अध्यायः 136
अष्टावक्रेण वादे पराजितस्य वन्दिनो जनकेन जले विनिमज्जनम् ॥ 1 ॥ जलमज्जितेषु सर्वविप्रेषु समुत्थितेषु अष्टावक्रेण स्वपित्रा कहोळेन मातुलेन च सह स्वाश्रमगमनम् ॥ 2 ॥ अष्टावक्रस्य पितृचोदनया समङ्गाप्रवेशाद्देहस्य समीभवनम् ॥ 3 ॥
001अष्टावक्र उवाच । 001aअत्रोग्रसेनसमितेषु राजन्समागतेष्वप्रतिमेषु राजसु । 001c न मे विवित्सान्तरमस्ति वादिनां महाजने हंसविवादिनामिव ॥ 002a न मोक्ष्यसे वै वदमानो निमज्जन्जलं प्रपन्नः सरितामिवाधनः । 002c हुताशनस्येव समिद्धतेजसःस्थिरो भवस्वेह ममाद्य वन्दिन् ॥ 003 वन्द्युवाच । 003a व्याघ्रं शयानं प्रति मा प्रबोध आशीविषं सृक्विणी संलिहानम् । 003c पदा हतस्येह शिरोभिहत्य नादष्टो वै मोक्ष्यसे तन्निबोध ॥ 04a यो वै दर्पात्संहननोपपन्नःसुदुर्बलः पर्वतमाविहन्ति । 04c तस्यैव पाणिः सनखो विदीर्यते न चैव शैलस्य हि दृश्यते व्रणः ॥ 005 अष्टावक्र उवाच । 005a सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः । 005c निकृष्टभूता राजानो वत्सा ह्यनडुहो यथा ॥ 006a यथा महेन्द्रः प्रवरः सुराणां नदीषु गङ्गा प्रवरा यथैव । 006c तथा नृपाणां प्रवरस्त्वमेको वन्दिं समभ्यानय मत्सकाशम् ॥ 007 लोमश उवाच । 007a एवमष्टावक्रः समितौ हि गर्जञ्जातक्रोधो वन्दिनमाह राजन् । 007c उक्ते वाक्ये चोत्तरं मे ब्रवीहि वाक्यस्य चाप्युत्तरं ते ब्रवीमि ॥ 008 वन्द्युवाच । 008a एक एवाग्निर्बहुधा समिध्यते एकः सूर्यः सर्वमिदं विभाति । 008c एकोऽवीरो देवराजोऽरिहन्ता यमः पितृणामीश्वरश्चैक एव ॥ 009 अष्टावक्र उवाच । 009a द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदपर्वतौ च । 009c द्वावश्विनौ द्वे रथस्यापि चक्रे भार्यापती द्वौ विहितौ विधात्रा ॥ 010 वन्द्युवाच । 010a त्रिः सूयते कर्मणा वै प्रजेयं त्रयो युक्ता वाजपेयं वहन्ति । 010c अध्वर्यवस्त्रिसवनानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ॥ 011 अष्टावक्र उवाच । 011a चतुष्टयं ब्राह्मणानां निकेतं चत्वारो वर्णा यज्ञमिमं वहन्ति । 011c दिशश्चतस्रो वर्णचतुष्टयं चचतुष्पदा गौरपि शश्वदुक्ता ॥ 012 वन्द्युवाच । 012a पञ्चाग्नयः पञ्चपदा च पङ्क्तिर्यज्ञाः पञ्चैवाप्यथ पञ्चेनद्रियाणि । 012c दृष्ट्वा वेदे पञ्चचूडाप्सराश्चलोके ख्यातं पञ्चनदं च पुण्यम् ॥ 013 अष्टावक्र उवाच । 013a षडाधाने दक्षिणामाहुरेके षट् चैवेमे ऋतवः कालचक्रम् । 013c षडिन्द्रियाण्युत षट् कृत्तिकाश्च षट् साद्यस्काः सर्ववेदेषु दृष्टाः ॥ 014 वन्द्युवाच । 014a सप्त ग्राम्याः पशवः सप्त वन्याः सप्त च्छन्दांसि क्रतुमेकं वहन्ति । 014c सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्री प्रथिता चैव वीणा ॥ 015 अष्टावक्र उवाच । 015a अष्टौ शाणाः शतमानं वहन्तितथाष्टपादः शरभः सिंहघाती । 015c अष्टौ वसूञ्शुश्रुम देवतासु यूपश्चाष्टास्रिर्विहितः सर्वयज्ञे ॥ 016 वन्द्युवाच । 016a नवैवोक्ताः सामिधेन्यः पितॄणां तथा प्राहुर्नवयोगं विसर्गम् । 016c नवाक्षरा बृहती सम्प्रदिष्टा नवैव योगो गणनामेति शश्वत् ॥ 017 अष्टावक्र उवाच । 