अध्यायः 146
गन्धमादनप्रयाणे गमनाक्षमतयाऽधः पतनेन मूर्च्छिताया द्रौपद्याः पाण्डवैः सलिलसेचनादिना श्रमापनोदनम् ॥ 1 ॥ पाञ्चाल्या दुश्चराध्वसञ्चरणे चिन्तयमानं युधिष्ठिरम्प्रति भीमेन स्वेन घटोत्कचेन वा तस्या वहनोक्तिः ॥ 2 ॥ 001वैशम्पायन उवाच । 001a ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु । 001c पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् ॥ 002a श्रान्ता दुःखपरीता च वातवर्षेण तेन च । 002c सौकुमार्याच्च पाञ्चाली सम्मुमोह तपस्विनी ॥ 003a सा कम्पमाना मोहेन बाहुभ्यामसितेक्षणा । 003c वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत ॥ 004a आलम्बमाना सहितावूरू गजकरोपमौ । 004c रपपात सहसा भूमौ वेपन्ती कदली यथा ॥ 005a तां पतन्तीं वरारोहां भज्यमानां लतामिव । 005c नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् ॥ 006 नकुल उवाच । 006a राजन्पाञ्चालराजस्य सुतेयमसितेक्षणा । 006c श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत ॥ 007a अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी । 007c आश्वासय महाराज तामिमां श्रमकर्शिताम् ॥ 008 वैशम्पायन उवाच । 008a राजा तु वचनात्तस्य भृशं दुःखसमन्वितः । 008c भीमश्च सहदेवश्च सहसा समुपाद्रवन् ॥ 009a तामवेक्ष्यतु कौन्तेयो विवर्णवदनां कृशाम् । 009c अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः ॥ 010 युधिष्ठिर उवाच । 010a कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता । 010c भूमौ निपतिता शेते सुखार्हा वरवर्णिनी ॥ 011a सुकुमारौ कथं पादौ मुखं च कमलप्रभम् । 011c मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् ॥ 012a किमिदं द्यूतकामेन मया कृतमबुद्धिना । 012c आदाय कृष्णां चरता वने मृगगणाकुले ॥ 013a सुखं प्राप्स्यसि कल्याणि पाण्डवान्प्राप्य वै पतीन् । 013c इतिद्रुवदराजेन पित्रा दत्ताऽयतेक्षणा ॥ 014a तत्सर्वमानवाप्येयं श्रमशोकाद्विकर्शिता । 014c शेते निपतिता भूमौ पापस्य मम कर्मभिः ॥ 015 वैशम्पायन उवाच । 015a तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे । 015c धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः ॥ 016a ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन् । 016c राक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः ॥ 017a पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः । 017c स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः ॥ 018a सेव्यमाना च शीतेन जलमिश्रेण वायुना । 018c पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः ॥ 019a परिगृह्यच तां दीनां कृष्णामजिनसंस्तरे । 019c पार्था विश्रामयामासुर्लब्धसञ्ज्ञां तपस्विनम् ॥ 020a तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ । 020c कराभ्यां किणजाताभ्यां शनकैः संववाहतुः ॥ 021a पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः । 021c उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः ॥ 022a बहवः पर्वता भीम विषमा हिमदुर्गमाः । 022c तेषु कृष्णा महाबाहो कथं नु विचरिष्यति ॥ 023 भीमसेन उवाच । 023a त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभ । 023c स्वयं नेष्यामि राजेनद्र मा विषादे मनुः कृथाः ॥ 024a अथवा यो मया जातो विहगो मद्बलोपमः । 024c वहेदनघ सर्वान्नो वचनात्ते घटोत्कचः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ 146 ॥
3-146-1 क्रोशमात्रं प्रयातेषु इति झ. पाठः ॥ 1 . । 3-146-24 विहग इव विहगः खेचरः ॥