अध्यायः 147

भीमसेनस्मरणमात्रसन्निहितेन घटोत्कचेन दुर्गमे पथि द्रौपद्या वहनम् ॥ 1 ॥ तदनुचरै राक्षसैः पाण्डवानां विप्राणं च वहनम् ॥ 2 ॥ सर्वैर्नरनारायणाश्रममेत्य तत्र सुखेन निवासः ॥ 3 ॥ 001 युधिष्ठिर उवाच । 001a धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुङ्गवः । 001c भक्तोऽस्मानौरसः पुत्रो नेतुमर्हति मातरम् ॥ 002a तव भीम सुतेनाहं नीतो भीमपराक्रम । 002c अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् ॥ 003 वैशम्पायन उवाच । 003a भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् । 003c 'चिन्तयामास बलवान्महाबलपराक्रमम् ॥ 004a घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा । 004c कृताञ्जलिरुषातिष्ठदभिवाद्याथ पाण्डवान् । 004e ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः ॥ 005a उवाच भीमसेनं स पितरं सत्यविक्रमः ॥ 006a स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः । 006c आज्ञापय महाबाहो सर्वं कर्ताऽस्म्यसंशयम् ॥ 007a तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे । 007c चिन्ताया समनप्राप्तमित्युवाच वृकोदरः' ॥ 008a हैडिम्बेय परिश्रान्ता तव माताऽपराजिता । 008c त्वं कच कामगमस्तात बलवान्वह तां खग ॥ 009a स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा । 009c गच्छ नीचिकया गत्या यथा चैनां न पीडयेः ॥ 010 घटोत्कच उवाच । 010a धर्मराजं च धौम्यं च कृष्णां च यमजौ तथा । 010c एकोप्यहमलं वोढुं किमुताद्य सहायवान् ॥ 011a [अन्ये च शतशः शूरा विहङ्गाः कामरूपिणः । 011c सर्वान्वो ब्राह्मणैः सार्धं वक्ष्यन्ति सहिताऽनघ । 011e 'मन्दम्मन्दं गमिष्यामि वहन्द्रुपदनन्दिनीम्' ॥ 012 वैशम्पायन उवाच । 012a एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः । 012c पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे ॥ 013a लोमशः सिद्धमार्गेण जगामानुपमद्युतिः । 013c स्वेनैव स प्रभावेण द्वितीय इव भास्करः ॥ 014a ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः । 014c नियोगाद्राक्षसेनद्रस्य जग्मुर्भीमपराक्रमाः ॥ 015a एवं सुरमणीयानि वनान्युपवनानि च । 015c आलोकयन्तस्ते जग्मुर्विशालां बदरीमनु ॥ 016a ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाजवैः । 016c उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् ॥ 017a देशान्म्लेच्छजनाकीर्णान्नानारत्नाकरायुतान् । 017c ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् ॥ 018a विद्याघरसमाकीर्णआन्युतान्वानरकिन्नरैः । 018c तथा किम्पुरुषैश्चैव गन्धर्वैश्चसमन्ततः ॥ 019a मयूरैश्चभरैश्चैव हरिणै रुरुभिस्तथा । 019c वराहैर्गवयैश्चैव महिषैश्च समावृतान् ॥ 020a नदीजालसमाकीर्णान्नानापक्षियुतान्बहून् । 020c नानाविधमृगैर्जुष्टांश्चारणैश्चोपशोभितान् । 020e समदैश्चापि विहगैः पादपैरन्वितांस्तथा ॥ 021a तेऽवतीर्य बहून्देशानुत्तरांश्च कुरूनपि । 021c ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् ॥ 022a तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् । 022c उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः ॥ 023a ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम् । 023c स्निग्धामविरलच्छायां श्रिया परमया युताम् ॥ 024a पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम् । 024c विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् ॥ 025a फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम् । 025c मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् । 025e मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् ॥ 026a अदंशमशके देशे बहुमूलफलोदके । 026c नीलशाद्वलसञ्छन्ने देवगन्धर्वसेविते ॥ 027a सुभूमिभागविशदे स्वभावविदिते शुभे । 