अध्यायः 130
युधिष्ठिरेण मार्कण्डेयाश्रमगमनम् ॥ 1 ॥ लोमशेन युधिष्ठिरम्प्रति सङ्ग्रहेण मार्कण्डेयचरित्रकथनम् ॥ 2 ॥
001'वैशम्पायन उवाच । 001a सोमकस्याश्रमे पुण्ये धर्मराजो युधिष्ठिरः । 001c षड्रात्रमुष्य नियतो भ्रात्रादिभिररिन्दमः । 01e तस्मान्निर्गम्य सहसा दिशं प्रायात्तथोत्तराम् ॥ 002a बहुदूरं ततो गत्वा वनं तत्र मनोहरम् । 002c बहुपुष्पफलाकीर्णं महानद्युपशोभितम् ॥ 003a दृष्ट्वा पप्रच्छ राजाऽसौ लोमशं मुनिसत्तमम् । 003c किमिदं दृश्यते रम्यं वनं बहुमृगद्विजम् ॥ 004a बहुपुष्पफलोपेतं मुनिसङ्घैर्निषेवितम् । 004c स्रवन्त्या च समायुक्तं महत्या पुण्यतोयया ॥ 005a ऋषीणामाश्रमाः पुण्या दृश्यन्ते विविधा मुने । 005c कस्यायमाश्रमः पुण्यः कस्येमे मुनयोऽमलाः । 005e एतदिच्छाम्यहं श्रोतुं वद त्वं वदतांवर ॥ 006 लोमश उवाच । 006a शृणु राजेन्द्र भद्रं ते वनस्यास्य पुरातनम् । 006c वृत्तान्तं निखिलेनाद्य प्रोच्यमानं मयाऽनघ ॥ 007a मृकण्डुपुत्रो मेधावी मार्कण्डेयो महामुनिः । 007c बाल एव महाबुद्धिः सर्वविद्याविशारदः ॥ 008a मातापित्रोः प्रियं कुर्वंस्तपोर्थं वनमाविशत् । 008c अत्राश्रमपदं कृत्वा तपस्तेपे सुदारुणम् ॥ 009a ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः । 009c जलस्थः शिशिरे योगी बहुकालमवर्तत ॥ 010a ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः । 010c जितेन्द्रियो जितप्राणश्चिन्तयन्दृढमव्ययम् । 010e अनाहारो जितक्रोधश्चिरमेवमवर्तत ॥ 011a एतस्मिन्नन्तरे राजन्ननावृष्टिः सुदारुणा । 011c सम्भूता सर्वसंहर्त्री तया दग्धं चराचरम् ॥ 012a अनावृष्ट्यां प्रवृत्तायां सर्वे च निधनं गताः । 012c केचिदन्ये महात्मानो मुनयो द्विजपुङ्गवाः ॥ 013a ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा सर्वाश्च योषितः । 013c पशुपक्षिमृगाः सर्वे क्षुत्पिपासासमाकुलाः । 013e कृशाः शुष्कोष्ठकण्ठाश्च श्रान्ता भ्रान्ता विचेतसः ॥ 014a केनचित्पुण्यशेषेण मार्कण्डेयस्य धीमतः । 014c आश्रमं शनकैः प्राप्ता मूर्च्छिताः सहसाऽपतन् ॥ 015a समाधिविरतो योगी मार्कण्डेयो महातपाः । 015c तद्वनं निबिडं दृष्ट्वा जनैः क्षुत्तृट्समाकुलैः ॥ 016a दयार्द्रहृदयो योगी शिवं ध्यात्वा हृदम्बुजे । 016c तेषां संरक्षणार्थाय वेदगन्धिस्वरेण सः । 016e आजुहाव तदा गङ्गां तपोयोगेन भारत ॥ 017a गङ्गा समागता शीघ्रं तेनाहूताऽतिपावना । 017c नाम्ना वेदनदीत्येव प्रख्याता लोकपावना ॥ 018a पर्जन्यश्च समाहूतः सुखं वर्षति भारत । 018c सस्यानि च समृद्धानि फलमूलान्यनेकशः । 018e सम्भूतान्यत्र राजेन्द्र सर्वे ते रक्षिता जनाः ॥ 019a मार्कण्डेयं प्रशंसन्तो जनाः सर्वे द्विजात्तयः । 019c चिरं सुखमवर्तन्त तेन संरक्षिता नृप ॥ 020a एवं विधाय रक्षां स सर्वेषां पुण्यकर्मणाम् । 020c पुनश्चचार च तपः परमेश्वरतुष्टये ॥ 021a एवं बहुतिथे काले प्रादुरासीन्महेश्वरः ॥ 022a दृष्ट्वा च सर्वदेवेशं चन्द्रमौलिमुमापतिम् । 022c ब्रह्मविष्ण्वादिभिर्देवैः सिद्धविद्याधरोरगैः ॥ 023a गन्धर्वयक्षप्रवरैः सकिन्नरपतत्रिभिः । 023c स्तूयमानं महादेवमव्ययं निष्कलं शिवम् । 023e प्रणनाम मुनिर्भक्त्या साष्टाङ्गं च पुनः पुनः ॥ 024a प्रणम्योत्थाय सहसा बद्धाञ्जलिपुटो मुनिः । 024c तुष्टाव विविधैः स्तोत्रैर्महादेवं जगत्पतिम् ॥ 025a तमुवाच महादेवो मार्कण्डेयं महामुनिम् । 025c वरं वरय भद्रं ते वरदोस्मि मुने तव ॥ 026a एवं सम्बोधितस्तेन शिवेन परमात्मना । 026c सगद्गदमिदं वाक्यमुवाच परमेश्वरम् ॥ 027a नान्यं वरं वृणे शम्भो विना त्वत्पादपङ्कजे । 027c भक्तिं ह्यनन्यसुलभां स्वामिन्नव्यभिचारिणीम् ॥ 028a एवमुक्तोऽथ मुनिना भगवानीश्वरेश्वरः । 028c पुनरेवाब्रवीद्वाक्यं मार्कण्डेय महामुनिम् ॥ 029a सम्यगाराधितः पित्रा तव पुत्रार्थमादरात् ॥ 030a शतायुर्निर्गुणः पुत्रः शुभः षोडशवार्षिकः । 030c उभयोरन्यमिच्छ त्वमित्युक्तः सोऽब्रवीच्च माम् ॥ 031a निर्गुणो मास्तु देवेश शतायुः षोडशाब्दकः । 031c सुगुणोऽस्तु सुतो मेऽद्य इति पित्रावृत पुरा ॥ 032a त्वया तप्तेन तपसा तोषितोऽहं भृशं मुने । 032c दीर्घमायुर्मया दत्तं मृत्युश्च प्रतिषेधितः ॥ 033a इत्युक्त्वा भगवानीशस्तत्रैवान्तरधीयत । 033c तस्यायमाश्रमः पुण्यस्तस्येमे मुनयोऽमलाः ॥ 034a अत्रैकरात्रमुषिताः सर्वे मृत्युं तरन्ति वै । 034c अत्रैव भरतश्रेष्ठ प्रयतो वस भूमिप' ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