अध्यायः 148

कदाचन पाञ्चाल्या भीमसन्निधाने वाय्वानीताद्भुतसौगन्धिकपुष्पदर्शनम् ॥ 1 ॥ तया तादृशबहुपुष्पानयनं प्रार्थितेन भीमेन तदर्थं गमनम् ॥ 2 ॥ भीमस्य मध्येमार्ग स्वमार्गनिरोधकेन हनुमता सह संवादः ॥ 3 ॥ 001 वैशम्पायन उवाच । 001a तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः । 001c षड्रात्रमवसन्वीरा धनञ्जयदिदृक्षया ॥ 002a तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः । 002c मनोज्ञे काननवरे सर्व भूतमनोरमे ॥ 003a पादपैः पुष्पविकचैः फलभारावनामितैः । 003c शोभितः पर्वतो रम्यः पुंस्कोकिलकुलाकुलैः । 003e स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः ॥ 004a सरांसि च विचित्राणि प्रसन्नसलिलानि च । 004c कमलैः सोत्पलैस्तत्रभ्राजमानानि सर्वशः । 004e पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः ॥ 005a पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः । 005c ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान् ॥ 006a ततः पूर्वोत्तरे वायुः प्लवमानो यदृच्छया । 006c सहस्रपत्रमर्काभं दिव्यं पद्ममुपाहरत् ॥ 007a तदवैक्षत पाञ्चाली दिव्यगन्धं मनोरमम् । 007c अनिलेनाहृतम्भूमौ पतितं जलजं शुचि ॥ 008a तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम् । 008c अतीव मुदिता राजन्भीमसेनमथाब्रवीत् ॥ 009a पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् । 009c गन्धसंस्थानसम्पन्नं मनसो मम नन्दनम् ॥ 010a इदं च धर्मराजाय प्रदास्यामि परन्तप । 010c 'गृह्यापराणि पुष्पाणि बहूनि पुरुषर्षभ' । 010c हरेरिदं मे कामाय काम्यके पुनराश्रमे ॥ 011a यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर । 011c तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् ॥ 012a एवमुक्त्वा तु पाञ्चली भीमसेनमनिन्दिता । 012c जगाम पुष्पमादाय धर्मराजाय तत्तदा ॥ 013a अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः । 013c प्रियायाः प्रियकामः स प्रायाद्भीमो महाबलः ॥ 014a वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् । 014c आजिहीर्षुर्जगामाशु सपुष्पाण्यपराण्यपि ॥ 015a रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान् । 015c मृगराडिव सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः । 015e [ददृशुः सर्वभूतानि महाबाणधनुर्धरम् ॥ 016a न ग्लानिर्न च वैक्लब्यं न भयं न च सम्भ्रमः । 016c कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥] 017a द्रौपद्याः प्रियमन्विच्छन्स बाहुबलमाश्रितः । 017c व्यपेतभयसम्मोहः शैलमभ्यपतद्बली ॥ 018a स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् । 018c गिरिं चचारारिहरः किन्नराचरितं शुभम् ॥ 019a नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः । 019c सर्वभूषणसम्पूर्णं भूमेर्भुजमिवोच्छ्रितम् ॥ 020a सर्वर्तुरमणीयेषु गन्धमादनसानुषु । 020c सक्तचक्षुरभिप्रायान्हृदयेनानुचिन्तयन् ॥ 021a पुंस्कोकिलनिनादेषु षट्पदाचरितेषु च । 021c बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः ॥ 022a आजिघ्रन्स महातेजाः सर्वर्तुकुसुमोद्भवम् । 022c गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः ॥ 023a वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना । 023c पितुः संस्पर्शशीतेन गन्धमादनवायुना ॥ 024a ह्रियमाणश्रमः पित्रा सम्प्रहृष्टतनूरुहः ॥ 025a स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् । 025c विलोकयामास तदा पुष्पहेतोररिन्दमः ॥ 026a विषमच्छदैरचितैरनुलिप्त इवाङ्गुलैः । 026c विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः ॥ 027a सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः । 