अध्यायः 129

ऋत्विक्चोदनया सोमकेन राज्ञा जन्तुनामकपुत्रवपाया होमे तद्गन्धाघ्राणनेन तद्भार्याशते पुत्रशतोत्पत्तिः ॥ 1 ॥ लोकान्तरं गतेन सोमकेन ऋत्विजा सह तद्भोग्यस्वपुत्रहननजनारकीयदुःखानुभवपूर्वकं तेन सहैव स्वीयसुकृतकलोपभोगः ॥ 2 ॥

001 सोमक उवाच । 001a ब्रह्मन्यद्यद्यथा कार्यं तत्कुरुष्व तथातथा । 001c पुत्रकामतया सर्वङ्करिष्यामि वचस्तव ॥ 002 लोमश उवाच । 002a ततः स याजयामास सोमकं तेन जन्तुना । 002c मातरस्तु बलात्पुत्रमपाकार्षुः कृपान्विताः ॥ 003a हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः । 003c तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे ॥ 004a सव्ये पाणौ गृहीत्वा तु याजकोपि स्म कर्षति । 004c कुररीणामिवार्तानामपाकृष्य तु तं सुतम् ॥ 005a विशस्य चैनं विधिवद्वपामस्य जुहाव सः । 005c वपायां हूयमानायां गन्धमाघ्राय मातरः ॥ 006a आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन । 006c सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः ॥ 007a ततो दशसु मासेषु सोमकस्य विशाम्पते । 007c जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत ॥ 008a जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव पूर्ववत् । 008c स तासामिष्ट एवासीन्न तथाऽन्ये निजाः सुताः ॥ 009a तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे । 009c तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैरपि ॥ 010a ततः स लोकमगमत्सोमकस्य गुरुः परम् । 010c अन्वक्षमेव पश्चात्तु सोमकोप्यगमत्परम् ॥ 011a अथ तं नरके घोरे पच्यमानं ददर्श सः । 011c तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज ॥ 012a तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम् । 012c त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम् ॥ 013a एतच्छ्रुत्वा स राजर्षिर्धर्मराजमथाब्रवीत् । 013c अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः ॥ 014a मत्कृते हि महाभागः पच्यते नरकाग्निना । 014c 'सोहमात्मानमाधास्ये नरके मुच्यतां गुरुः' ॥ 015 धर्म उवाच । 015a नान्य कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन । 015c इमानि तव दृश्यन्ते फलानि वदतांवर ॥ 016 सोमक उवाच । 016a पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम् । 016c इच्छाम्यहमननैव सह वस्तुं सुरालये ॥ 017a नरके वा धर्मराज कर्मणाऽस्य समो ह्यहम् । 017c पुण्यापुण्यफलं देव सममस्त्वावयोरिदम् ॥ 018 धर्मराज उवाच । 018a यद्येवमीप्सितं राजन्भुङ्खास्य सहितः फलम् । 018c तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् ॥ 019 लोमश उवाच । 019a स चकार तथा सर्वं राजा राजीवलोचनः । 019c क्षीणपापश्च तस्मात्स विमुक्तो गुरुणा सह ॥ 020a लेभे कामाञ्शुभान्राजन्कर्मणा निर्जितान्स्वयम् । 020c सह तेनैव विप्रेण गुरुणा स गुरुप्रियः ॥ 021a एष तस्याश्रमः पुण्यो य एषोग्रे विराजते । 021c क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः ॥ 022a एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः । 022c षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः ॥ 129 ॥

3-129- वाशन्त्यः क्रोशन्त्यः ॥ 3-129- वपां देहान्तर्गतमपूपाकारं मासम् ॥ 3-129- लक्षणं चिह्नम् ॥ 3-129- सोमकस्य ऋत्विगिति शेषः ॥ 3-129- क्षान्तः क्षमावान् । उष्य उषित्वा ॥