अध्यायः 149
भीमेन स्वमार्गादपसरणं चोदितेन हनुमता तं प्रति अपसरणे स्वस्याशक्तिकथनपूर्वकं स्वबालोद्धरणेन गमनचोदना ॥ 1 ॥ प्रयतनेऽपि पुच्छचालनेऽप्यसमर्थेन भीमेन तं प्रति तत्प्रभवादिप्रश्नः ॥ 2 ॥ हनुमता स्वप्रभवादिकथनपूर्वकं रामकथाकथनारम्भः ॥ 3 ॥ 001वैशम्पायन उवाच । 001a एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः । 001c भीमसेनस्तदा वीरः प्रोवाचामितविक्रमः ॥ 002 भीम उवाच । 002a को भवान्किन्निमित्तं वा वानरं वपुराश्रितः । 002c ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वाऽनुपृच्छति ॥ 003a कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः । 003c पाण्डवो वायुतनयो भीमसेन इति श्रुतः ॥ 004a स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् । 004c हनुमान्वायुतनयो वायुपुत्रमभाषत ॥ 005a वानरोऽहं न ते मार्गं प्रदास्यामि यथोप्सितम् । 005c साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् ॥ 006 भीमसेन उवाच । 006a वैशसं वाऽस्तु यद्वान्यन्न त्वां रपृच्चामि वानर । 006c प्रयच्छ मार्गमुत्तिष्ठ मा मत्तः प्राप्स्यसे व्यथाम् ॥ 007 हनूमानुवाच । 007a नास्ति शक्तिर्ममोत्थातुं जरया क्लेशितो ह्यहम् । 007c यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् ॥ 008 भीम उवाच । 008a निर्गुणः परमात्मा तु देहं ते व्याप्य तिष्ठते । 008c तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये ॥ 009a यद्यागमैर्न विद्यां च तमहं भूतभावनम् । 009c क्रमेयं त्वां गिरिं चैव हनूमानिव सागरम् ॥ 010 हनूमानुवाच । 010a क एष हनुमान्नाम सागरो येन लङ्घितः । 010c पृच्छामि त्वां नरश्रेष्ठ कथ्यतां यदि शक्यते ॥ 011 भीम उवाच । 011a भ्राता मम गुणश्लाघ्यो बुद्धिसत्वबलान्वितः । 011c रामायणेऽतिविख्यातः श्रीमान्वानरपुङ्गवः ॥ 012a रामपत्नीकृते येन शतयोजनविस्तृतः । 012c सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः ॥ 013a स मे भ्राता महावीर्यस्तुल्योऽहं तस् तेजसा । 013c बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ॥ 014a 'इमं देशमनुप्राप्तः कारणेनास्मि केनचित् । 014c 'उत्तिष्ठ देहि मे मार्गं पश्य मे चाद्य पौरुषम् । 014e मच्छासनमकुर्वाणं त्वां वा नेष्ये यमक्षयम् ॥ 015 वैशम्पायन उवाच 015a विज्ञाय तं बलोन्मत्तं बाहुवीर्येण दर्पितम् । 015c हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् ॥ 016a प्रसीद नास्ति मे शक्तिरुत्थातुं जरयाऽनघ । 016c ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् ॥ 017 वैशम्पायन उवाच । 017a [एवमुक्ते हनुमता हीनवीर्यपराक्रमम् । 017c मनसाऽचिन्तयद्भीमः स्वबाहुबलदर्पितः ॥ 018a पुच्छे प्रगृह्य तरसा हीनवीर्यपराक्रमम् । 018c सालोक्यमन्तकस्यैनं नयाम्यद्येह वानरम् ॥] 019a सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना । 019c न चाशकच्चालयितुं भीमः पुच्छं महाकपेः ॥ 020a उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् । 020c नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः ॥ 021a उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः । 021c स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक तम् ॥ 022a यत्नवानपि तु श्रीमाल्ँलाङ्गूलोद्धरणे ततः । 022c कपेः पार्श्वगतो भीमस्तस्थौ व्रीडडानताननः ॥ 023a प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् । 023c प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ॥ 024a सिद्धो वा यदि वा देवो गन्धर्वो वाऽथ गुह्यकः । 024c पृष्टः सन्को मया ब्रूहि कस्त्वं वानररूपधृत् ॥ 025a न चेद्गुह्यं महाबाहो श्रोतव्यं चेद्भवेन्मम । 025c शिष्यवत्त्वां तु पृच्छामि उपपन्नोऽस्मि तेऽनघ ॥ 026 हनूमानुवाच । 026a यत्ते मम परिज्ञाने कौतूहलमरिन्दम । 026c तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन ॥ 027a अहं केसरिणः क्षेत्रे वायुना जगदायुषा । 027c जातः कमलपत्राक्ष हनूमान्नाम वानरः ॥ 028a सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् । 028c सर्ववानरराजानौ सर्ववानरयूथपाः ॥ 029a उपतस्थुर्महावीर्या मम चामित्रकर्शन । 029c सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा ॥ 030a निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे । 030c ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् ॥ 031a अथ दाशरथिर्वीरो रामो नाम महाबलः । 031c विष्णुर्मानुषरूपेण चचार वसुधातलम् ॥ 032a स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः । 032c सधनुर्धन्विनांश्रेष्ठो दण्डकारण्यमाश्रितः ॥ 033a तस्य भार्या जनस्थानाच्छलेनापहृता बलात् । 033c राक्षसेन्द्रेण बलिना रावणेन दुरात्मना ॥ 034a सुवर्णरत्नचित्रेण मृगरूपेण रक्षसा । 034c वञ्चयित्वा नरव्याघ्रं मारीचेन तदाऽनघ ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥
3-149-5 वैशसं विरोधम् ॥ 3-149-9 भूतभावनं भूतानां वियदादीनां जरायुजादीनां च भावनं रचनं यस्मात्तम् ॥ 3-149-12 क्रमेण पादविक्षेपेन ॥ 3-149-17 एवमुक्ते सति । तमित्यध्याहारः । तं हीनवीर्यपराक्रमं मनसाऽचिन्तयन्मेने ॥ 3-149-29 मम च सुग्रीवेण प्रीतिरभवत् ॥ 3-149-30 निकृतः निरस्तः ॥