010c अबद्धपूर्वमन्यैश्च बद्ध्वा सेतुं महोदधौ । 010e वृतो वानरकोटीभिः समुत्तीर्णो महार्णवम् ॥ 011a ततो रामेण वीर्येण हत्वा तान्सर्वराक्षसान् । 011c रणे तु राक्षसगणं रावणं लोकरावणम् ॥ 012a निशाचरेन्द्रं हत्वा तु सभ्रातृसुतबान्धवम् । 012c राज्येऽभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम् ॥ 013a धार्मिकं भक्तिमन्तं च भक्तानुगतवत्सलः । 013c प्रत्याहृत्य ततः सीतां नष्टां वेदश्रुतिं यथा ॥ 014a तयैव सहितः साध्व्या पत्न्या रामो महायशाः । 014c गत्वा ततोऽतित्वरितः स्वां पुरीं रघुनन्दनः । 014e अध्यावसत्ततोऽयोध्यामयोध्यां द्विषतां प्रभुः ॥ 015a ततः प्रतिष्ठितो राज्ये रामो नृपतिसत्तमः । 015c वरं मया याचितोऽसौ रामो राजीवलोचनः ॥ 016a यावद्रामकथेयं ते भवेल्लोकेषु शत्रुहन् । 016c तावज्जीवेयमित्येवं तथाऽस्त्विति च सोब्रवीत् ॥ 017a सीताप्रसादाच्च सदा मामिहस्थमरिन्दम । 017c उपतिष्ठन्ति दिव्या हि भोगा भीम यथेप्सिताः ॥ 018a दशवर्षसहस्राणि दशवर्षशतानि च । 018c राज्यं कारितवान्रामस्ततः स्वभवनं गतः ॥ 019a तदिहाप्सरसस्तात गन्धर्वाश्च सदाऽनघ । 019c तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् ॥ 020a अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन । 020c ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् ॥ 021a 'त्वामनेन पथा यान्तं यक्षो वा राक्षसोपि वा' । 021c धर्षयेद्वा शपेद्वाऽपि मा कश्चिदिति भारत ॥ 022a दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः । 022c यदर्थमागतश्चासि अत एव सरश्च तत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥ 150 ॥

3-150-8 समेत्य विदित्वा सम्भाषणादिना निश्चित्येत्यर्थः ॥ 3-150-9 अस्य रामस्य । तत्र लङ्कायाम् ॥ 3-150-10 अवधार्य निश्चित्य ॥ 3-150-11 लोकरावणं लोकपीडाकरम् ॥ 3-150-14 अयोध्यां योद्धुमशक्याम् ॥ 3-150-18 कारितवान् कृतवान् । स्वार्थे णिच् । स्वभवनं वैकुण्ठम् ॥