अध्यायः 132
लोमशेन युधिष्ठिरम्प्रति सरस्वत्यादिमाहात्म्यकथनम् ॥ 1 ॥ तथा श्येनकपोतोपाख्यानकथनारम्भः ॥ 2 ॥ 001 लोमश उवाच । 001a इह मर्त्यास्तनूस्त्यक्त्वा स्वर्गं गच्छन्ति भारत । 001c मर्तुकामा नरा राजन्निहायान्ति सहस्रशः ॥ 002a एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा । 002c इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः ॥ 003a एषा सरस्वती रम्या दिव्या चौघवती नदी । 003c एतद्विनशनं नाम सरस्वत्या विशाम्पते ॥ 004a द्वारं निषादराष्ट्रस्य येषां दोषात्सरस्वती । 004c प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः ॥ 005a एष वै चमसोद्भेदो यत्र दृश्या सरस्वती । 005c यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः ॥ 006a एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिन्दम । 006c लोपामुद्रा समागम्य भर्तारमवृणीत वै ॥ 007a एतत्प्रकाशते तीर्थं प्रभासं भास्करद्युते । 007c इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् ॥ 008a एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम् । 008c एषां रम्या विपाशा च नदी परमपावनी ॥ 009a अत्र वै पुत्रशोकेन वसिष्ठो भगवानृषिः । 009c बद्ध्वाऽत्मानं निपतितो विपाशः पुनरुत्थितः ॥ 010a काश्मीरमण्डलं चैतत्सर्वपुण्यमरिन्दम । 010c महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह ॥ 011a यत्रौत्तराणां सर्वेषामृषीणां नाहुषस्य च । 011c अग्नेश्चैवात्र संवादः काश्यपस्य च भारत ॥ 012a एतद्द्वारं महाराज मानसस्य प्रकाशते । 012c वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् ॥ 013a एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः । 013c नात्यवर्तत यद्द्वारं विदेहादुत्तरं च यः ॥ 014a इदमाश्चर्यमपरं देशेऽस्मिन्पुरुषर्षभ । 014c क्षीणे युगे तु कौन्तेय शर्वस्य सह पार्षदैः । 014e सहोमया च भवति दर्शनं कामरूपिणः ॥ 015a अस्मिन्सरसि सत्रैर्वै चैत्रे मासि पिनाकिनम् । 015c यजन्ते याजकाः सम्यक् परिवारं शुभार्थिनः ॥ 016a अत्रोपस्पृश्य सरसि श्रद्दधानो जितेन्द्रियः । 016c क्षीणपापः शुभाल्ँलोकान्प्राप्नुते नात्र संशयः ॥ 017a एष उज्जानको नाम पावकिर्यत्र शान्तवान् । 017c अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः ॥ 018a ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् । 018c आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना ॥ 019a समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया । 019c तं द्रक्ष्यसि महाराज भृगुतुन्दं महागिरिम् ॥ 020a वितस्तां पश्य राजेन्द्र सर्वपापप्रमोचनीम् । 020c महर्षिभिश्चाध्युषितां शीततोयां सुनिर्मलाम् ॥ 021a जलां चोपजलां चैव यमुनामभितो नदीम् । 021c उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत ॥ 022a तां देवसमितिं तस्य वासवश्च विशाम्पते । 022c अभ्यागच्छन्नृपवरं ज्ञातुमग्निश्च भारत ॥ 023a जिज्ञासमानौ वरदौ महात्मानमुशीनरम् । 023c इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः ॥ 024a उरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात् । 024c शरणार्थी तदा राजन्निलिल्ये भयपीडितः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्वात्रिंशदधिकशततमोऽध्यायः ॥ 132 ॥
3-132-1 इह मर्त्यास्तपस्तप्त्वेति क. ध. पाठः ॥ 3-132-9 वद्वा पाशैरिति शेषः । विपाशः पाशहीनः । अतएव विपाशानाम ॥ 3-132-12 वर्षं वसतिस्थानम् ॥ 3-132-13 यो रामः प्रख्यातः सत्यविक्रमश्च विदेहादुत्तरं च यद्द्वारं यद्वर्षस्य द्वारं एषोऽनुभूयमानो वातिकषण्डो वातानीतः पद्मादिसमूहो नात्यवर्तत । तेन रामेण कृतमिति पूर्वेणान्वयः । पद्मादेर्वातानीतस्यात्राप्रवेशाद्रामसामर्थ्यं प्रत्यक्षमाश्चर्यमित्यर्थः । एष वाति मृकण्डो वै इति क. ध. पाठः ॥ 3-132-14 युगं पञ्चसंवत्सरात्मकं तस्मिन्क्षीणे समाप्ते सति यदा सौरसावनबार्हस्पत्यनाक्षत्रचान्द्राः संवत्सरा एककालं समाप्यन्ते स युगक्षयकालस्तस्मिन्नित्यर्थः ॥ 3-132-17 पावकिः स्कन्दः । शान्तवान् शमं प्राप । वसिष्ठोपि शान्तवान् एष उज्जीतको नाम यवक्रीर्यत्र शान्तवानिति क. ध. पाठः ॥ 3-132-18 कुशवान् जलवान्. अकोपना जितक्रोधा ॥ 3-132-19 समासः सङ्क्षेपः । यस्मिन्दृष्टे समाधिफलं भवतीत्यर्थः ॥ 3-132-22 देवसमितिं राजसभाम् ॥ 3-132-24 निलिल्ये लीनः ॥