027c मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः ॥ 028a अभिरामदरीकुञ्जनिर्झरोदककन्दरम् । 028c अप्सरोनूपुररवैः प्रनृत्तवरबर्हिणम् ॥ 029a दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम् । 029c स्रस्तांशुकमिवाश्रोभ्यैर्निम्नगानिःसृतैर्जलैः ॥ 030a सशष्पकबलैः स्वस्थैरदूरपरिवर्तिभिः । 030c भयानभिक्षज्ञैर्हरिणैः कौतूहलनिरीक्षितः ॥ 031a चालयानः स्ववेगेन लताजालान्यनेकशः । 031c आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ ॥ 032a प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः । 032c प्रांशुः कनकवर्णाभः सिंहसंहननो युवा ॥ 033a मत्तवारणविक्रन्तो मत्तवारणवेगवान् । 033c मत्तवारणताम्राक्षो मत्तवारणवारणः ॥ 034a प्रियपार्श्वोपविष्टाभिर्वायवृत्ताभिर्विचेष्टितैः । 034c यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः ॥ 035a नवावतारं रूपस्य विक्रीडन्निव पाण्डवः । 035c चचार रमणीयेषु गन्धमादनसानुषु ॥ 036a संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून् । 036c द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः ॥ 037a सोऽचिन्तयत्तथा पार्थे मयि त्वतिविलम्बिते । 037c पुष्पहेतोः कथं त्वार्यः करिष्यति युधिष्ठिरः ॥ 038a स्नेहान्नरवरो नूनमविश्वासाद्बलस्य च । 038c नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः ॥ 039a कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन् । 039c प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः ॥ 040a [सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु । 040c द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ॥] 041a कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु । 041c त्रासयन्गजयूथानि वातरंहा वृकोदरः ॥ 042a सिंहव्याघ्रमृगांश्चैव मर्दयानो महाबलः । 042c उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली ॥ 043a लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः । 043c उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः ॥ 044a जलावलम्बोऽतिभृशं सविद्युदिव तोयदः । 044c 'व्यनदत्स महानादं भीमसेनो महाबलः ॥ 045a तेन शब्देन महता भीमस्य प्रतिबोधिताः । 045c गुहां सन्तत्यजुर्व्याघ्रा निलिल्युर्वनवासिनः ॥ 046a समुत्पेतुः खगास्त्रस्ता मृगयूथानि दुद्रुवुः । 046c ऋक्षाश्चोत्ससृजर्वृक्षांस्तत्यजुर्हरयो गुहाम् । 046e व्यजृम्भन्त महासिंहा महिषाश्च वनेचराः ॥ 047a तेन वित्रासिता नागाः करेणुपरिवारिताः । 047c तद्वनं सम्परित्यज्य जग्मुरन्यन्महावनम् ॥ 048a वराहमृगसङ्घाश्च महिषाश्च वनेचराः । 048c व्याघ्रगोमायुसङ्घाश्च प्रणेदुर्गवयैः सह ॥ 049a रथाङ्गसाह्वदात्यूहा हंसकारण्डवप्लवाः । 049c शुकाः पारावताः कौञ्चा विसञ्ज्ञा भेजिरे दिशः ॥ 050a तथाऽन्ये दर्पिता नागाः करेणुशरपीडिताः । 050c सिंहव्याघ्राश्च सङ्क्रुद्धा भीमसेनमथाद्रवन् ॥ 051a शकृन्मूत्रं च मुञ्चाना भयविभ्रान्तमानसाः । 051c व्यादितास्या महारौद्रा व्यनदन्भीषणान्रवान् ॥ 052a ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः । 052c गजेनान्यान्गजान्श्रीमान्सिंहं सिंहेन वा विभुः । 052e तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली ॥ 053a ते वध्यमाना भीमेन सिंहव्याघ्रतरक्षवः । 053c भयाद्विससृजुर्भीमं शकृन्मूत्रं च सुस्रुवुः ॥ 054a प्रविवेश ततः क्षिप्रं तानपास्य महाबलः । 054c वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः ॥ 055aअथापश्यन्महाबाहुर्गनधमादनसानुषु । 055c सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम् ॥ 056a तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः । 056c महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् ॥ 