अध्यायः 127
लोमशेन युधिष्ठिरं प्रति मान्धातृपदप्रवृत्तिनिमित्तकथनपूर्वकं मान्धातृचरित्रकीर्तनम् ॥ 1 ॥ 001युधिष्ठिर उवाच । 001a मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः । 001c कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः ॥ 002a कथं चैनां परां ख्यातिं प्राप्तवानमितद्युतिः । 002c यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः ॥ 003a एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः । 003c 'सत्यकीर्तेर्हि मान्धातुः कथ्यमानं त्वयाऽनघ' ॥ 004a यथा मान्धातृशब्दश्च तस्य शक्रसमद्युते । 004c जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम् ॥ 005 लोमश उवाच । 005a शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः । 005c यथा मान्धातृशब्दो वै लोकेषु परिगीयते ॥ 006a इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः । 006c सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः ॥ 007a अश्वमेधसहस्रं च प्राप्य धर्मभृतांवरः । 007c अन्यैश्च क्रतुभिर्मुख्यैरयजत्स्वाप्तदक्षिणैः ॥ 008a अनपत्यस्तु राजर्षिः स महात्मा महाव्रतः । 008c मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह । 008e शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मवान् ॥ 009a स कदाचिन्नृपो राजन्नुपवासेन दुःखितः । 009a पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः ॥ 010a तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः । 010c इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् ॥ 011a सम्भृतो मन्त्रपूतेन वारिणा कलशो महान् । 011c तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः ॥ 012a यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम् । 012c 'तद्वारि विहितं राजन्यस्मिन्नासीत्सुसंस्कृतम्' । 012e तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः ॥ 013a रात्रिजागरणाच्छ्रान्तान्सौद्युम्निः समतीत्य तान् । 013c शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः । 013e तं प्रविश्याश्रमं शान्तः पानीयं सोऽभ्ययाचत ॥ 014a तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा । 014a नाश्रौषीत्कश्चन तदा शकुनेरिव वाशतः ॥ 015a ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः । 015c अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् ॥ 016a स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः । 016c निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा ॥ 017a ततस्ते प्रत्यबुध्यन्त मुनयः सतपोधनाः । 017c निस्तोयं तं च कलशं ददृशुः सर्व एव ते ॥ 018a कस्य कर्मेदमिति ते पर्यपृच्छन्समागताः । 018c युवनाश्वो ममेत्येवं सत्यं समभिपद्यत ॥ 019a न युक्तमिति तं प्राह भगवान्भार्गवस्तदा । 019a सुतार्थं स्थापिता ह्यापस्तपसा चैव सम्भृताः ॥ 020a मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम् । 020c पुत्रार्थं तव राजर्षे महाबलपराक्रम ॥ 021a महाबलो महावीर्यस्तपोबलसमन्वितः । 021a यः शक्रमपि वीर्येण गमयेद्यमसादनम् ॥ 022a अनेन विधिना राजन्मयैतदुपपादितम् । 022c अब्भक्षणं त्वया राजन्न युक्तं कृतमद्य वै ॥ 023a न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽनय्था । 023a नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि ॥ 024a पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः । 024c आपस्त्वया महाराज मत्तपोवीर्यसम्भृताः ॥ 025a ताभ्यस्त्वमात्मना पुत्रमीदृशं जनयिष्यसि । 025c विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् ॥ 026a यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् । 026c 'न च प्राणैर्महाराज वियोगस्ते भविष्यति' ॥ 027a मा खिदस्त्वं हि राजेनद्र दैवं हि बलवत्तरम्' । 027c गर्भधारणजं वाऽपि न खेदं समवाप्स्यसि ॥ 028a ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः । 028c वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इव स्थितः ॥ 029a निश्चक्राम महातेजा न च तं मृत्युराविशत् । 029c युवनाश्वं नरपतिं तदद्भुतमिवाभवत् ॥ 030a ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत् । 030c ततो देवा महेन्द्रं तमपृच्छन्धास्यतीति किम् ॥ 031a प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसन्दधे । 031c मामयं धास्यतीत्येवं भाषिते चैव वज्रिणा । 031e मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः ॥ 032a प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा । 032c अवर्धत महातेजाः किष्कून्राजंस्त्र्योदश ॥ 033a वेदास्तं सधनुर्वेदा दिव्यान्स्त्राणि चेश्वरम् । 033c उपतस्थुर्महाराजं ध्यातमात्राणि सर्वशः ॥ 034a धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये । 034c अभेद्यं कवचं चैव सद्यस्तमुपशिश्रियुः ॥ 035a सोऽभिषिक्तो भगवता स्वयं शक्रेण भारत । 035c धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः ॥ 036a तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः । 036c रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे ॥ 037a तस्येयं वसुसम्पूर्णा वसुधा वसुधाधिप । 037c तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ॥ 038a चितचैत्यो महातेजा धर्मान्प्राप्य च पुष्कलान् । 038c शक्रस्यार्धासनं राजल्ँलब्धवानमितद्युतिः ॥ 039a एकाह्ना पृथिवी तेन धर्मनित्येन धीमता । 039c विजिता शासनादेव सरत्नाकरपत्तना ॥ 040a तस्य चैत्यैर्महाराज क्रतूनां दक्षिणावताम् । 040c चतुरन्ता मही व्याप्ता नासीत्किञ्चिदनावृतम् ॥ 041a तेन पद्मसहस्राणि गवां दश महात्मना । 041c ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते ॥ 042a तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना । 042c वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः ॥ 043a तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान् । 043c गर्जन्निव महामेघः प्रमथ्य निहतः शरैः ॥ 044a प्रजाश्चतुर्विधास्तेन त्राता राजन्कृतात्मना । 044c तेनात्मतपसा लोकास्तापिताश्चातितेजसा ॥ 045a तस्यैतद्देवयजनं स्थानमादित्यवर्चसः । 045c यस्य पुण्यतमे देशे कुरुक्षेत्रेस्य मध्यतः ॥ 046a 'तथा त्वमपि राजेन्द्र मान्धातेव महीपतिः । 046c धर्मं कृत्वा महीं रक्ष स्वर्गलोकं गमिष्यसि' ॥ 047a एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् । 047c जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि ॥ 048 वैशम्पायन उवाच । 048a एवमुक्तः स कौन्तेयो लोमशेन महर्षिणा । 048c पप्रच्छानन्तरं भूयः सोमकं प्रति भारत ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥
3-127-1 यौवनाश्वो युवनाश्वपुत्रः । यौवनाश्विर्नृपोत्तम इति क. पाठः ॥ 3-127-8 आत्मानं चित्तम् । आत्मवान् जितचित्तः । संयोज्येष्टदेवतया ऐक्यं नीत्वा ॥ 3-127-10 सौद्युम्नेः युवनाश्वस्य ॥ 3-127-14 वाशतः शब्दं कुर्वतः ॥ 3-127-16 निर्वाणं तपःफलम् ॥ 3-127-25 इष्टिमिच्छितम् ॥ 3-127-30 किं धास्यति पास्यति स्तन्याभावात् ॥ 3-127-31 मां धास्यति मां धाता । धातेति लुडन्तस्य व्याख्यानं धास्यतीति । प्रदेशिनीं, तर्जनीम् ॥ 3-127-32 किष्कून् हस्तान् वितस्तीन्वा ॥ 3-127-36 चक्रमाज्ञा 3-127-38 चितचैत्यः कृतचयनक्रतुः ॥ 3-127-41 पद्मं शतकोटयस्तेषामपि सहस्राणि दश ॥ 3-127-44 चतुर्विधाः सुरनरतिर्यक्स्थावराः ॥