अध्यायः 144
पाण्डवैर्मन्दरगिरिगमनम् ॥ 1 ॥ तथा आकाशगङ्गासेवनम् ॥ 2 ॥ तथा नरकासुरास्थिराशिदर्शनम् ॥ 3 ॥ लोमशेन पाण्डवान्प्रति विष्णुना नरकासुरवधप्रकारकथनम् ॥ 4 ॥ तथा वराहरूपिणा हरिणा भारावमग्नभूम्युद्धरणकथनम् ॥ 5 ॥
001 [लोमश उवाच । 001a द्रष्टारः पर्वताः सर्वे नद्यः सपुरकाननाः । 001c तीर्थानि चैव श्रीमन्ति स्पृष्टं च सलिलं करैः ॥ 002a पर्वतं मन्दरं दिव्यमेष पन्थाः प्रयास्यति । 002c समाहीता निरुद्विग्नाः सर्वे भवत पाण्डवाः ॥ 003a अयं देवनिवासो वै गन्तव्यो वो भविष्यति । 003c ऋषीणां चैव दिव्यानां निवासः पुण्यकर्मणां ॥ 004a एषा शिवजला पुण्या याति सौम्य महानदी । 004c बदरीप्रभवा राजन्देवर्षिगणसेविता ॥ 005a एषा वैहायसैर्नित्यं वालखिल्यैर्महात्मभिः । 005c अर्चिता चोपयाता च गन्धर्वैश्च महात्मभिः ॥ 006a अत्र साम स्म गायन्ति सामगाः पुण्यनिःस्वनाः । 006c मरीचिः पुलहश्चैव भृगुश्चैवाङ्गिरास्तथा ॥ 007a अत्राह्निकं सुरश्रेष्ठो जपते समरुद्गणः । 007c साध्याश्चैवाश्विनौ चैव परिधावन्ति तं तदा ॥ 008a चन्द्रमाः सह सूर्येण ज्योतीषि च ग्रहैः सह । 008c अहोरात्रविभागेन नदीमेनामनुव्रजन् ॥ 009a एतस्याः सलिलं मूर्ध्नि वृषाङ्कः पर्यधारयत् । 009c गङ्गाद्वारे महाभाग येन लोकस्थितिर्भवेत् ॥ 010a एतां भगवतीं देवीं भवन्तः सर्व एव हि । 010c प्रयतेनात्मना तात प्रतिगम्याभिवादत ॥ 011a तस्य तद्वचनं श्रुत्वा लोमशस्य महात्मनः । 011c आकाशगङ्गां प्रयताः पाण्डवास्तेऽभ्यवादयन् ॥ 012a अभिवाद्य च ते सर्वे पाण्डवा धर्मचारिणः । 012c पुनः प्रयाताः संहृष्टाः सर्वैर्ऋषिगणैः सह ॥ 013a ततो दूरात्प्रकाशन्तं पाण्डुरं मेरुसन्निभम् । 013c ददृशुस्ते नरश्रेष्ठा विकीर्णं सर्वतोदिशम् ॥ 014a तान्प्रष्टुकामान्विज्ञाय पाण्डवान्स तु लोमशः । 014c उवाच वाक्यं वाक्यज्ञः शृणुध्वं पाण्डुनन्दनाः ॥ 015a एतद्विकीर्णं सुश्रीमत्कैलासशिखरोपमम् । 015c यत्पश्यसि नरश्रेष्ठ पर्वतप्रतिमं स्थितम् ॥ 016a एतान्यस्थीनि दैत्यस्य नरकस्य महात्मनः । 016c पर्वतप्रतिमं भाति पर्वतप्रस्तराश्रितम् ॥ 017a पुरातनेन देवेन विष्णुना परमात्मना । 017c दैत्यो विनिहतस्तेन सुरराजहितैषिणा ॥ 018a दशवर्षसहस्राणि तपस्तप्यन्महामनाः । 018c ऐन्द्रं प्रार्थयते स्थानं तपःस्वाध्यायविक्रमात् ॥ 019a तपोबलेन महता बाहुवेगबलेन च । 019c नित्यमेव दुराधर्षो धर्षयन्स दितेः सुतः ॥ 020a स तु तस्य बलं ज्ञात्वा धर्मे च चरितव्रतम् । 020c भयाभिभूतः संविग्नः शक्र आसीत्तदाऽनघ ॥ 021a तेन सञ्चिन्तितो देवो मनसा विष्णुरव्ययः । 021c सर्वत्रगः प्रभुः श्रीमानागतश्च स्थितो बभौ ॥ 022a ऋषयश्चापि तं सर्वे तुष्टुवुश्च दिवौकसः ॥ 023a तं दृष्ट्वा ज्वलमानश्रीर्भगवान्हव्यवाहनः । 023c नष्टतेजाः समभवत्तस्य तेजोभिभर्त्सितः ॥ 024a तं दृष्ट्वा वरदं देवं विष्णुं देवगणेश्वरम् । 