अध्यायः 142

भीमेन दुर्गमे गमनाक्षमतया युधिष्ठिरनिवारितानां द्रौपद्यादीनां वहनाङ्गीकारः ॥ 1 ॥ पथि कुलिन्दाधिपतिना सुबाहुना पूजितैर्युधिष्ठिरादिभिस्तस्यिन्भृत्यवर्गस्थापनपूर्वकमर्जुनदिदृक्षया गन्धमादनम्प्रति प्रस्थानम् ॥ 2 ॥ 001युधिष्ठिर उवाच । 001a अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च । 001c अग्निना तपसा चैव शक्यं गन्तुं वृकोदर ॥ 002a सन्निवर्तय कौन्तेय क्षुत्पिपासे बलाश्रयात् । 002c ततो बलं च दाक्ष्यं च संश्रयस्व वृकोदर ॥ 003a ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति । 003c बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति ॥ 004a अथवा सहदेवेन धौम्येन च समं विभो । 004c सूतैः पौरोगवैश्चैव सर्वैश्च परिचारकैः ॥ 005a रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि । 005c सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण ॥ 006a त्रयो वयं गमिष्यामो लध्वाहारा यतव्रताः । 006c अहं च नकुलश्चैव लोमशश्च महातपाः ॥ 007a ममागमनमाकाङ्क्षन्ग्गाद्वारे समाहितः । 007c वसेह द्रौपदीं रक्षन्यावदागमनं मम ॥ 008 भीम उवाच । 008a राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत । 008c व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया ॥ 009a तवचाप्यरतिस्तीव्रा वर्तते तमपश्यतः । 009c गुडाकेशं महात्मानं सङ्ग्रामेष्वपलायिनम् । 009e किं पुनः सहदेवं च मां च कृष्णां च भारत ॥ 010a द्विजाः कामं निवर्तन्तां सर्वे च परिचारकाः । 010c सूताः पौरोगवाश्चैव यं च मन्येत नो भवान् ॥ 011a न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् । 011c शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विपमेषु च ॥ 012a इयं चापि महाभागा राजपुत्री पतिव्रता । 012c त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् ॥ 013a तथैव सहदेवोऽयं सततं त्वामनुव्रतः । 013c न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै ॥ 014a अपिचात्र महाराज सव्यसाचिदिदृक्षया । 014c सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह ॥ 015a यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः । 015c पद्भिरेव गमिष्यामो मा राजन्विमना भव ॥ 016a अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति । 016c इति मे वर्तते बुद्धिर्मा राजन्विमना भव ॥ 017a सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ । 017c दुर्गे सन्तारयिष्यामि यत्राशक्तौ भविष्यतः ॥ 018 युधिष्ठिर उवाच । 018a एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् । 018c यत्त्वमुत्सहसे वोढुं पाञ्चालीं विपुलेऽध्वनि ॥ 019a यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते । 019c बलं तव यशश्चैवधर्मः कीर्तिश्च वर्धताम् ॥ 020a यत्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया । 020c मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः ॥ 021 वैशम्पायन उवाच । 021a ततः कृष्णाऽब्रवीद्वाक्यं प्रहसन्ती मनोरमा । 021c गमिष्यामि न सन्तापः कार्यो मां प्रति भारत ॥ 022 लोमश उवाच । 022a तपसा शक्यते गन्तुं पर्वतो गन्धमादनः । 022c तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् ॥ 023a नकुलः सहदेवश्च भीमसेनश् पार्थिव । 023c अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् ॥ 024 वैशम्पायन उवाच । 024a एवं सम्भाषमाणास्ते सुबाहुविषयं महत् । 024c ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् ॥ 025a किराततङ्गणाकीर्णं पुलिन्दशतसङ्कुलम् । 025c हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् । 025e सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत ॥ 026a विषयान्ते कुलिन्दानामीश्वरः प्रीतिपूर्वकम् । 026c तत्र ते पूजितास्तेन सर्व एव सुखोषिताः ॥ 027a प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति । 027c इन्द्रसेनमुखांश्चापि भृत्यान्पौरोगवांस्तथा ॥ 028a सूदांश्च पारिबर्हांश्च द्रौपद्याः सर्वशो नृप । 028c राज्ञः कुलिन्दाधिपतेः परिदाय महारथाः ॥ 029a पद्भिरेव महावीर्या ययुः कौरवनन्दनाः । 029c ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः । 029e तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनञ्जयम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥

3-142-28 परिदाय रक्षार्थं समर्प्य ॥