अध्यायः 141

लोमशचोदनया युधिष्ठिरेण कैलासादिगिरिप्रवेशः ॥ 1 ॥

001 लोमश उवाच । 001a उशीरबीजं मैनाकं गिरिं श्वेतं च भारत । 001c समतीतोऽसि कौन्तेय कालशैलं च पार्थिव ॥ 002a एषा गङ्गा सप्तविधा राजते भरतर्षभ । 002c स्थानं विरजसं पुण्यं यत्राग्निर्नित्यमिध्यते ॥ 003a एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमद्भुतम् । 003c समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ ॥ 004a एतद्द्रक्ष्यसि देवानामाक्रीडं च रणाङ्कितम् । 004c अतिक्रान्तोसि कौन्तेय कालशैलं च पर्वतम् ॥ 005a श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् । 005c यत्र माणिवरो यक्षः कुबेरश्चैव यक्षराट् ॥ 006a अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रगामिनः । 006c तथा किम्पुरुषा राजन्यक्षाश्चैव चतुर्गुणाः ॥ 007a अनेकरूपसंस्थाना नानाप्रहरणाश्च ते । 007c यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ॥ 008a तेषामृद्धिरतीवात्र गतौ वायुसमाश्च ते । 008c स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम्॥ 009a तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः । 009c दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु ॥ 010a कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः । 010c तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव ॥ 011a कैलासः पर्वतो राजन्षड्योजनशतोच्छ्रितः । 011c यत्र देवाः समायान्ति विशाला यत्र भारत ॥ 012a असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिन्नराः । 012c नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति ॥ 013a तान्विगाहस्व पार्थाद्य तपसा च दमेन च । 013c रक्ष्यमाणो मया राजन्भीमसेनबलेन च ॥ 014a स्वस्ति ते वरुणो राजा यमश्च समितिञ्जयः । 014c गङ्गा च यमुना चैव पर्वताश्च दिशन्तु ते ॥ 015a मरुतश्च सहाश्विभ्यां सरितश्च सरांसि च । 015c स्वस्ति देवासुरेभ्यश्च वसुभ्यश् महाद्युते ॥ 016a इन्द्रस्य जाम्बूनदपर्वताद्वैशृणोमि घोषं तव देवि गङ्गे । 016c गोपाययेमं सुभगे गिरिभ्यःसर्वाजमीढापचितं नरेन्द्रम् ॥ 017a ददस्व शर्म प्रविविक्षतोऽस्यशैलानिमाञ्छैलसुते नृपस्य । 017c 'शिवप्रदा सर्वसरित्प्रधाने सभ्रातृकस्येह युधिष्ठिरस्य' । KK0306141017e यत्तो भवस्व इति शशास पार्थम् उक्त्वा तथा सागरगां स विप्रो 018 युधिष्ठिर उवाच । 018a अपूर्वोऽयं सम्भ्रमो लोमशस्य कृष्णां च सर्वे रक्षत मा प्रमादः । 018c देशो ह्ययं दुर्गतमो मतोऽस्यतस्मात्परं शौचमिहाचरध्वम् ॥ 0019 वैशम्पायन उवाच । 019a ततोऽब्रवीद्भीममुदारवीर्यं कृष्णां यत्तः पालय भीमसेन । 019c शून्येऽर्जुनेऽसन्निहिते च तात त्वामेव कृष्णा भजते भयेषु ॥ ततो महात्मां स यमौ समेत्य मूर्धन्युपाघ्राय विमृज्य गात्रे । 020a
उवाच तौ बाष्पकलं स राजा मा भैष्टमागच्छतमप्रमत्तौ ॥ 020c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकचत्वारिंशदधिकशततमोऽध्यायः ॥ 141 ॥

3-141-1 कैलासं चापि पर्वतम् इति क. पाठः ॥ 3-141-2 यत्राग्निर्नित्यमिध्यत इति त्रियोगिनारायणाख्यं हरिद्वारात् परतः स्थानमस्ति ॥ 3-141-11 विशाला बदरी ॥ 3-141-16 इन्द्रस्य इन्द्रसम्बन्धिनः । जाम्बूनदं सुवर्णं तन्मयात्पर्वतान्मेरोः । आजमीढवंशे अपचितं पूजितं श्रेष्ठमित्यर्थः ॥ 3-141-17 ददस्व देहि ॥ 3-141-18 शौचं वाङ्यनःकायशुद्धिम् ॥ 3-141-20 भैष्टमिति च्छेदः ॥