017a दिशो दशोक्ताः पुरुषस्य लोकेसहस्रमाहुर्दशपूर्णं शतानि । 017c दशैव मासान्बिभ्रति भर्गवत्योदशैरका दशदाशा दशार्हाः ॥ 018 वन्द्युवाच । 018a एकादशैकादशिनः पशूनामेकादशैवात्र भवन्ति यूपाः । 018c एकादश प्राणभृतां विकाराएकादशोक्ता दिवि देवेषु रुद्राः ॥ 019 अष्टावक्र उवाच । 019a संवत्सरं द्वादशमासमाहु-र्जगत्याः पादो द्वादशैवाक्षराणि । 019c द्वादशाहः प्राकृतो यज्ञ उक्तो द्वादशादित्यान्कथयन्तीह घीराः ॥ 020 वन्द्युवाच । 020a त्रयोदशी तिथिरुक्ता महोग्रा त्रयोदशद्वीपवती मही च । 020c लोमश उवाच । 020d एतावदुक्त्वा विरराम वन्दीश्लोकस्यार्धं व्याजहाराष्टवक्रः । 020f अष्टावक्र उवाच । 020g त्रयोदशाहानि ससार केशी त्रयोदशादीन्यतिच्छन्दांसि चाहुः ॥ 021 लोमश उवाच । 021a ततो महानुदतिष्ठन्निनाद-स्तूष्णीम्भूतं सूतपुत्रं निशम्य । 021c अधोमुखं ध्यानपरं तदानीमष्टावक्रं चाप्युदीर्यन्तमेव ॥ 022a तस्मिंस्तथा सङ्कुले वर्तमानेस्फीते यज्ञे जनकस्योत राज्ञः । 022c अष्टावक्रं पूजयन्तोऽभ्युपेयु-र्विप्राः सर्वे प्राञ्जलयः प्रतीताः ॥ 023 अष्टावक्र उवाच । 023a अनेनैव ब्राह्मणाः शुश्रुवांसो वादे जित्वा सलिले मज्जिताः प्राक् । 023c तानेव धर्मानयमद्य वन्दी प्राप्नोतु गृह्याशु निमज्जयैनम् ॥ 024 वन्द्युवाच । 024a अहं पुत्रो वरुणस्योत राज्ञस्तत्रास सत्रं द्वादशवार्षिकं वै । 024c सत्रेण ते जनक तुल्यकालं तदर्थं ते प्रहिता मे द्विजाग्र्याः ॥ 025a ते तु सर्वे वरुणस्योत यज्ञं द्रष्टुं गता इम आयान्ति भूयः । 025c अष्टावक्रं पूजये पूजनीयं यस्य हेतोर्जनितारं समेष्ये ॥ 026 अष्टावक्र उवाच । 026a विप्राः समुद्राम्भसि मज्जिता ये वाचा जिता मेधया वा विदानाः । 026c तां मेधया वाचमथोज्जहार यथा वाचमवचिन्वन्ति सन्तः ॥ 027a अग्निर्दहञ्जातवेदाः सतां, गृहान्विसर्जयंस्तेजसा न स्म धाक्षीत् । 027c बालेषु पुत्रेषु कृपणं वदत्सु तथा वाचमवचिन्वन्ति सन्तः ॥ 028a श्लेष्मातकी क्षीणवर्चाः शृणोषि उताहो त्वां स्तुतयो मादयन्ति । 028c हस्तीव त्वं जनक विनूद्यमानो न मामिकां वाचमिमां शृणोषि ॥ 029 जनक उवाच । 029a शृणोमि वाचं तव दिव्यरूपा-ममानुषीं दिव्यरूपोऽसि साक्षात् । 029c अजैषीर्यद्वन्द्विनं त्वं विवादे निसृष्ट एष तव कामोऽद्य वन्दी ॥ 030 अष्टावक्र उवाच । 030a नानेन जीवता कश्चिदर्थो मे वन्दिना नृप । 030c पिता यद्यस्य वरुणो मज्जयैनं जलाशये ॥ 031 वन्द्युवाच । 031a अहं पुत्रो वरुणस्योत राज्ञो न मे भयं विद्यते मज्जितस्य । 031c इमं मुहूर्तं पितरं द्रक्ष्यतेऽयमष्टावक्रश्चिरनष्टं कहोळम् ॥ 032 लोमश उवाच । 032a ततस्ते पूजिता विप्रा वरुणेन महात्मना । 032c उदतिष्ठंस्ततः सर्वे जनकस्य समीपतः ॥ 033 कहोळ उवाच । 033a इत्यर्थमिच्छन्ति सुताञ्जना जननकर्मणा । 033c यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम ॥ 034a उताबलस्य क्लवानुत बालस्य पण्डितः । 034c उत वाऽविदुषो विद्वान्पुत्रो जनक जायते ॥ 035 वन्द्युवाच । 035a शितेन ते परशुना स्वयमेवान्तको नृप । 035c शिरांस्यपाहरन्नाजौ रिपूणां भद्रमस्तु ते ॥ 