अध्यायः 133
शिबिपरीक्षणार्थं श्येनीभूतेनेन्द्रेणानुद्रुतस्य कपोतरूपधारिणोऽग्नेः शिविम्प्रति शरणागतिः ॥ 1 ॥ कपोतरिरक्षिषया राज्ञा श्येनानुमत्या स्वशरीरोत्कृत्तमांसस्य कपोतेन सह तुलारोपणम् ॥ 2 ॥ मांसापेक्षया कपोतस्य गौरवातिरेके राज्ञा स्वयमेव तुलारोहणम् ॥ 3 ॥ ततस्तुष्टाभ्यामिन्द्राग्निभ्यां तत्प्रशंसनपूर्वकं स्वलोकगमनम् ॥ 4 ॥
001 श्येन उवाच । 001a धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः । 001c स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि ॥ 002a विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा । 002c मा हिंसीर्धर्मलोभेन धर्ममुत्सृज्य मा नशः ॥ 003 राजोवाच । 003a सन्त्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज । 003c मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः ॥ 004a एवमभ्यागतस्येह कपोतस्याभयार्थिनः । 004c अप्रदाने परो धर्मः किं त्वं श्येनेह पश्यसि ॥ 005a प्रस्पन्दमानः सम्भ्रान्तः कपोतः श्येन लक्ष्यते । 005c मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः ॥ 006a [यो हि कश्चिद्द्विजान्हन्याद्गां वा लोकस्य मातरम् । 006c शरणागतं च त्यजते तुल्यं तेषां हि पातकम्] 007 श्येन उवाच । 007a आहारत्सर्वभूतानि सम्भवन्ति महीपते । 007c आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥ 008a शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् । 008c न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् ॥ 009a भक्ष्याद्विलोपितस्याद्य मम प्राणा विशाम्पते । 009c विसृज्यकायमेष्यन्ति पन्थानमपुनर्भवम् ॥ 010a प्रमृते मयि धर्मात्मन्पुत्रदारादि नङ्क्ष्यति । 010c रक्षमाणः कपोतं त्वं बहून्प्राणान्न रक्षसि ॥ 011a बहून्यो बाधते धर्मो न स धर्मः कुवर्त्म तत् । 011c अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम ॥ 012a विरोधिषु महीपाल निश्चित्य गुरुलाघवम् । 012c न बाधा विद्यते यत्र तं धर्मं समुपाचरेत् ॥ 013a गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये । 013c यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् ॥ 014 राजोवाच । 014a बहुकल्याणसंयुक्तं भाषसे विहगोत्तम । 014c सुपर्णः पक्षिराट् किं त्वं धर्मं ज्ञात्वाऽभिभाषसे ॥ 015a तथाहि धर्मसंयुक्तं बहुचित्रं च भाषसे । 015c न तेऽस्त्यविदितं किञ्चिदिति त्वां लक्षयाम्यहम् । 015e शरणैषिपरित्यागं कथं साध्विति मन्यसे ॥ 016a आहारार्थं समारम्भस्तव चायं विहङ्गम । 016c शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया ॥ 017a गोवृषो वा वराहो वा मृगो वा महिषोपि वा । 017c त्वदर्थमद्य क्रियतां यच्चान्यदिह काङ्क्षसि ॥ 018 श्येन उवाच । 018a न वराहं न चोक्षाणं न मृगान्विविधांस्तथा । 018c भक्षयामि महाराज किं ममान्येन केनचित् ॥ 019a यस्तु मे दैवविहितो भक्षः क्षत्रियपुङ्गव । 019c तमुत्सृज महीपाल कपोतमिममेव मे ॥ 020a श्येनाः कपोतान्स्वादन्ति श्रुतिरेषा सनातनी । 020c मा राजन्सारमज्ञात्वा कदलीस्कन्धमासज ॥ 021 राजोवाच । 021a राष्ट्रं शिबीनामृद्धं वै शाधि पक्षिभिरर्चितः । 021c कृत्स्नमेतन्मया दत्तं राजवद्विहगोत्तम ॥ 022a यं वा कामयसे कामं श्येन सर्वं ददानि ते । 022c विनेमं पक्षिणं श्यन शरणार्थिनमागतम् ॥ 023a येनेमं स्थापयेथास्त्वं कर्मणा पक्षिसत्तम । 023c तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ॥ 024 श्येन उवाच । 024a उशीनर कपोते ते यदि स्नेहो नराधिप । 024c आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् ॥ 025a यदा समं कपोतेन तव मांसं नृपोत्तम । 025c त्वया प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति ॥ 026 राजोवाच । 026a अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे । 026c तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् ॥ 027 लोमश उवाच । 027a अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् । 027c तुलयामास कौन्तेय कपोतेन समं विभो ॥ 028a ध्रियमाणः कपोतस्तु मांसेनात्यतिरिच्यते । 028c पुनश्चोत्कृत्यमांसानि राजा प्रादादुशीनरः ॥ 029a न विद्यते यदा मांसं कपोतेन समं धृतम् । 029c तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् ॥ 030 श्येन उवाच । 030a इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम् । 030c जिज्ञासमानौ धर्म त्वां यज्ञवाटमुपागतौ ॥ 031a यत्ते मांसानि गात्रेभ्य उक्तृत्तानि विशाम्पते । 031c एषा ते शाश्वती कीर्तिर्लोकानभिभविष्यति ॥ 032a यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव । 032c तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः ॥ 033a इत्युक्त्वा भूमिपतये तस्मै दत्त्वा यथेप्सितम् । 033c प्रशस्य जग्मतू राजन्निन्द्राग्री तुष्टमानसौ ॥ 034a उशीनरोऽपिधर्मात्मा धर्मेणावृत्यरोदसी । 034c विभ्राजमानो वपुषाऽप्यारुरोह त्रिविष्टपम् ॥ 035a तदेतत्सदनं राजन्राज्ञस्तस्य महात्मनः । 035c पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् ॥ 036a तत्र वै सततं देवा मुनयश्च सनातनाः । 036c दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥
3-133-2 मा रक्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि इति झ. पाठः ॥ 3-133-20 कदलीस्कन्धमासजेति कदलीस्कन्धतुल्ये निःसारेऽस्मिन् धर्मे मा सज्जो भवेत्यर्थः ॥