अध्यायः 138

रैभ्याश्रमे तत्स्नुषायाः परावसुभार्याया दर्शनाज्जातकामेन यवक्रीतेन एकान्ते बलात्कारेण तदुपभोगः ॥ 1 ॥ रुदत्या तया निवेदितवृत्तान्तेन रौभ्येण यवक्रीतहननाय जटाभ्यां कृत्यारक्षसोः सर्जनम् ॥ 2 ॥ कृत्यया रूपसम्पदा सम्मोह्य कमण्डलुहरणे राक्षसाभिद्रावितेन यवक्रीतेन स्वपितुरग्निहोत्रगृहप्रवेशः ॥ 3 ॥ तदाऽन्धेन द्वारकशूद्रेण निवारितस्य यवक्रीतस्य राक्षसेन हननम् ॥ 4 ॥ 001लोमश उवाच । 001a चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः । 001c जगाम माधवे मासि रैभ्याश्रमपदं प्रति ॥ 002a स ददर्शाश्रमे रम्ये पुष्पतद्रुमभूषिते । 002c विचरन्तीं स्नुषां तस्य किन्नरीमिव भारत ॥ 003a यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिनि । 003c निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः ॥ 004a सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती । 004c तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम ह ॥ 005a तत एकान्तमानीय लज्जयामास भारत । 005c आजगाम तदा रैभ्यः स्वमाश्रममरिन्दम ॥ 006a रुदतीं च स्नुषां दृष्ट्वा भार्यामार्ता परावसोः । 006c सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर ॥ 007a सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा । 007c प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तथाऽऽत्मना ॥ 008a शृण्वानस्यैव रैभ्यस्य यवक्रेस्तद्विचेष्टनम् । 008c दहन्निव तदा चेतः क्रोधः समभवन्महान् ॥ 009a स तदा मन्युनाऽऽविष्टस्तपस्वी कोपनो भृशम् । 009c अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते ॥ 010a ततः समभवन्नारी तस्या रूपेण सम्मिता । 010c अवलुप्यापरां चापि जुहावाग्नौ जटां पुनः ॥ 011a ततः समभवद्रक्षो दीप्तास्यं घोरदर्शनम् । 011c अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे ॥ 012a तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति । 012c जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया ॥ 013a ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना । 013c कमण्डलुं जहारास्य मोहयित्वा तु भारत ॥ 014a उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम् । 014c तत उद्यतशूलः स राक्षसः समुपाद्रवत् ॥ 015a तमाद्रवन्तं सम्प्रेक्ष्य शूलहस्तं जिघांसया । 015c यवक्रीः सहसोत्थाय प्राद्रवद्यत्र वै सरः ॥ 016a जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः । 016c जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः ॥ 017a स काल्यमानो घोरेण शूलहस्तेन रक्षसा । 017c अग्निहोत्रे पितुर्भीतः सहसा प्रविवेश ह ॥ 018a स वै प्रविशमानस्तु शुद्रेणान्धेन रक्षिणा । 018c निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव ॥ 019a निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः । 019c ताडयामास शूलेन स भिन्नहृदयोऽपतत् ॥ 020a यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत् । 020c अनुज्ञातस्तु रैभ्येण तया नार्या सहावसत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥

3-138-5 एकान्तमुन्नीय मज्जयामासेति झ. पाठः । तत्र एकान्तं उन्नीय एकान्ते कार्यं रतं समाप्य मज्जयामास समुद्रे इत्यर्थः ॥ 3-138-7 प्रत्युक्तं प्रत्याख्यातम् । मदुपरि बलात्कारं कृतवानित्युक्तवतीत्यर्थः ॥ 3-138-10 नारी कृत्या ॥ 3-138-17 काल्यमानः सर्वतो निषिध्यमानः अग्निहोत्रे अग्निहोत्रशालायाम् ॥ 3-138-18 अवातिष्ठत बहिरेव ॥