अध्यायः 143
धनञ्जयदर्शनदुःखितेन युधिष्ठिरेण भीमं प्रति धनञ्जयप्रशंसनपूर्वकं तद्दर्शनाय गन्धमादनप्रवेशनिश्चयः ॥ 1 ॥ 001 युधिष्ठिर उवाच । 001a भीमसेनयमौ चोभौ पाञ्चालि च निबोधत । 001c नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् ॥ 002a दुर्बलाः क्लेशिताः स्मेति यद्ब्रुवामेतरेतरम् । 002c अशक्येऽपि व्रजामो यद्धनञ्जयदिदृक्षया ॥ 003a तन्मे दहति गात्राणि तूलराशिमिवानलः । 003c यच्च वीरं न पश्यामि धनञ्जयमुपान्तिके ॥ 004a तस्यादर्शनतप्तं मां सानुजं वनमास्थितम् । 004c याज्ञसेन्याः परामर्शः स च वीर दहत्युत ॥ 005a नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् । 005c अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ॥ 006a तीर्थानि चैव रम्याणि वनानि च सरांसि च । 006c चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया ॥ 007a पञ्चवर्षाण्यहं वीरं सत्यसन्धं धनञ्जयम् । 007c यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर ॥ 008a तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् । 008c न पश्यामि महाबाहुं तेन तप्ये वृकोदर ॥ 009a कृतास्त्रं निपुणं युद्देऽव्रतिमानं धनुष्मताम् । 009c न पश्यामि कुरुश्रेष्ठ तेन तप्ये वृकोदर ॥ 010a चरन्तमरिसङ्घेषु क्रुद्धं कालमिवानघ । 010c प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनञ्जयम् ॥ 011a यः स शक्रादनवरो वीर्येण च बलेन च । 011c यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः ॥ 012a 'नारायणसमो युद्धे सत्यसन्धो दृढव्रतः । 012c तं ममापश्यतो भीम न शान्तिर्हृदयस्य वै' ॥ 013a दुःखेन महताऽऽविष्टश्चिन्तयामि दिवानिशम् । 013c अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ॥ 014a सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा । 014c ऋजुमार्गप्रपन्नस्य शर्मदाता भयस्य च ॥ 015a स तु जिह्मप्रवृत्तस्य माययाऽभिजिघांसतः । 015c अपि वज्रधरस्यापि भवेत्कालविषोपमः ॥ 016a शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् । 016c दाताऽभयस्य बीभत्सुरमितात्मा महाहलः ॥ 017a सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता । 017c आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः ॥ 018a रत्नानि यस्य वीर्येण दिव्यान्यासत्पुरा मम । 018c बहूनि बहुजातीनि यानि प्राप्तः सुयोधनः ॥ 019a यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम । 019c सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव ॥ 020a वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि । 020c अजेयममितं युद्धे तं न पश्यामि फल्गुनम् ॥ 021a सङ्कर्षणं महावीर्यं त्वां च भीमापराजितम् । 021c अनुयातः स्ववीर्येण वासुदेवं च शत्रुहा ॥ 022a यस्य बाहुबले तुल्यः प्रभावे च पुरन्दरः । 022c जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः ॥ 023a ते वयं तं नरव्याघ्रं सर्वेवीर दिदृक्षवः । 023c प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् ॥ 024a विशाला बदरी यत्रनरनारायणाश्रमः । 024c तं सदाऽध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम् ॥ 025a कुबेरनलिनीं रम्यां राक्षसैरभिसेविताम् । 025c पद्भिरेव गमिष्यामस्तप्यभाना महत्तपः ॥ 026a नातप्ततपसा शक्यो गन्तुं देशो वृकोदर । 026c न नृशंसेन लुब्धेन नाप्रशान्तेन भारत ॥ 027a तत्र सर्वेगमिष्यामो भीमार्जुनपदैषिणः । 027c सायुधा बद्धनिस्त्रिंशाः सार्धं विप्रैर्महाव्रतैः ॥ 028a मक्षिकादंशमशकान्सिंहान्व्याघ्रान्सरीसृपान् । 028c प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति ॥ 029a ते वयं नियतात्मानः पर्वतं गन्धमादनम् । 029c प्रवेक्ष्यामो मिताहारा धनञ्जयदिदृक्षवः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ 143 ॥
3-143-1 भूतस्य प्राक्तनकर्मणः ॥ 3-143-4 परामर्शः केशेषु ग्रहणम् । तस्य दर्शनतृष्णं मामिति झ. पाठः ॥ 3-143-9 अप्रतिमानं नास्ति प्रतिमानं सादृश्यं यस्य सोऽप्रतिमानस्तम् ॥ 3-143-10 प्रभिन्नं स्रवन्मदम् ॥ 3-143-11 अनवरोऽहीनः ॥ 3-143-16 अमितात्मा महामनाः ॥ 3-143-20 अमितमहिंसितं अजितमितियावत् ॥ 3-143-21 हे भीम ॥ 3-143-28 अनियतोऽशुचिः ॥