अध्यायः 137
लोमशेन रैभ्याश्रमङ्गतं युधिष्ठिरं प्रति यवक्रीतोपाख्यानकथनारम्भः ॥ 1 ॥ भरद्वाजपुत्रेण यवक्रीतेन स्वपितृमित्रे रैभ्ये तत्पुत्रयोरर्वावसुपरावस्वोश्चासूयया विनैवोपदेशं वेदाधिगमाय इन्द्रम्प्रति तपश्चरणम् ॥ 2 ॥ इन्द्रनिवारितेनापि यवक्रीतेन बलात्कारेण तस्माद्वरग्रहणम् ॥ 3 ॥ भरद्वाजेन लब्धवरं यवक्रीतम्प्रति गर्वेण रैभ्यपीडाप्रतिषेधाय बालध्युपाख्यानकथनम् ॥ 4 ॥
001 लोमश उवाच । 001a एषा मधुविला नाम समङ्गा सम्प्रकाशते । 001c एतत्कर्दमिलं नाम भरतस्याभिषेचनम् ॥ 002a अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः । 002c आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत ॥ 003a एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ । 003c अदितिर्यत्रपुत्रार्थं तदन्नमपचत्पुरा ॥ 004a एनं पर्वतराजानमारुह्य भरतर्षभाः । 004c अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ ॥ 005a एते कनखला राजन्नृषीणां दयिता नगाः । 005c एषा प्रकाशते गङ्गा युधिष्ठिर यशस्विनी ॥ 006a सनत्कुमारो भगवानत्र सिद्धिमगात्पुरा । 006c आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे ॥ 007a अपां ह्रदं च पुण्याख्यं भृगुतुन्दं च पर्वतम् । 007c तूष्णीं गङ्गां च कौन्तेय सानुजः समुपस्पृश ॥ 008a आश्रमः स्थूलशिरसो रमणीयः प्रकाशते । 008c अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय ॥ 009a एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते । 009c भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत ॥ 010 युधिष्ठिर उवाच । 010a कथं युक्तोऽभवदृषिर्भरद्वाजः प्रतापवान् । 010c किमर्थं च यवक्रीतः पुत्रोऽनश्यत वै मुनेः ॥ 011a एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि तत्त्वतः । 011c कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे ॥ 012 लोमश उवाच । 012a भरद्वाजश्च रैभ्यश्च सखायौ सम्बभूवतुः । 012c तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे ॥ 013a रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू । 013c आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत ॥ 014a रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत् । 014c तयोश्चाप्यतुला प्रीतिरभवद्भरतर्षभ ॥ 015a यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम् । 015c दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघः ॥ 016a पर्यतप्यत तेजस्वी मन्युनाऽभिपरिप्लुतः । 016c तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव ॥ 017a सुसमिद्धे महत्यग्नौ शरीरमुपतापयन् । 017c जनयामास सन्तापमिन्द्रस्य सुमहातपाः ॥ 018a तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर । 018c अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् ॥ 019 यवक्रीत उवाच । 019a द्विजानामनधीता वै वेदाः सुरगणार्चित । 019c प्रतिभान्त्विति तप्येहमिदं परमकं तपः ॥ 020a स्वाध्यायार्थं समारम्भो ममायं पाकशासन । 020c तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक ॥ 021a कालेन महता वेदाः शक्या गुरुमुखाद्विभो । 021c प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः ॥ 022 इन्द्र उवाच । 022a अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि । 022c किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् ॥ 023 लोमश उवाच । 023a एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत । 023c भूय एवाकरोद्यत्नं तपस्यमितविक्रमः ॥ 024a घोरेण तपसा राजंस्तप्यमानो महत्तपः । 024c सन्तापयामास भृशं देवेन्द्रमिति नः श्रुतम् ॥ 025a तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम् । 025c उपेत्य बलभिद्देवो वारयामास वै पुनः ॥ 026a अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव । 026c प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते ॥ 027 यवक्रीत उवाच । 027a न चैतदेवं क्रियते देवराजसमीप्सितम् । 027c महता नियमेनाहं तप्स्ये घोरतरं तपः ॥ 028a समिद्धेऽग्नावुपकृत्याङ्गमङ्गं होष्यामि वा मघवंस्तन्निबोध । 028c यद्येतदेवं न करोषि कामम्ममेप्सितं देवराजेह सर्वम् ॥ 029 लोमश उवाच । 029a निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः । 029c प्रतिवारणहेत्वर्थं बुद्ध्या सञ्चिन्त्य बुद्धिमान् ॥ 030a तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः । 030c अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः ॥ 031a यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि । 031c भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः ॥ 032a यदाऽस्य वदतो वाक्यं न स चक्रे द्विजोत्तमः । 032c वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् ॥ 