036a महदौक्थ्यं गीयते साम चाग्र्यं सम्यक्सोमः पीयते चात्र सत्रे । 036c शुचीन्भागान्प्रतिजगृहुश्च हृष्टाःसाक्षाद्देवा जनकस्येह राज्ञः ॥ 037 लोमश उवाच । 037a समुत्थितेष्वथ सर्वेषु राजन्विप्रेषु तेष्वधिकं सुप्रभेषु । 037c अनुज्ञातो जनकेनाथ राज्ञा विवेश तोयं सागरस्योत वन्दी ॥ 038a अष्टावक्रः पितरं पूजयित्वासम्पूजितो ब्राह्मणैस्तैर्यथावत् । 038c प्रत्याजगामाश्रममेव चाग्र्यं जित्वा वन्दिं सहितो मातुलेन ॥ 039a ततोऽष्टावक्रं मातुरथान्तिके पिता नदीं समङ्गां शीघ्रमिमां विशस्व । 039c प्रोवाच चैनं स तथा विवेश समैरङ्गैश्चापि बभूव सद्यः 040a नदी समङ्गा च बभूव पुण्या यस्यां स्नातो मुच्यते किल्बिषाद्धि । 040c त्वमप्येनां स्नानपानावगाहैः सभ्रातृकः सहभार्यो विशस्व ॥ 041aअत्र कौन्तेय सहितो भ्रातृभिस्त्वंसुखोषितः सह विप्रैः प्रतीतः । 041c पुण्यान्यन्यानि शुचिकर्मैकभक्तिर्मया सार्धं चरितास्याजमीढ ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि षट्त्रिंशदधिकशततमोऽध्यायः ॥ 136 ॥
3-136-1 नावैमि वन्दिं वरमत्र वादिनां महाजले हंसमिवाददामि इति झ. पाठः ॥ 3-136-2 न मेऽद्य वक्ष्यस्यतिवादिमानिन् ग्लहं प्रपन्नः सरितामिवागमः । इति झ. पाठः ॥ 3-136-3 प्रबोध प्रबोधय ॥ 3-136-4 संहननेन देहेन दृढकायत्वेन उपपन्नः ॥ 3-136-6 वन्दिं वन्दिनम् । विभक्त्यलोपे नकारलोप आर्षः ॥ 3-136-13 षडेव यज्ञाः सर्ववेदेष्विति ध. पाठः ॥ 3-136-15 अष्टौ दिगीशान्यतमानान्वदन्ति इति ख. पाठः । अष्टौ योगाः प्रथिमानं वहन्ति इति ध. पाठः ॥ 3-136-21 सूतपुत्रं वरुणपुत्रम्. उदीर्यन्तमुदीर्यमाणम् । स्तूयमानमित्यर्थः ॥ 3-136-23 शुश्रुवांसः पण्डिताः ॥ 3-136-25 जनितारं वरुणम् ॥ 3-136-26 वाचा उच्चैः पाठेनैव । उत मेधया ऊहापोहकौशलेन । विप्राः विदानाः पण्डिता अपि जिताः मज्जिताश्च तां प्रसिद्धां वाचं वेदमयीं मेधया सहितां वन्दिना कुतर्कार्णवे मज्जितां अहं यथा उज्जहार उद्धृतवानस्मि तथा सन्तः सदसद्वचनविवेककुशलाः अवचिन्वन्ति परीक्षयन्ति । लोडर्थे लट् । परीक्षयन्त्वित्यर्थः ॥ 3-136-27 अग्निः दहन् स्वभावेन दाहकोऽपि जातवेदाः जातानि सतामसतां च वृत्तानि वेद जानातीति जातवेदाः । सतां सत्याभिसन्धीनां गृहान् शरीराणि विसर्जयन् वर्जयन् तेजसा यथा अधाक्षीत्स्म अर्थादनृताभिसन्धिगृहान् । नशब्द उपमार्थे । यथा तप्तपरशुग्रहणे वह्निः सत्याभिसन्धि न दहति सत्यपक्षपाती नतु जातिवयोविद्यादिपक्षपाती । एवं सन्तोपि बालादिषु । अतो बालवचनमिति मद्वाक्यं नावमन्तव्यमिति भावः ॥ 3-136-28 श्लोष्मातकीशब्दिततस्तरुविशेषस्तस्य पत्रेषु भोजनं तत्फलभक्षणं च बुद्धिघ्रं दोषकरं चेति प्रसिद्धम् ॥ 3-136-29 अद्य तव कामो निसृष्टः एष वन्दी दृश्यतामिति शेषः ॥ 3-136-33 इत्यर्थं एतदर्थम् ॥ 3-136-35 शितेन तीक्ष्णेन ते तव रिपूणामित्यन्वयः । यमादपि तव शथ्रुसंहरणशक्तिरधिकेति भावः ॥ 3-136-36 औक्थ्यं उक्थ्याख्यक्रतुविशेषे गेयम् ॥ 3-136-38 सौतिं सूतस्य वरुणस्य पुत्रम् ॥ 3-136-39 समानि अङ्गानि करोतीति समगेति योगो दर्शितः । शकन्ध्वादित्वात् पररूपम् ॥ 3-136-41 प्रतीतो विश्रब्धः ॥