अध्यायः 140
रैभ्ययाज्येन बृहद्द्युम्नेन सत्रे सहायत्वेन वृतयोरर्वावसुपरावस्वोस्तदर्थं गमनम् ॥ 1 ॥ भार्यादिदृक्षया पुनराश्रमं गतेन परावसुना रात्रौ मृगभ्रमेण कृष्णाजिनसंवीतस्य रैभ्यस्य हननम् ॥ 2 ॥ परावसुचोदनया बृहद्द्युम्नेन ब्रह्महत्याग्रस्त इति प्रोत्सार्यमाणेनार्वावसुना तपःप्रसादितसूर्यादिदेवेभ्यो रैभ्यभरद्वाजयवक्रीतोत्थानादिवरग्रहणम् ॥ 3 ॥ देवैर्यवक्रीतदुःखस्य वनोपदेशं वेदाभ्यासफलत्वकथनपूर्वकं रैभ्यादीनामुज्जीवनम् ॥ 4 ॥ 001 लोमश उवाच । 001a एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः । 001c सत्रं तेने महाभागो रैभ्ययाज्यः प्रतापवान् ॥ 002a तेन रैभ्यस्य वै पुत्रावर्वावसुपरासू । 002c वृतौ सहायौ सत्रार्थं बृहद्द्युम्नेन धीमता ॥ 003a तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः । 003c आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः ॥ 004a अथावलोककोऽगच्छद्गृहानकः परावसुः । 004c कृष्णाजिनेन संवीतं ददर्श पितरं वने ॥ 005a जघन्यरात्रे निद्रान्धः सावशेषे तमस्यापि । 005c चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् ॥ 0016a मृगं तु मन्यमानेन पिता वै तेन हिंसितः । 006c अकामयानेन तदा शरीरत्राणमिच्छता ॥ 007a तस्य स प्रेतकार्याणि कृत्वा सर्वाणि भारत । 007c पुनरागम्य तत्सत्रमब्रवीद्धातरं वचः ॥ 008a इदं कर्म न शक्तस्त्वं वोढुमेकः कथञ्चन । 008c मया च हिंसितस्तातो मन्यमानेन वै मृगम् ॥ 009a सोऽस्मदर्थे व्रतं तात चर त्वं ब्रह्मघातिनाम् । 009c समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने ॥ 010 अर्वावसुरुवाच । 010a करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः । 010c ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः ॥ 011 लोमश उवाच । 011a स तस्यब्रह्महत्यायाः पारं गत्वा युधिष्ठिर । 011c अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः ॥ 012a ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम् । 012c बृहद्द्युम्नमुवाचेदं वचनं हर्षगद्गदम् ॥ 013a एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति । 013c ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वामसंशयम् ॥ 014 लोमश उवाच । 014a तच्छ्रुत्वैव तदा राजा प्रेष्यानाह स विट्पते । 014c प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा । 014c न मया ब्रह्महत्येयं कृतेत्याह पुनःपुनः ॥ 015a उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महा इति भारत । 015c नैव स्म प्रतिजानामि ब्र्हमहत्यां स्वयङ्कृताम् । 015e मम भ्रात्रा कृतमिदं मया स परिमोक्षितः ॥ 016a स तथा प्रवदन्क्रोधात्तैश्च प्रेष्यैः प्रभाषितः । 016c तूष्णीं जगाम ब्रह्मर्षिर्वनमेव महातपाः ॥ 017a उग्रं तपः समास्थाय दिवाकरमथाश्रितः । 017c रहस्यवेदं कृतवान्सूर्यस्य द्विजसत्तमः ॥ 018a मूर्तिमांस्तं ददर्शाथ स्वयमग्रभुगव्ययः ॥ 019a प्रीतास्तस्याभवन्देवाः कर्मणाऽर्वावसोर्नृप । 019c तं ते प्रवरयामासुर्निरासुश्च परावसुम् ॥ 020a ततो देवा वरं तस्मै ददुरग्निपुरोगमाः ॥ 021a स चापि वरयामास पितुरुत्थानमात्मनः । 021c अनागस्त्वं ततो भ्रातुः पितुश्चास्मरणं वधे ॥ 022a भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः । 022c प्रतिष्ठां चापि वेदस्य सौरस्य द्विजसत्तमः ॥ 023a एवमस्त्विति तं देवाः प्रोचुश्चापि वरान्ददुः । 023c ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर ॥ 024a अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् । 024c समधीतं मया ब्रह्म व्रतानि चरितानि च ॥ 025a कथं च रैभ्यः शक्तो ममाधीयानं तपस्विनम् । 025c तथायुक्तेन विधिना निहन्तुममरोत्तमाः ॥ 026 देवा ऊचुः । 026a मैवं कृथा यवक्रीत यथा वदसि वै मुने । 026c ऋते गुरुमधीता हि स्वयं वेदास्त्वया पुरा ॥ 027a अनेन तु गुरून्दुःखात्तोषयित्वाऽऽत्मकर्मणा । 027c कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् ॥ 028 लोमश उवाच । 028a यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः । 028c सञ्जीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् ॥ 029a'ततो वै स यवक्रीतो ब्रह्मचर्यं चचार ह । 029c अष्टादश च वर्षाणि त्रिंशतं च युधिष्ठिर' ॥ आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः । 030a अत्रोष्य राजशार्दूल सर्वपापैः प्रभोक्ष्यसे ॥ 030c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥
3-140-4 अवलोककः अवलोकनार्थी । गृहान्भार्याम् ॥ 3-140-5 जघानरात्राविति ध. पाठः ॥ 3-140-9 चर त्वं ब्रह्मरक्षणे इति ध. पाठः ॥ 3-140-14 विट्पते हे प्रजाधीश ॥ 3-140-16 प्रभाषितो मिथ्यावाद्यसीत्यधिक्षिप्तः ॥ 3-140-17 रहस्यवेदं सूर्यमन्त्रप्रकाशकं वेदम् ॥ 3-140-18 मूर्तिमान्सूर्यस्तं द्विजं ददर्श आत्मानं दर्शयामास ॥ 3-140-19 तं देवाः प्रकर्षेण वरयामासुः । निरासुर्निराचक्रुर्यज्ञादिति शेषः ॥ 3-140-22 प्रतिष्ठां सम्प्रदायप्रवृत्तिम् । सौरस्य सूर्यप्रकाशकस्य ॥ 3-140-24 समधीतं साम्यक्प्राप्तम् । ब्रह्म वेदः ॥