अध्यायः 126
इन्द्राभिष्टुतेन च्यवनेन तस्मिन्स्वप्रयुक्तकृत्यायास्ततो विनिवर्त्य स्र्यादिषु विभजनम् ॥ 1 ॥ लोमशेन सुकम्योपाख्यानसमापनपूर्वकं युधिष्ठिराय नानातीर्थमहिमानुवर्णनम् ॥ 2 ॥ 001 लोमश उवाच । 001a तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः । 001c आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ॥ 002a भयात्संस्तम्भितभुजः सृक्विणी लेलिहन्मुहुः । 002c ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः ॥ 003a सोमार्हावश्विनावेतावद्य प्रभृति भार्गव । 003c भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे ॥ 004a न ते मिथ्या समारम्भो भवत्वेष परो विधिः । 004c जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ॥ 005a सोमपावश्विनावेतौ यथा वाद्य कृतौ त्वया । 005c 'तथैव मामपि ब्रह्मञ्श्रेयसा योक्तुमर्हसि' ॥ 006a भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव । 006c सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति ॥ 007a अतो मयैतद्विहितं तव वीर्यप्रकाशनम् । 007c तस्मान्प्रसादं कुरु मे भवत्वेवं यथेच्छसि ॥ 008a एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः । 008c स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरन्दरम् ॥ 009a मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान् । 009c अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ॥ 010a तदा मदं विनिक्षिप्य शक्रं सन्तर्प्य चेन्दुना । 010c अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् ॥ 011a विख्याप्य वीर्यं लोकेषु सर्वेषु वदतांवरः । 011c सुकन्यया सहारण्ये विजहारानुकूलया ॥ 012a तस्यैतद्द्विजसङ्घुष्टं सरो राजन्प्रकाशते । 012c अत्र त्वं सह सोदर्यैः पितृन्देवांश्च तर्पय ॥ 013a एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत । 013c सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् ॥ 014a पुष्करेषु महाराज सर्वेषु च जलं स्पृश । 014c स्थाणोर्मन्त्राणि च जपन्सिद्धिं प्राप्स्यसि भारत ॥ 015a सन्धिर्द्वयोर्नरश्रेष्ठ त्रेताया द्वापरस्य च । 015c अयं हि दृश्यते पार्थ सर्वपापप्रणाशनः । 015e अत्रोपस्पृश चैव त्वं सर्वपापप्रणाशने ॥ 016a आर्चीकपर्वतश्चैव निवासौ वै मनीषिणाम् । 016c सदाफलः सदास्रोतो मरुतां स्तानमुत्तमम् ॥ 017a चैत्याश्चैते बहुविधास्त्रिदशानां युधिष्ठिर । 017c एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते । 017e वैखानसप्रभृतयो वालखिल्यास्तथैव च ॥ 018a शृङ्गाणि त्रीणि पुण्यानि त्रीणि प्रसर्वणानि च । 018c सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश ॥ 019a शान्तनुश्चात्र राजेन्द्र शुनकश्च नराधिपः । 019c नरनारायणौ चोभौ तपस्तप्त्वा चिरं नृप । 019e स्थानं सनातनं प्राप्तावीश्वरध्यानतत्परौ ॥ 020a इह नित्याश्रया देवाः पितरश्च महर्षिभिः । 020c आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर ॥ 021a इह ते वै चरून्प्राश्नन्नृषयश्च विशाम्पते । 021c यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः ॥ 022a यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन । 022c सर्वे चात्र गमिष्यामस्त्वयैव सह पाण्डव ॥ 023a एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजेश्वर । 023c यत्रधाता विधाता च वपरुणश्चोर्ध्वमागताः ॥ 024a इह तेऽप्यवसन्राजञ्शान्ताः परमधर्मिणः । 024c मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ॥ 025a एषा सा यमुना राजन्महर्षिगणसेविता । 025c नानायज्ञचिता राजन्पुण्या पापभयापहा ॥ 026a अत्रराजा महेष्वासो मान्धाताऽयजत स्वयम् । 026c साहदेविश्च कौन्तेय सोमको ददतांवरः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥
3-126-2 सृक्किणी गल्लगर्भौ ॥ 3-126-3 वचो ब्रह्मन्ब्रवीमि ते इति क. पाठः ॥ 3-126-15 सम्प्रति कलिद्वापरसन्धावपि अत्रतीर्थे त्रेताद्वापारसन्धितुल्यः कालोस्ति । अत्रस्नातानां कलिस्पर्शो नास्तीति भावः ॥ 3-126-16 सदास्रोतः सदा प्रवाहयुक्तम् ॥ 3-126-18 त्रीणि शृङ्गाणीति त्रिकोणं वाराणसीक्षेत्रम् । त्रीणि प्रस्रवणानीति च प्रयागम् । एतानि सर्वाणि अनुपरिक्रम्य प्रदक्षिणीकृत्य ॥ 3-126-20 तेपुस्तपश्चक्रुः ॥ 3-126-26 साहदेविः सृञ्जयपुत्रस्य पुत्रः ॥