अध्यायः 128
सोमकनामकेन राज्ञा भार्याशतोद्बाहेपि ज्येष्ठायामेव जन्तुनामकैकापत्यजननम् ॥ 1 ॥ पिपीलिकादष्टसुतदुःखदर्शननिर्विण्णेन तेन राज्ञा ऋत्विजम्प्रति बहुपुत्रोत्पादनोपायप्रश्नः ॥ 2 ॥ ऋत्विजा राजानम्प्रति जन्तोः पशूकरणेन होमे तद्वपाघ्राणनेन भार्याशते पुत्रशतजननोक्तिः ॥ 3 ॥
001 युधिष्ठिर उवाच । 001a कथंवीर्यः स राजाऽभूत्सोमको ददतांवरः । 001c कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः ॥ 002 लोमश उवाच । 002a युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः । 002c तस्य भार्याशतं राजन्सदृशीनामभूत्तदा ॥ 003a स वै यत्नेन महता तासु पुत्रं महीपतिः । 003c कञ्चिन्नासादयामास कालेन महता ह्यपि ॥ 004a कदाचित्तस्य वृद्धस्य यतमानस्य धीमतः । 004c जन्तुर्नाम सुतस्तस्य ज्येष्ठायां समजायत ॥ 005a तं जातं मातरः सर्वाः परिवार्य समासते । 005c सततं पृष्ठतः कृत्वा कामभोगान्विशाम्पते ॥ 006a ततः पिपीलिका जन्तुं कदाचिददशत्स्फिचि । 006c स दष्टो ह्यरुदद्राजंस्तेन दुःखेन बालकः ॥ 007a ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः । 007c प्रवार्य जनतुं सहसा स शब्दस्तुमुलोऽभवत् ॥ 008a तमार्तनादं सहसा शुश्राव स महीपतिः । 008c अमात्यपर्षदो मध्ये उपविष्टः सहर्त्विजा ॥ 009a ततः प्रस्थापयामास किमेतदिति पार्थिवः । 009c तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति ॥ 010a त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः । 010c प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिन्दमः ॥ 011a सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः । 011c ऋत्विजा सहितो राजन्सहामात्य उपाविशत् ॥ 012 सोमक उवाच । 012a धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् । 012c नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता ॥ 013a इदं भार्याशतं ब्रह्मन्परीक्ष्यसदृशं प्रभो । 013c पुत्रार्थिना मया वोढं न तासां विद्यते प्रजा ॥ 014a एकः कथञ्चिदुत्पन्नः पुत्रो जन्तुरयं मम । 014c यतमानासु सर्वासु किन्नु दुःखमतः परम् ॥ 015a वयश्च समतीतं मे सभार्यस्यं द्विजोत्तम । 015c आसां प्राणाः समायत्ता मम चात्रैकपुत्रके ॥ 016a स्यात्तु कर्म तथा युक्तं येन पुत्रशतं भवेत् । 016c महता लघुना वाऽपि कर्मणा दुष्करेण वा ॥ 017 ऋत्विगुवाच । 017a अस्ति चैतादृशं कर्म येन पुत्रशतं भवेत् । 017c यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक ॥ 018 सोमक उवाच । 018a कार्यं वा यदि वाऽकार्यं येन पुत्रशतं भवेत् । 018c कृतमेवेति तद्विद्धि भगवान्प्रब्रवीतु मे ॥ 019 ऋत्विगुवाच । 019a यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ । 019c ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते ॥ 020a वपायां हूयमानायां धूममाघ्राय मातरः । 020c ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् ॥ 021a तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः । 021c उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥
3-128-6 स्फिचि कठ्याम् ॥ 3-128-8 अमात्यपर्षदो मध्ये मन्त्रिसभान्तः ॥ 3-128-9 क्षत्ता दौवारिकः ॥ 3-128-19 जन्तुना पशुभूतेन ॥