033a वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत् । 033c स्नातुमभ्यागतं शक्रो यवक्रीतमदर्शयत् ॥ 034a तं ददर्श यवक्रीतो यत्नवन्तं निबन्धने । 034c प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥ 035a किमिदं वर्तते ब्रह्मन्किञ्च ते ह चिकीर्षितम् । 035c अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः ॥ 036 इन्द्र उवाच । 036a बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति । 036c क्लिश्यते हि जनस्तात तरमाणः पुनःपुनः ॥ 037 यवक्रीत उवाच । 037a नायं शक्यस्त्वया बद्धुं महानोघस्तपोधन । 037c अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ ॥ 038 इन्द्र उवाच । 038a यथैव भवता चेदं तपो वेदार्थमुद्यतम् । 038c अशक्यं तद्वदस्माभिरयं भारः समाहितः ॥ 039 यवक्रीत उवाच । 039a यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर । 039c तथा यदि ममापीदं मन्यसे पाकशासन ॥ 040a क्रियतां यद्भवेच्छक्यं त्वया सुरगणेश्वर । 040c वरांश्च मे प्रयच्छान्यान्यैर्विद्वान्भवितास्म्यहम् ॥ 041 लोमश उवाच । 041a तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः । 041c प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः ॥ 042a यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति । 042c स लब्धकाम पितरं समेत्याथेदमब्रवीत् ॥ 043 यवक्रीत उवाच । 043a प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः । 043c अपि चान्यान्भविष्यावो वरा लब्धास्तथा मया ॥ 044 भरद्वाज उवाच । 044a दर्पस्ते भविता तात वराल्ँलब्ध्वा यथेप्सितान् । 044c स दर्पपूर्णः कृपणः क्षिप्रमेव विनङ्क्ष्यसि ॥ 045a अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः । 045c मुनिरासीत्पुरा पुत्र बालधिर्नाम विश्रुतः ॥ 046a स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुष्करम् । 046c भवेन्मम सुतोऽमर्त्य इतितं लब्धवांश्च सः ॥ 047a तस्य प्रसादो वै देवैः कृतो न त्वमरैः समः । 047c नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति ॥ 048 बालधिरुवाच । 048a यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः । 048c तावज्जीवेन्मम् सुतो निर्वाणमुत मे मतः ॥ 049 भरद्वाज उवाच । 049a तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनस्तदा । 049c स तु लब्धवरो दर्पादृषींश्चैवावमन्यत ॥ 050a विकुर्वाणो मुनीनां च व्यचरत्स महीमिमाम् । 050c आससाद महावीर्यं धनुषाक्षं मनीषिणम् ॥ 051a तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् । 051c भव भस्मेति चोक्तः स न भस्म समपद्यत ॥ 052a धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम् । 052c 'मुनिस्तत्कारणं ज्ञात्वा स्वयं महिषरूपधृत् । 052e शृङ्गेणाद्रीनचलयत्ततोऽयम्भस्मसादभूत्' ॥ 053a निमित्तमस्य महर्षिर्भेदयामास पर्वतान् । 053c स निमित्ते विनष्टे तु ममार सहसा शिशुः ॥ 054a तं मृतं पुत्रमादाय विललाप ततः पिता ॥ 055a लालप्यमानं तं दृष्ट्वा मुनयः परमार्तवत् । 055c ऊचुर्वेदविदः सर्वै गाथां यां तां निबोध मे ॥ 056a न दिष्टमर्थमत्येतुमीशोऽमर्त्यः कथञ्चन । 056c महर्षिर्भेदयामास धनुषाक्षो महीधरान् ॥ 057a एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तपस्विनः । 057c क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान् ॥ 058a एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ । 058c तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः ॥ 059a स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा । 059c रैभ्यश्चापि तपस्वी च कोपनश्च महानृषिः ॥ 060 यवक्रीत उवाच । 060a एव करिष्ये मा तापं तात कार्षीः कथञ्चन । 060c यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम ॥ 061 लोमश उवाच । 061a उक्त्वा स पितरं श्लक्ष्ण यवक्रीरकुतोभयः । 061c विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः ॥ 137 ॥
3-137-1 मधुविलेति अष्टावक्राङ्गसमीकरणात्पूर्वं समङ्गाया एव नाम मधुवहानामेति क.ध. पाठः ॥ 3-137-3 अन्नं ब्रह्मौदनम् अदितिः पुत्रकामा । साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचदिति श्रुतेः ॥ 3-137-4 अयशस्यां अयशस्करीम् । असंशब्द्यां अकीर्तनीयाम् । अयशस्यामसह्यां च अलक्ष्मीं इति ध. पाठः ॥ 3-137-14 इतरो भरद्वाजस्तपस्व्येव नतु शिष्यादिसम्पन्नः । कीर्तिर्बाल्यात्प्रभृति भारत इति झ. पाठः ॥ 3-137-20 सर्वज्ञानानि सर्वशास्त्राणि 3-137-22 विघातेन आत्मनाशनेन ॥ 3-137-26 न प्रतिभास्यन्तीति नकारावृत्त्या योज्यम् ॥ 3-137-46 अमर्त्यः अमर इत्यर्थः ॥ 3-137-48 अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेर्द्ध्रुवम् । इति झ. ध. पाठः ॥ 3-137-52 निमित्तं पर्वतान्भेदयामासखण्डयामास ॥ 3-137-55 दिष्टं दैवविहितम् ॥55||