अध्यायः 135

श्वेतकेतुना सह जनकयज्ञशालां विविक्षोरष्टावक्रस्य द्वारपालेन निरोधनम् ॥ 1 ॥ अष्टावक्रद्वारपालयोः संवादः ॥ 2 ॥ स्वप्रश्नस्योत्तरदानतुष्टेन राज्ञा सभाप्रवेशाभुमतिः ॥ 3 ॥ 001 अष्टावक्र उवाच । 001a अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था भारवाहस्य पन्थाः । 001c राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ 002 राजोवाच । 002a पन्था अयं तेऽद्य मया निसृष्टो येनेच्छसे तेन कामं व्रजस्व । 002c न पावको विद्यते वै लघीयानिन्द्रोपि नित्यं नमते ब्राह्मणानाम् ॥ 003 लोमश उवाच । 003a 'स एवमुक्तो मातुलेनैव सार्धं यथेष्टमार्गो यज्ञनिवेशनं तत् । 003c सम्प्राप्य धर्मेण निवारितः सन्द्वारि द्वाःस्थं वाक्यमिदं बभाषे ॥' 004a यज्ञं द्रष्टुं प्राप्तवन्तौ स्म तातकौतूहलं बलवद्वै विवृद्धम् । 004c आवां प्राप्तावतिथी सम्प्रवेशं काङ्क्षावहे द्वारपते तवाज्ञाम् ॥ 005a ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां विवक्षू वै जनकेन्द्रं दिदृक्षू । 005c न वै क्रुध्यो वन्दिना चोत्तमेन संयोजय द्वारपाल क्षणेन ॥ 006 द्वारपाल उवाच । 006a वन्देः समादेशकरा वयं स्म निबोध वाक्यं च मयेर्यमाणम् । 006c न वै बालाः प्रविशन्त्यत्र विप्रा वृद्धा विदग्धाः प्रविशन्ति द्विजाग्र्याः ॥ 007 अष्टावक्र उवाच । 007a यद्यत्र वृद्धेषु कृतः प्रवेशोयुक्तं मया द्वारपाल प्रवेष्टुम् । 007c वयं हि वृद्धाश्चरितव्रताश्च वेदप्रभावेन समन्विताश्च ॥ 008a शुश्रूषवश्चापि जितेन्द्रियाश्चज्ञानागमे चापि गताः स्म निष्ठाम् । 008c न बाल इत्येव मन्तव्यमाहु-र्बालोऽप्यग्निर्दहति स्पृश्यमानः ॥ 009 द्वारपाल उवाच । 009a सरस्वतीमीरय वेद जुष्टामेकाक्षरां बहुरूपां विराजम् । 009c अङ्गात्मानं समवेक्षस्व बालङ्किं श्लाघसे दुर्लभा वादसिद्धिः ॥ 010 अष्टावक्र उवाच । 010a न ज्ञायते कायवृद्ध्या विवृद्धिर्यथाऽष्ठीला शाल्मलेः सम्प्रवृद्धाः । 010c ह्रस्वोऽल्पकायः फलितो विवृद्धोयश्चाफलस्तस्य न वृद्धभावः ॥ 011 द्वारपाल उवाच । 011a वृद्धेभ्य एवेह मतिं स्म बालागृह्णन्ति कालेन भवन्ति वृद्धाः । 011c न हि ज्ञातुमल्पकालेन शक्यङ्कस्माद्बालः स्थविर इव प्रभाषसे ॥ 012 अष्टावक्र उवाच । 012a न तेन स्थविरो भवति येनास्य पलितं शिरः । 012c बालोपि यः प्रजानाति तं देवाः स्थविरं विदुः ॥ 013a न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः । 013c ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ 014a दिदृक्षुरस्मि सम्प्राप्तो बन्दिनं राजसंसदि । 014c निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने ॥ 015a द्रष्टास्यद्य वदतोऽस्मान्द्वारपाल मनीषिभिः । 015c सह वादे विवृद्धे तु वन्दिनं चापि निर्जितम् ॥ 016a पश्यन्तु विप्राः परिपूर्णविद्याः सहैव राज्ञा सपुरोधमुख्याः । 016c उताहो वाऽप्युच्चतां नीचतां वा तूष्णीम्भूतेष्वेव सर्वेष्वथाद्य ॥ 017 द्वारपाल उवाच । 017a कथं यज्ञं दशवर्षो विशेस्त्वंविनीतानां विदुषां सम्प्रवेशम् । 017c उपायतः प्रयतिष्ये तवाहम्प्रवेशने कुरु यत्नं यथावत् ॥ 018a 'एष राजा संश्रवणे स्थितस्तेस्तुह्येनं त्वं वचसा संस्कृतेन । 018c स चानुज्ञां दास्यति प्रीतियुक्तः प्रवेशने यच्च किञ्चित्तवेष्टम्' ॥ 0019 अष्टावक्र उवाच । 019a भोभो राजञ्जनकानां वरिष्ठ त्वं वै सम्राट् त्वयि सर्वं समृद्धम् । 019c त्वं वा कर्ता कर्मणां यज्ञियानां ययातिरेको नृपतिर्वा पुरस्तात् ॥ 020a विद्वान्वन्दी वादविदो निगृह्य वादे भग्नानप्रतिशङ्कमानः । 020c त्वयाऽभिसृष्टैः पुरुषैराप्तकृद्भिर्जले सर्वान्मज्जयतीति नः श्रुतम् ॥ 