057a उत्पाट्य कदलीस्तम्भान्बहुतालसमुच्छ्रयान् । 057c चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः । 057e विमर्दन्सुमहातेजा नृसिंह इव दर्पितः ॥ 058a ततः सन्न्यपतंस्तत्रसुबहूनि महान्ति च । 058c रुरुवारणयूथानि महिषाश्च जलाश्रयाः ॥ 059a 'प्रविवेश ततः क्षिप्रं तानपास्य महाबलः । 059c वनं पाण्डुसुतः श्रीमान्नादेनापूरयन्दिशः' ॥ 060a तेन शब्देन चैवाथ भीमसेनरवेण च । 060c वनान्तरगताश्चापि वित्रेसुर्मृगपक्षिणः ॥ 061a तस्मिन्नथ प्रवृत्ते तु सङ्क्षोभे मृगपक्षिणाम् । 061c जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः ॥ 062a तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः । 062c तानेवानुसरन्रम्यं ददर्श सुमहत्सरः ॥ 063a काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः । 063c वीज्यमानमिवाक्षोभ्यं तीरात्तीरविसर्पिभिः ॥ 064a तत्सरोऽथावतीर्याशु प्रभूतनलिनोत्पलम् । 064c महागज इवोद्दामश्चिक्रीड बलवद्बली ॥ 065a विक्रीड्यतस्मिन्रुचिरमुत्ततारामितद्युतिः । 065c 'क्षोभयन्सलिलं भीमः प्रभिन्न इव वारणः' ॥ 066a ततो जगाहे वेगेन तद्वनं बहुपादपम् । 066c दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः । 066e [आस्फोटयच्च बलवान्भीमः सन्नादयन्दिशः ॥] 067a तस्य शङ्खस्य शब्देन भीमसेनरवेण च । 067c बाहुशब्देन चोग्रेण नदन्तीव गिरेर्गुहाः ॥ 068a तं वज्रनिष्पेषसममास्फोटितमहारवम् । 068c श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः ॥ 069a सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत । 069c मुक्तो विरावः सुमहान्पर्वतो येन पूरितः ॥ 070a तं तु नादं ततः श्रुत्वा सुप्तो वानरपुङ्गवः । 070c [भ्रातरं भीमसेनं तु विज्ञाय हनुमान्कपिः ॥ 071a दिवङ्गमं रुरोधाथ मार्गं भीमस्य कारणात् । 071c अनेन हि पथा मा वै गच्छेदिति विचार्य सः ॥ 072a आस्त एकायने मार्गे कदलीषण्डमण्डिते । 072c भ्रातुर्भीमस्य रक्षार्थं तं मार्गमवरुध्य वै ॥ 073a माऽत्र प्राप्स्यति शापं वा धर्षणां वेति पाण्डवः । 073c कदलीषण्डमध्यस्थो ह्येवं सञ्चिन्त्य वानरः ॥ 074a प्राजृम्भत महाकायो हनूमान्नाम वानरः । 074c कदलीषण्डमध्यस्थो निद्रावशगतस्तदा ॥ 075a 'तेन शब्देन महता व्यबुध्यत महाकपिः' । 075c जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् । 075e आस्फोटयच्चलाङ्गूलमिन्द्राशनिसमस्वनम् ॥ 076a तस्य लाङ्गूलनिनदं पर्वतः सुगुहामुखैः । 076c उद्गारमिव गौर्नर्दन्नुत्ससर्ज समन्ततः ॥ 077a लाङ्गूलास्फोटशब्दाच्च चलितः स महागिरिः । 077c विघूर्णमानशिखरः समन्तात्पर्यशीर्यत ॥ 078a स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम् । 078c अन्तर्धायविचित्रेषु चचार गिरिसानुषु ॥ 079a स भीमसेनस्तच्छ्रुत्वा सम्प्रहृष्टतनूरुहः । 079c शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् ॥ 080a कदलीवनमध्यस्थमथ पीने शिलातले । 080c ददर्श सुमहाबाहुर्वानराधिपतिं तदा ॥ 081a विद्युत्सम्पातदुष्प्रेक्षं विद्युत्सम्पातपिङ्गलम् । 081c विद्युत्सम्पातनिनदं विद्युत्सम्पातचञ्चलम् ॥ 082a बाहुस्वस्तिकविन्यस्तपीनवृत्तशिरोधरम् । 082c स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् ॥ 083a किञ्चिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च । 083c लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् ॥ 084a ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्धुवम् । 084c अपश्यद्वदनं तस्य रश्मिवन्तमिवोडुपम् ॥ 085a वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलङ्कृतम् । 085c केसरोत्करसम्मिश्रमशोकानामिवोत्करम् ॥ 086a हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम् । 086c दीप्यमानेन वपुषा स्वर्चिष्मन्तमिवानलम् । 086e निरीक्षन्तमपत्रस्तं लोचनैर्मधुपिङ्गलैः ॥ 