अध्यायः 145
गन्धमादनं प्रस्थितेषु पाण्डवेषु मध्येमार्गं महावृष्टेः प्रादुर्भावः ॥ 1 ॥ तदा पादपाद्यन्तरितैस्तैर्वृष्ट्युपरमे पुनः प्रस्थानम् ॥ 2 ॥ 001 वैशम्पायन उवाच । 001a ते शूरा सज्जधन्वानस्तूणवन्तः समार्गणाः । 001c बद्धगोधाङ्गुलित्राणाः खङ्गवन्तोऽमितौजसः ॥ 002a परिगृह्य द्विजश्रेष्ठाञ्ज्येष्ठाः सर्वधनुष्मताम् । 002c पञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् ॥ 003a सरांसि सरितश्चैव पर्वतांश्च वनानि च । 003c वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि ॥ 004a नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् । 004c आत्मन्यात्मानमाधाय वीरा मूलफलाशिनः ॥ 005a चेरुरुच्चावचाकारान्देशान्विषमसङ्कटान् । 005c पश्यन्तो मृगजातानि बहूनि विविधानि च ॥ 006a ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् । 006c विविशुस्ते महात्मानः किन्नराचरितं गिरिम् ॥ 007a प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम् । 007c चण्डवातं महद्वर्षं प्रादुरासीद्विशाम्पते ॥ 008a ततो रेणुः समुद्भूतः सपत्रबहुलो महान् । 008c पृथिवीं चान्तरिक्षं च द्यां चैव सहसाऽवृणोत् ॥ 009a न स्म प्रज्ञायते किञ्चिदावृते व्योम्नि रेणुना । 009c न चापि शेकुस्तत्कर्तुमन्योन्यस्याभिभाषणम् ॥ 010a न चापश्यंस्ततोऽन्योन्यं तमसाऽऽवृतचक्षुषः । 010c आकृष्यमाणा वातेन साश्मचूर्णेन भारत ॥ 011a द्रुमाणां वातरुग्णानां पततां भूतलेऽनिशम् । 011c अन्येषां च महीजानां शब्दः समभवन्महान् ॥ 012a द्यौः स्वित्पतति किं भूमिर्दीर्यते पर्वतोनु किम् । 012c इति ते मेनिरे सर्वे पवनेन विमोहिताः ॥ 013a ते पथाऽनन्तरान्वृक्षान्वल्मीकान्विषमाणि च । 013c पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे ॥ 014a ततः कार्मुकमादाय भीमसेनो महाबलः । 014c कृष्णामादाय सङ्गम्य तस्थावाश्रित्य पादपम् ॥ 015a धर्मराजश्च धौम्यश् निलिल्याते महावने । 015c अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते ॥ 016a नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः । 016c वृक्षानासाद्य सन्त्रस्तास्तत्रतत्र निलिल्यिरे ॥ 017a मन्दीभूते तु पवने तस्मिन्रजसि शाम्यति । 017c महद्भिर्जलधारौघैर्वर्षमभ्याजगाम ह ॥ 018a भृशं चटचटाशब्दो वज्राणां क्षिप्यतामिव । 018c ततस्ताश्चञ्चलाभासश्चेरुरभ्रेषु विद्युतः ॥ 019a ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः । 019c प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः ॥ 020a तत्र सागरगा ह्यापः कीर्यमाणाः समन्ततः । 020c प्रादुरासन्सकलुषाः फेनवत्यो विशाम्पते ॥ 021a वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम् । 021c परिसमस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् ॥ 022a तस्मिन्नुपरते शब्देबाते च समतां गते । 022c गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ॥ 023a निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत । 023c प्रतस्थिरे पुनर्वीराः पर्वतं गन्धमादनम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ 145 ॥
3-145-13 पथा मार्गेण । अनन्तरान्सन्निहितान् । निलिल्यिरे निलीनाः ॥ 3-145-14 सङ्गम्यादायेत्यन्वयः । गत्वा गृहीत्वेत्यर्थः ॥ 3-145-19 अश्मसहिता करकासहिताः ॥ 3-145-21 वारि वहन्त्यो नद्यः ॥