अध्यायः 131
लोमशेन युधिष्ठिरम्प्रति नानातीर्थमहिमानुवर्णनम् ॥ 1 ॥ 001 लोमश उवाच । 001a अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः । 001c सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् ॥ 002a अम्बरीषश्च नाभाग इष्टवान्यमुनामनु । 002c यत्रेष्ट्वा दशपद्मानि सदस्येभ्योऽभिसृष्टवान् ॥ 003a यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः । 003c देशश्च नाहुषस्यायं यज्वनः पुण्यकर्मणः ॥ 004a सार्वभौमस्य कौन्तेय ययातेरमितौजसः । 004c स्पर्धमानस्य शक्रेण तस्येदं यज्ञवास्त्विह ॥ 005a पश्य नानाविधाकारैरग्निभिर्निचितां महीम् । 005c मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः ॥ 006a एषा शम्येकपत्रा सा शकटं चैतदुत्तमम् । 006c पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् ॥ 007a एतच्चर्चीकपुत्रस्य योगैर्विचरतो महीम् । 007c प्रसर्पणं महीपाल रौप्यायाममितौजसः ॥ 008a अत्रानुवंशं पठतः शृणु मे कुरुनन्दन । 008c उलूखलैराभरणैः पिशची यदभाषत ॥ 009a युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले । 009c तद्वद्भूतलये स्नात्वा सपुत्रा वस्तुमर्हसि ॥ 010a एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि । 010c एतद्वै ते दिवावृत्तं रात्रौ वृत्तमितोऽन्यथा ॥ 011a अद्य चात्र निवत्स्यामः क्षपां भरतसत्तम । 011c द्वारमेतत्तु कौन्तेय कुरुक्षेत्रस्य भारत ॥ 012a अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान् । 012c ययातिर्बहुरत्नौर्घर्यत्रेन्द्रो मुदमभ्यगात् ॥ 013a एतत्प्लक्षावतरणं यमुनातीर्थमुत्तमम् । 013c एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः ॥ 014a अत्रसारस्वतैर्यज्ञैरीजानाः परमर्षयः । 014c यूपोलूखलिकास्तात गच्छन्त्यवभृथप्लवम् ॥ 015a अत्रवै भरतो राजा राजन्क्रतुभिरिष्टवान् । 015c हयमेधेन यज्ञेन मेध्यमश्वमवासृजत् ॥ 016a असकृत्कृष्णसारङ्गं धर्मेणाप्य च मेदिनीम् । 016c अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम् । 016e प्राप चैवर्षिमुख्येन संवर्तेनाभिपालितः ॥ 017a अत्रोपस्पृश्य राजेन्द्र सर्वाल्लोँकान्प्रपश्यति । 017c पूयते दुष्कृताच्चैव अत्रापि समुपस्पृश ॥ 018 वैशम्पायन उवाच । 018a तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः । 018c लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् ॥ 019a सर्वाल्ँलोकान्प्रपश्यामि तपसा सत्यविक्रम । 019c इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् ॥ 020 लोमश उवाच । 020a एवमेतन्महाबाहो पश्यन्ति परमर्षयः । 020c इह स्नात्वा तपोयुक्तांस्त्रील्लोँकान्सचराचरान् ॥ 021a सरस्वतीमिमां पुण्यां पुण्यैकशरणावृताम् । 021c यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यसि ॥ 022a इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः । 022c ऋषयश्चैव कौन्तेय तथा राजर्षयोपि च ॥ 023a वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना । 023c कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥
3-131-2 अभिसृष्टवान् दत्तवान् ॥ 3-131-4 यज्ञवास्तु यज्ञभूमिः । इह अस्मिन्वास्तुनि । इदमुत्तरान्वयि ॥ 3-131-5 अग्निभिरग्निस्थापनार्थैरिष्टकारचितैः स्थण्डिलैः ॥ 3-131-6 शमी आमिक्षार्थं दध्युत्पादनार्थमानीता शमीशाखा । एकपत्रा शातितपत्रा ॥ 3-131-7 प्रसर्पणं सञ्चारभूमिः । रौप्यायां रूप्यवत् श्वेतवर्णायां स्थल्यां नद्यां वा । सामीप्ये सप्तमी । प्रसर्पणं तीर्थमित्यन्ये ॥ 3-131-8 अनुवंशं परम्परागतमाख्यानश्वोकम् । उलूखलैरिति । उलूखलसदृशानि स्त्रीणां कर्णाभरणानि भवन्तीति स्वयमुलूलैरेवाभरणैर्युक्तासतीति शेषः । एतेन विकृतवेषत्वं पिशाच्याः ॥ 3-131-9 युगन्धरे पयः प्राश्येति ध. पाठः । उक्तं भाषणमेवाह द्वाभ्यां युगन्धर इति । अस्मिंस्तीर्थे सपुत्रा ब्राह्मणी स्नातुमागता तां प्रति पिशाची वदति । त्वया युगन्धरे पर्वते देशे वा दधिप्राशनं कृतम् । तत्रोष्ट्रीक्षीरं गर्दभ्यादिक्षीरं च दधि क्रियते । तथा अच्युतस्थलाख्ये सङ्करजानां ग्रामे वासश्च कृतः । तथा भूतिलयाख्ये दस्युग्रामेऽग्निदग्धानां मृतानां क्षेपणं यस्यां नद्यां क्रियते तस्यां स्नातासि । अतो दोषत्रयवती त्वम् । एतत्करणे हि प्रायश्चित्तं धर्मशास्त्रे प्रसिद्धम् । औष्ट्रमैकशफं क्षीरं सुरातुल्यमिति । संसृज्य सङ्करैः सार्धं प्राजापत्यं व्रतं चरेदिति । प्रोष्यभूतिलये विप्रः प्राजापत्यं व्रतं चरेदिति च । तच्च त्वया न कृतमतः कथमत्र वस्तुमिच्छसि । दोषवतामिह तीर्थे वासो दुर्लभ इत्यर्थः । एवं पिशाचीवाक्यं श्रुत्वापि सा ब्राह्मणी तत्र स्नानादिकं कृतवती । ततस्तया राक्षस्या तस्या घटपिठरादिकं नाशितम् । उक्तञ्च । एतत्तव दिवावृत्तं रात्रौ वृत्तं तु द्रक्ष्यसीति । वृत्तं जातम् । रात्रौ तु तव पुत्रमपि नाशयिष्यामीति भावः । अथापि द्वितीयां रात्रिं वस्तुमिच्छसि चेत्तव भूयांसमपकारं करिष्यामीति युगन्धरादिदेशत्रयनिन्दापरत्वेन व्याख्या ॥ 3-131-10 त्वं तु अब्रह्मवित् एकरात्रमेवात्र वस्तुं योग्या । यदि द्वितीयां वस्तुमिच्छसि तर्हि ते तव एतत् मदीयं वृत्तं भविष्यति मद्वत् पिशाची भूत्वात्र स्नानं न लप्स्यसे । एतदिति स्ववृत्तस्याभिनीय प्रदर्शनम् । द्वितीयदिनवासस्यैवैतत्फलं । द्वितीयरात्रिवासे तुं इतोन्यथा अहल्यादिवन्मोहप्राप्त्या शिलाभावो भविष्यति । तेन तीर्थदर्शनमपि न लप्स्यसे इति ॥ 3-131-13 एतत्प्लक्षवटं नामेति क. पाठः ॥ 3-131-14 दन्तोलूखलिनस्तत्रेति क. पाठः । सारस्वतैर्ब्राह्मणैः ऋत्विग्भिर्यज्ञैरीजानाः यूपोलूखलिकाः यूपान् उलूखलानि च यज्ञसाधनान्याददते यूपोलूखलिकाः ॥ 3-131-16 कृष्णसारङ्गं कृष्णहरिणसदृशं श्यामकर्णमित्यर्थः ॥ 3-131-21 तीर्थान्तरमाह सरस्वतीति । पश्यैकशरणावृतामिति क. पाठः ॥