027c जातां हिममृदुस्पर्शे देशेऽपहतकण्टके ॥ 028a तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः । 028c अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः ॥ 029a ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् । 029c ददृशुः पाण्डवा राजन्सहिता द्विजपुङ्गवैः ॥ 030a तमसा रहितं पुण्यमनामृष्टं रवेः करैः । 030c क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् ॥ 031a महर्षिगणसम्बाधं ब्राह्म्या लक्ष्म्या समन्वितम् । 031c दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः ॥ 032a बलिहोमार्चितं दिव्यं सुसम्मृष्टानुलेपनम् । 032c दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् ॥ 033a विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः । 033c महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् ॥ 034a शरण्यं सर्वभूतानां ब्रह्मघोपनिनादितम् । 034c दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम् । 034e श्रिया युतमनिर्देश्यं देववर्योपशोभितम् ॥ 035a फलमूलाशनैर्दान्तैश्चारुकृष्णाजिनाम्बरैः । 035c सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः ॥ 036a महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः । 036c ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः ॥ 037a सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः । 037c भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः ॥ 038a दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम् । 038c अभ्यगच्छन्त सुप्रीता दिव्या देवमहर्षयः । 038e आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम्|| 039a प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः । 039c उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि ॥ 040a स तैः प्रीत्याऽथ सत्कारमुपनीतं महर्षिभिः । 040c प्रयतः प्रतिगृह्याथ धर्मराजो युधिष्ठिरः ॥ 041a तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् । 041c प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया ॥ 042a विवेश शोभया युक्तं भ्रातृभिश्च सहानघ । 042c ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहार्चितः ॥ 043a तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम् । 043c नरनारायणस्थानं भागीरथ्योपशोभितम् ॥ 044a तस्मिन्मधुस्रवफलां ब्रह्मर्षिगणभाविनीम् । 044c बदरीं तामुपाश्रित्य पाण्डवो भ्रातृभिः सह ॥ 045a मुदा युक्ता महात्मानो रेमिरे तत्र ते तदा । 045c आलोकयन्तो मैनाकं नानाद्विजगणायुतम् । 045e हिरण्यशिखरं चैव मध्ये बिन्दुसरः शिवम् ॥ 046a भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् । 046c मणिप्रवालप्रस्तारां पादपैरुषशोभिताम् ॥ 047a दिव्यपुष्पसमाकीर्णां मनःप्रीतिविवर्धनीम् । 047c वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः ॥ 048a तस्मिन्देवर्षिचरिते देशे परमदुर्गमे । 048c भागीरथीपुण्यजलेतर्पयाञ्चक्रिरे पितॄन् । 048e देवानृषींश्च कौन्तेयाः परमं शौचमास्थिताः ॥ 049a तत्र ते तर्पयन्तश्च जपन्तश्च कुरूद्वहाः । 049c ब्राह्मणैः सहिता वीरा ह्यवसन्पुरुषर्षभाः ॥ 050a कृष्णायास्तत्रपश्यन्तः क्रीडितान्यमरप्रभाः । 050c विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥

3-147-11 वक्ष्यन्ति वहनं करिष्यन्ति ॥ 3-147-17 रत्नाकरैः आसमन्तात् युतान् ॥ 3-147-22 अभ्याशे समीपे ॥ 3-147-27 स्वभावत एव विशेषेण रहिते स्वभावविहिते । जातां बदरीम् ॥ 3-147-33 अग्निशरणैः अग्न्यगारैः । आचितं व्याप्तम् । कठिनैः शिक्यैः करण्डैर्वा ॥ 3-147-39 सत्कारं चक्रुरिति शेषः ॥ 3-147-46 सीतां विमलपङ्कजाम् इति झ. पाठः । सीतां नामतः । प्रस्तारः सोपानपादगणादिरूपः । घट्ट इत्यर्थः ॥