024c प्राञ्जलिः प्रणतो भूत्वा नमस्कृत्य च वज्रभृत् । 024e प्राह वाक्यं ततस्तत्त्वं यतस्तस्य भयं भवेत् ॥ 025 विष्णुरुवाच । 025a जानामि ते भयं शक्र दैत्येन्द्रान्नरकात्ततः । 025c ऐन्द्रं रप्रार्थयते स्थानं तपःसिद्धेन कर्मणा ॥ 026a सोहमेनं तव प्रीत्या तपःसिद्धमपि ध्रुवम् । 026c वियुनज्मि देहाद्देवेनद्र मुहूर्तं प्रतिपालय ॥ 027 लोमश उवाच । 027a तस्य विष्णुर्महातेजाः पाणिना चेतनां हरत् । 027c स पपात ततो भूमौ गिरिराज इवाहतः । 027e तस्यैतदस्थिसङ्घातं मायाविनिहतस्य वै ॥ 028a इदं द्वितीयमपरं विष्णो कर्म प्रकाशते ॥ 029a नष्टा वसुमती कृत्स्ना पाताले चैव मज्जिता । 029c पुनरुद्धरिता तेन वाराहेणैकशृङ्गिणा ॥ 030 युधिष्ठिर उवाच । 030a मगवन्विस्तरेणे मां कथां कथय तत्त्वतः ॥ 031a कथं तेन सुरेशेन नष्टा वसुमती तदा । 031c योजनानां शतं ब्रह्मन्पुनरुद्धरिता तदा ॥ 032a केन चैव प्रकारेण जगतो धरणी ध्रुवा । 032c शिवा देवी महाभागा सर्वसस्यप्ररोहिणी । 032e कस्य चैव प्रभावाद्धि योजनानां शतं गता ॥ 033a केन तद्वीर्यसर्वस्वं दर्शितं परमात्मनः| 033c एतत्सर्वं यथातत्त्वमिच्छामि द्विजसत्तम | 033e श्रोतुं विस्तरशः सर्वं त्वं हि तस्य प्रतिश्रयः ॥ 034 लोमश उवाच । 034a यत्तेऽहं परिपृष्टोऽस्मि कथामेतां युधिष्ठिर । 034c तत्सर्वमखिलेनेह श्रूयतां मम भाषतः ॥ 035a पुरा कृतयुगे तात वर्तमाने भयङ्करे । 035c यमत्वं कारयामास आदिदेवः पुरातनः ॥ 036a यमत्वं कुर्वतस्तस्य देवदेवस्य धीमतः । 036c न तत्र म्रियते कश्चिज्जायते वा तथाऽच्युत ॥ 037a वर्धन्ते पक्षिसङ्घाश्च तथा पशुगवेडकम् । 037c गवाश्वं च मृगाश्चैव सर्वे ते पिशिताशनाः ॥ 038a तथा पुरुषशार्दूल मानुषाश्च परन्तप । 038c सहस्रशो ह्ययुतशो वर्धन्ते सलिलं यथा ॥ 039a एतस्मिन्सङ्कुले तात वर्तमाने भयङ्करे । 039c अतिभाराद्वसुमती योजनानां शतं गता ॥ 040a सा वै व्यथितसर्वाङ्गी भारेणाक्रान्तचेतना । 040c नारायणं वरं देवं प्रपन्ना शरणं गता ॥ 041 पृथिव्युवाच । 041a भगवंस्त्वत्प्रसादाद्धि तिष्ठेयं सुचिरं त्विह । 041c भारेणास्मि समाक्रान्ता न शक्नोस्मि स्म वर्तितुम् ॥ 042a ममेमं भगवन्भारं व्यपनेतुं त्वमर्हसि । 042c शरणागताऽस्मि ते देव प्रसादं कुरु मे विभो ॥ 043a तस्यास्तद्वचनं श्रुत्वा भगवानक्षरः प्रभुः । 043c प्रोवाच वचनं हृष्टः श्राव्याक्षरसमीरितम् ॥ 044a न ते महि भयं कार्यं भारार्ते वसुधारिणि । 044c अयमेवं तथा कुर्मि यथा लध्वी भविष्यसि ॥ 045 लोमश उवाच । 045a स तां विसर्जयित्वा तु वसुधां शैलकुण्डलाम् । 045c ततो वराहः संवृत्त एकशृङ्गो महाद्युतिः ॥ 046a रक्ताभ्यां नयनाभ्यां तु भयमुत्पादयन्निव । 046c धूमं च ज्वलयल्ँलक्ष्म्या तत्र देशे व्यवर्धत ॥ 047a स गृहीत्वा वसुमतीं शृङ्गेणैकेन भास्वता । 047c योजनानां शतं वीर समुद्धरति सोऽक्षरः ॥ 