087a तं वानरवरं धीमानतिकायं महाबलम् । 087c स्वर्गपन्थानमावृत्य हिमवन्तमिव स्थितम् ॥ 088a दृष्ट्वा चैनं महाबाहुरेकं तस्मिन्महावने । 088c अथोपसृत्यतरसा भीमो भीमपराक्रमः ॥ 089a सिंहनादं चकारोग्रं वज्राशनिसमं बली । 089c तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः ॥ 090a हनूमांश्च महासत्व ईषदुन्मील्य लोचने । 090c दृष्ट्वा तमथ सावज्ञं लोचनैर्मधुपिङ्गलैः ॥ 091a 'ततः पवनजः श्रीमानन्तिकस्थं महौजसम्' । 091c स्मितेन चैनमासाद्यहनूमानिदमब्रवीत् ॥ 092a किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः । 092c ननु नाम त्वया कार्या दया भूतेषु जानता ॥ 093a वयं धर्मं न जानीमस्तिर्यग्योनिमुपाश्रिताः । 093c नरास्तु बुद्धिसम्पन्ना दयां कुर्वन्ति जन्तुषु ॥ 094a क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु । 094c धर्मघातिषु सज्जन्ते बुद्दिमन्तो भवद्विधाः ॥ 095a न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया । 095c अल्पबुद्धितया बाल्यादुत्सादयसि यन्मृगान् ॥ 096a ब्रूहि कस्त्वं किमर्थं वा किमिदं वनमागतः । 096c वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि ॥ 097a क्व च त्वयाऽद्यगन्तव्यं प्रब्रूहि पुरुषर्षभ । 097c अतः परमगम्योऽयं पर्वतः सुदुरारुहः ॥ 098a विना सिद्धगतिं वीर गतिरत्र न विद्यते । 098c [देवलोकस्य मार्गोऽयमगम्यो मानुषैः सदा] ॥ 099a कारुण्यात्त्वामहं वीर वारयामि निबोध मे । 099c नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो ॥ 100a स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ । 100c इमान्यमृतकल्पानि मूलानि च फलानि च ॥ 101a भक्षयित्वा निवर्तस्व मा वृथा प्राप्स्यसे वधम् । 101c ग्राह्यं यदि वचो मह्यं हितं मनुजपुङ्गव ॥

इति श्रीमन्महाभारेत अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 248 ॥

3-148-3 पुष्पविकचैर्विकसितकुसुमैः ॥ 3-148-6 पूर्वोत्तरे ऐशानकोणे ॥ 3-148-8 सौगन्धिकं पद्मजातिभेदः ॥ 3-148-9 संस्थानमाकारः ॥ 3-148-10 हरेः आहर । इदमे तज्जातीयम् ॥ 3-148-15 प्रभिन्नो मत्तः ॥ 3-148-16 मातरिश्वनो वायोः ॥ 3-148-23 पितुर्यथा पुत्रस्पर्शः शीतस्तादृक् स्पर्शवता वायुनेत्यर्थः ॥ 3-148-24 पित्रा वायुना ॥ 3-148-26 धातुविच्छेदैर्धातुभेदैः । अङ्गुलैरिव विषमच्छदैः सप्तपर्णादिभिर्नानाधातुरञ्जितपत्रैः । आञ्जनेति कृष्णधातुग्रहणम् । पीतकृष्णश्वेतधातुभिरित्यर्थः ॥ 3-148-27 पयोधरैर्मेघैः ॥ 3-148-28 दरी बिलगृहम् । कदरं महाप्रपातः ॥ 3-148-29 विषाणाग्रैर्दन्ताग्रैः । शिलाः समपाषाणाः शयनासनयोग्याः । उपलास्तदन्ये ॥ 3-148-30 शष्पं बालतृणम् । कबलो ग्रासस्तद्युक्तैः ॥ 3-148-33 वारणानामपि वारणः निवारकः सङ्ग्रामादौ ॥ 3-148-34 विचेष्टितैर्व्यावृत्ताभिः निश्चेष्टाभिरेकाग्राभिरित्यर्थः ॥ 3-148-35 रूपस्य सौन्दर्यस्य ॥ 3-148-41 निर्घात उत्पातः । पर्वसु उत्सवेषु ॥ 3-148-42 पोथयन् मर्दयन् ॥ 3-148-43 लता भूचरा । बल्ली वृक्षचरेति भेदः ॥ 3-148-49 रथाङ्गसाह्वाः चक्रसमाननामानश्चक्रवाका इतियावत् । दात्यूहः मयूरश्चातको वा ॥ 3-148-50 करेणुशरेण हस्तिनीकृतेवोत्तेजनेन पीजिताः । शरस्तूतेजने वाणे इतिभेदिनी ॥ 3-148-56 आस्त्रावी मत्तः ॥ 3-148-64 नलिनोत्पलं पद्मपुष्पम् ॥ 3-148-68 आस्फोटितं बाहुधातः ॥ 3-148-71 दिवंरामं मार्गं स्वर्गमार्गम् ॥ 3-148-72 एकायने अतिसङ्कुचिते ॥ 3-148-76 उद्गारं प्रतिशब्दं गौरिव उत्ससर्ज ॥ 3-148-82 बाहोः स्वस्तिकं चतुरश्रं मूलं अंस इति यावत् तत्र न्यस्तकधरमित्यर्थः । तत्र हेतुः स्कन्धेति । विपुलांसत्वादित्यर्थः ॥ 3-148-84 उडुपं चन्द्रम् ॥ 3-148-85 अशोकानामशोकपुष्पाणाम् ॥ 3-148-92 सरुजः सपीडः । ते स्वया ॥ 3-148-99 आश्वसिहि विश्वासं कुरु ॥ 3-148-101 मह्यं मम ॥