021a सोऽहं श्रुत्वा ब्राह्मणानां सकाशे ब्रह्माद्य वै कथयितुमागतोस्मि । 021c क्वासौ वन्दी यावदेनं समेत्य नक्षत्राणीव सविता नाशयामि ॥ 022 राजोवाच । 022a आशंससे वन्दिनं वै विजेतुमविज्ञाय त्वं वाक्यबलं परस्य । 022c विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं दृष्टश्चासौ ब्राह्मणैर्वादशीलैः ॥ 023a आशंसमाना वन्दिनं वै विजेतुमविज्ञात्वा तु बलं वन्दिनोऽस्य । 023c समागता ब्राह्मणास्तेन पूर्वं न शोभन्ते भास्करेणेव ताराः ॥ 024a आशानुबन्धो हि तवात्र यत्नः स वन्दिमासाद्यतथा विनश्यति । 024c विज्ञानवन्तो निकृतास्तु तातकथं सदस्तर्तुमिदं समर्थः ॥ 025 अष्टावक्र उवाच । 025a विवादितोऽसौ न हि मादृशैर्हिसिंहीकृतस्तेन वदन्यभीतः । 025c समेत्य मां निहतः शेष्यतेऽद्य मार्गे भग्नं शकटमिवाबलाक्षम् ॥ 026 राजोवाच । 026a षण्नाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः । 026c यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ॥ 027 अष्टावक्र उवाच । 027a चतुर्विंशतिपर्व त्वां षण्नाभि द्वादशप्रधि । 027c तत्रिषष्टिशतारं वै चक्रं पातु सदागति ॥ 028 राजोवाच । 028a बडबे इव संयुक्ते श्येनपाते दिवौकसाम् । 028c कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ॥ 029 अष्टावक्र उवाच । 029a मा स्म भूः स्वगृहे राजञ्शात्रवाणामपि ध्रुवम् । 029c वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् ॥ 030 राजोवाच । 030a किंस्वित्स्तुप्तं न निमिषति किंस्विज्जातं न चोपति । 030c कस्यस्विद्धृदयं नास्ति किंस्विद्वेगेन वर्धते ॥ 031 अष्टावक्र उवाच । 031a मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति । 031c अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥ 032 राजोवाच । 032a न त्वां मन्ये मानुषं देवसत्व न त्वं बालः स्थविरः सम्मतो मे । 032c न ते तुल्यो विद्यते वाक्प्रलापेतस्माद्द्वारं वितराम्येष विद्वन् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥

3-135-1 स्त्रियः पन्था वै पथिकस्य पन्था इति क. पाठः. अन्धादीनामक्षमत्वान्मार्गो देय इत्यर्थः । असमेत्य समीपं अप्राप्य ॥ 3-135-5 ऐन्द्रद्युम्नेर्जनकस्य ॥ 3-135-7 चरितव्रताश्च तपःप्रभावेन निवेशनार्हाः इति क. ध. पाठः ॥ 3-135-8 ज्ञानागमे ज्ञानशास्त्रे वेदान्तेष्वित्यर्थः । निष्ठां निश्चयम् ॥ 3-135-9 वेद जानीते यदि तर्हि ईरय । जुष्टां मुनिसेविताम् । एकमेव अक्षरं ब्रह्म प्रतिपाद्यं यस्यां तां एकाक्षराम् । बहुरूपां मन्त्रार्थवादादिरूपाम् । विराजं विशेषेण कर्मकाण्डादाधिवयेन राजमानाम् । अङ्गेति सम्बोधने ॥ 3-135-10 शाल्मलेरष्ठीला शाल्मलिफलान्तर्गतग्रन्थिः । सहि केवलतूलमयत्वान्निःसारः । अतो देहवृद्धिर्व्यर्था । अल्पकायः कृशः ॥ 3-135-13 अनूचानः साङ्गवेदाध्यायी ॥ 3-135-14 पुष्करमालिने स्वर्णमालाधारिणे ॥ 3-135-19 सम्राट् सार्वभौमः ॥ 3-135-21 ब्रह्माद्वैत इति झ. पाठः । ब्रह्माद्यं वै इति ध. पाठः ॥ 3-135-27 प्रधयो मासा राशयो वा । तेषु हि त्रिंशदहोरात्रा अंशा वा प्रत्येकं प्रत्येकं प्रधीयन्ते । चक्रं पात्वस्मिन् काले यथाकालं विहितो धर्मस्त्वां पात्वित्यर्थः । केवलकालज्ञानस्यापुरुषार्थत्वात् । एवमन्यत्रापि विन्धानं द्रष्टव्यम् ॥ 3-135-28 रथसंयुक्ते अश्वे इव सहचारिण्यौ श्येनपाते श्येनवदकस्मात् पतनशीले ये उभे वर्तेते । दिवौकसां देवानां मध्ये तयोः सम्बन्धिनं गर्भं को धत्ते । कस्य गर्भे ते उत्पद्येते कञ्च जनयत इत्यर्थः ॥ 3-135-32 वाक्प्रलापे वाचां प्रकृष्टे संलापे । वितराम्येष वन्दीति झ. पाठः । एष वन्दी दृश्यतामिति शेषः ॥