अध्यायः 139

द्वाररक्षकशूद्रेण निवेदितपुत्रमरणेन भरद्वाजेन रैभ्यस्यापि ज्येष्ठसुतेन हननरूपशापदानम् ॥ 1 ॥ पुत्रमरणदुःखितेन भरद्वाजेन तद्देहदहनपूर्वकमग्नौ प्रवेशः ॥ 2 ॥ 001 लोमश उवाच । 001a भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम् । 001c समित्कलापमादाय प्रविवेश स्वमाश्रमम् ॥ 002a तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठिन्ति पावकाः । 002c न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाऽग्नयः ॥ 003a वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः । 003c तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् ॥ 004a किन्नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम् । 004c त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे ॥ 005a कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः । 005c एतदाचक्ष्व मे शीघ्रं न हि शुद्ध्यति मे मनः ॥ 006 शूद्र उवाच । 006a रैभ्यं यातो नूनमयं पुत्रस्ते मन्दचेतनः । 006c तथाहि निहतः शेते राक्षसेन महात्मना ॥ 007a प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा । 007c अग्न्यगारं प्रतिद्वारि मया दोर्भ्यां निवारितः ॥ 008a ततः स विहताशोऽत्र जलकामो शुचिर्ध्रुवम् । 008c निहतः सोऽतिवेगेन शूलहस्तेन रक्षसा ॥ 009 लोमश उवाच । 009a भरद्वाजस्तु तच्छ्रुत्वा शूद्रस्य विप्रियं महत् । 009c गतासुं पुत्रमादाय विललाप सुदुःखितः ॥ 010 भरद्वाज उवाच । 010a ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः । 010c द्विजानामनधीता वै वेदाः सम्प्रतिभान्त्विति ॥ 011a तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु । 011c अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान् ॥ 012a प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् । 012c गतवानेव तं क्षुद्रं कालान्तकयमोपमम् ॥ 013a यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम् । 013c गतवानेव कोपस्य वशं परमदुर्मतिः ॥ 014a पुत्रशोकमनुप्राप्त एष रैभ्यस्य कर्मणा । 014c त्यक्ष्यामि त्वामृतेपुत्र प्राणानिष्टतमान्भुवि ॥ 015a यथाऽहं पुत्रशोकेन देहं त्यक्ष्यामि किल्विषी । 015c तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम् ॥ 016a सुखिनो वै नरा येषां जाया पुत्रो न विद्यते । 016c ये पुत्रशोकमप्राप्य विचरन्ति यथासुखम् ॥ 017a ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः । 017c शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः ॥ 018a परासुश्च सुतो दृष्टः शप्तश्चैष्टः सखा मया । 018c ईदृशीमापदं कोत्र द्वितीयोऽनुविष्यति ॥ 019 लोमश उवाच । 019a विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम् । 019c सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥

3-139-1 आह्निकं स्वाध्यायं प्रत्यहं कर्तव्यं ब्रह्मयज्ञम् ॥ 3-139-2 हतपुत्रत्वेन आशौचयुक्तत्वात् ॥ 3-139-5 शुद्ध्यति निःसन्देहं भवति ॥ 3-139-7 अग्न्यगारं प्रविष्टस्य रक्षोभयं न भवेदिति ॥ 3-139-9 शूद्रस्य शूद्रकृतं विप्रियं पुत्रनिरोधेन कृतम् ॥ 3-139-15 किल्विषी शोकाक्रान्तः ॥