अध्यायः 134

लोमशेन श्वेतकेतोराश्रमङ्गतं द्युधिष्ठिरम्प्रति अष्टावक्रोपाख्यानकथनारम्भः ॥ 1 ॥ धनार्जनाय जनकपुरं गतस्य कहोळस्य वन्दिना वादे विजित्य जले विनिमज्जनम् ॥ 2 ॥ तद्विदितवता तत्पुत्रेणाष्टावक्रेण श्वेतकेतुनासह जनकनगरम्प्रति गमनम् ॥ 3 ॥

001 लोमश उवाच । 001a यः कथ्यते मन्त्रविदग्र्यबुद्धिरौद्दालकिः श्वेतकेतुः पृथिव्याम् । 001c तस्याश्रमं पश्यत पाण्डवेयासदाफलैरुपपन्नं महीजैः ॥ 002a साक्षादत्र श्वेतकेतुर्ददर्शसरस्वतीं मानुषदेहरूपाम् । 002c वेत्स्यामि वाणीमिति सम्प्रवृत्तां सरस्वतीं श्वेतकेतुर्बभाषे ॥ 003a अस्मिन्युगे ब्रह्मकृतां वरिष्ठावास्तां मुनी मातुलभागिनेयौ । 003c अष्टावक्रश्चैव कहोलसूनुरौद्दालकिः श्वेतकेतुः पृथिव्याम् ॥ 004a विदेहराजस्य समीपतस्तौघीरावुभौ मातुलभागिनेयौ । 004c प्रविश्य यज्ञायतनं विवादेवन्दिं निजग्राहतुरप्रमेयौ ॥ 005a उपास्स्व कौन्तेय सहानुजस्त्वन्तस्याश्रमं पुण्यतमं प्रविश्य । 005c अष्टावक्रं यस्य दौहित्रमाहुर्योऽसौ वन्दिं जनकस्याथ यज्ञे । 005e वादि विप्राग्न्यो बाल एवाभिगम्यवादे भङ्क्त्वा मज्जयामास नद्याम् ॥ 006 युधिष्ठिर उवाच । 006a कथम्प्रभावः स बभूव विप्र-स्तथाभूतं यो निजग्राह वन्दिम् । 006c'किञ्चाधिकृत्याथ तयोर्विवादोविदेहराजस्य समीप आसीत्' ॥ 007a अष्टावक्रः केन चासौ बभूव तत्सर्वं मे लोमश शंस तत्त्वम् ॥ 008 लोमश उवाच । 008a उद्दालकस्य नियतः शिष्य एको नाम्ना कहोळेति बभूव राजन् । 008c शुश्रूषुराचार्यवशानुवर्ती दीर्घं कालं सोऽध्ययनं चकार ॥ 009a तं वै विप्राः पर्यभवंस्तु शिष्यास्तं च ज्ञात्वा विप्रकारं गुरुः सः । 009c तस्मै प्रादात्सद्य एव श्रुतं च भार्यां च वै दुहितरं स्वां सुजाताम् ॥ 010a तस्यां गर्भः समभवदग्निकल्पःसोऽधीयानं पितरमथाभ्युवाच । 010c सर्वां रात्रिमध्ययनं करोषिनेदं पितः सम्यगिवोपवर्तते ॥ 011a उपालब्धः शिष्यमध्ये महर्षिः स तं कोपादुदरस्थं शशाप । 011c यस्माद्वक्रं वर्तमानो ब्रवीषितस्माद्वक्रो भवितास्यष्टधैव ॥ 012a स वै तथा वक्र एवाभ्यजायदष्टावक्रः प्रथितो मानवेषु । 012c अस्यासीद्वै मातुलः श्वेतकेतुः स तेन तुल्यो वयसा बभूव ॥ 013a सम्पीड्यमाना तु तदा सुजाता विवर्धमानेन सुतेन कुक्षौ । 013c उवाच भर्तारमिदं रहोगताप्रसाद्य हीना वसुना धनार्थिनी ॥ 014a कथं करिष्याम्यधुना महर्षे मासश्चायं दशमो वर्तते मे । 014c नैवास्ति मे वसु किञ्चित्प्रदाता येनाहमेतामापदं निस्तरेयम् ॥ 015a उक्तस्त्वेवं भार्यया वै कहोळो वित्तस्यार्थे जनकमथाभ्यगच्छत् । 015c स वै तदा वादविदा निगृह्यनिमज्जितो वन्दिनेहाप्सु विप्रः ॥ 016a उद्दालकस्तं तु तदा निशम्य सूतेन वादेऽप्सु निमज्जितं तथा । 016c उवाच तां तत्र ततः सुजातमष्टवक्रे गूहितव्योऽयमर्थः ॥ 017a ररक्ष सा चापि तमस्य मन्त्रं जातोऽप्यसौ नैव शुश्राव विप्रः । 017c उद्दालकं पितरं सोऽभिमेने तथाऽष्टावक्रो भ्रातरं श्वेतकेतुम् ॥ 018a ततो वर्षे द्वादशे श्वेतकेतुरष्टावक्रं पितुरङ्के निषण्णम् । 018c अपाकर्षद्गृह्यपाणौ रुदन्तन्नायं तवाङ्कः पितुरित्युक्तवांश्च ॥ 019a यत्तेनोकतं दुरुक्तं तत्तदानीं हृदि स्थितं तस्य सुदुःखमासीत् । 019c गृहं गत्वा मातरं सोऽथ विप्रः पप्रच्छेदं क्व नु तातो ममेति ॥ 020a ततः सुजाता परमार्तरूपाशापाद्भीता तत्त्वमस्याचचक्षे । 020c तद्वै तत्त्वंसर्वमाज्ञाय रात्रा-वित्यब्रवीच्छ्वेतकेतुं स विप्रः ॥ 021a गच्छाव यज्ञं जनकस्य राज्ञोबह्वाश्चर्यः श्रूयते तस्य यज्ञः । 021c श्रोष्यावोऽत्र ब्राह्मणानां विवादमन्नं चाग्र्यं तत्रभोक्ष्यावहे च ॥ 022a विचक्षणत्वं च भविष्यते नौ शिवश्च सौम्यश्च हि ब्रह्मघोषः ॥ 023a तौ जग्मतुर्मातुलभागिनेयौयज्ञं समृद्धं जमकस्य राज्ञः । 023c अष्टावक्रः पथि राज्ञा समेत्यप्रोत्सार्यमाणो वाक्यमिदं जगाद ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥

3-134-4 वन्दिं वन्दिनम् । निजग्राहतुः निजगृहतुः॥ 3-134-9 तं वै विप्रः पर्यचरत्सशिष्यस्तां च ज्ञात्वा परिचर्यां गुरुः सः । इति झ पाठः ॥ 3-134-11 यस्मात्कुक्षौ वर्तमान इति झ. पाठः ॥ 3-134-14 वसुकिञ्चित्प्रजातेति झ. पाठः । प्रजाता प्रसूता॥