048a तस्यां चोद्धार्यमाणायां सङ्क्षोभः समजायत । 048c देवाः सङ्क्षुभिताः सर्वे ऋषयश्च तपोधनाः ॥ 049a हाहाभूतमभूत्सर्वं त्रिदिवं व्योम भूस्तथा । 049c न पर्यवस्थितः कश्चिद्देवो वा मानुषोपि वा ॥ 050a ततो ब्रह्माणमासीनं ज्वलमानमिव श्रिया । 050c देवाः सर्षिगणाश्चैव उपतस्थुरनेकशः ॥ 051a उपसर्प्य च देवेशं ब्रह्माणं लोकसाक्षिकम् । 051c भूत्वा प्राञ्जलयः सर्वे वाक्यमुच्चारयंस्तदा ॥ 052a लोकाः सङ्क्षुभिताः सर्वे व्याकुलं च चराचरम् । 052c समुद्राणां च सङ्क्षोभस्त्रिदशेश प्रकाशते ॥ 053a सैषा वसुमती कृत्स्ना योजनानां शतं गता । 053c किमेतत्किम्प्रभावेण येनेदं व्याकुलं जगत् । 053e आख्यातु नो भवाञ्शीघ्रं विसञ्ज्ञाः स्मेह सर्वशः ॥ 054 ब्रह्मोवाच । 054a असुरेभ्यो भयं नास्ति युष्माकं कुत्रचित्क्वचित् । 054c श्रूयतां यत्कृते त्वेष सङ्क्षोभो जायतेऽमराः ॥ 055a योसौ सर्वत्रगः श्रीमानक्षरात्मा व्यवस्थितः । 055c तस्य प्रभावात्सङ्क्षोभस्त्रिदिवस्य प्रकाशते ॥ 056a यैषा वसुमती कृत्स्ना योजनानां शतं गता । 056c समुद्धृता पुनस्तेन विष्णुना परमात्मना ॥ 057a तस्यामुद्धार्यमाणायां सङ्क्षोभः समजायत । 057c एवं भवन्तो जानन्तु च्छिद्यतां संशयश्च वः ॥ 058 देवा ऊचुः । 058a क्व तद्भूतं वसुमतीं समुद्धरति हृष्टवत् । 058c तं देशं भगवन्ब्रूहि तत्र यास्यामहे वयम् ॥ 059 ब्रह्मोवाच । 059a हन्त गच्छत भद्रं वो नन्दने पशय्त स्थितम् । 059c एषोत्र भगवाञ्श्रीमान्मुपर्णः सम्प्रकाशते ॥ 060a वाराहेणैव रूपेण भगवाल्ँलोकभावनः । 060c कालानल इवाभाति पृथिवीतलमुद्धरन् ॥ 061a एतस्योरसि सुव्यक्तं श्रीवत्समभिराजते । 061c पश्यध्वं विबुधाः सर्वे भूतमेतदनामयम् ॥ 062 लोमश उवाच । 062a ततो दृष्ट्वा महात्मानं श्रुत्वा चामन्त्र्य चामराः । 062c पितामहं पुरस्कृत्य जग्मुर्देवा यथागतम् ॥ 063 वैशम्पायन उवाच । 063a श्रुत्वा तु तां कथां सर्वे पाण्डवा जनमेजय । 063c लोमशादेशितेनाशु यथा जग्मुः प्रहृष्टवत् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ 144 ॥
3-144-1 भोद्रष्टारः सर्वे मन्दरादन्ये पर्वता दृष्टा इति शेषः ॥ 3-144-4 महानदी गङ्गा अलकनन्दा वा ॥ 3-144-5 उपयाता इष्टसिद्ध्यर्थं प्रार्थिता ॥ 3-144-7 आह्रिकं नैयमिकं जपम् । परिधावन्ति परिचरन्ति । तमिन्द्रम् ॥ 3-144-10 वादत वादयत । अक्षरलोप आर्षः ॥ 3-144-13 पाण्डुरं श्वेतम् । अस्थां राशिमिति शेषः ॥ 3-144-27 पाणिना चपेटाघातेन चेतनां हरत्प्राणान्जहार ॥ 3-144-32 गता अधस्तादिति शेषः ॥ 3-144-37 पशवश्च गावश्च एडका मेषाश्च पशुगवेडकम् ॥ 3-144-44 न ते त्वया । हे महि । कुर्मि करोमि ॥ 3-144-46 धूमं धूपम् । ज्वलयन्निति हेतौ शतृप्रत्ययः । यथायथा धूमो ज्वलति तथातथाऽवर्धत इत्यर्थः ॥ 3-144-51 वाक्यं उच्चारयन् उच्चारितवन्तः ॥ 3-144-59 नन्दने इन्द्रवने । अत्र एतत्समीपे ॥ 59 ||