अध्यायः 125
च्यवनस्य यौवनलाभश्रवणहृष्टेन शर्यातिना तदाश्रमाभिगमनम् ॥ 1 ॥ च्यवनेन शर्यातेर्याजनम् ॥ 2 ॥ तत्र च्यवनेनाश्विभ्यां स्वप्रतिश्रुतसोमरसदानोद्यमे इन्द्रेण तस्य हननाय बाहुना वज्रोद्यमनम् ॥ 3 ॥ तद्बाहुसंस्तग्भनपूर्वकं च्यवनसृष्टया कृत्यया शक्रं प्रत्यभिसरणम् ॥ 4 ॥ 001 लोमश उवाच । 001a ततः श्रुत्वा तु शर्यातिर्वयस्थं च्यवनं कृतम् । 001c सुहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् ॥ 002a च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव । 002c रेमे सभार्यः शर्यातिः कृत्स्नां प्राप्य महीमिव ॥ 003a ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः । 003c उपोपविष्टः कल्याणीः कथाश्चक्रे मनोरमाः ॥ 004a अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन् । 004c याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय ॥ 005a ततः परमसंहृष्टः शर्यातिरवनीपतिः । 005c च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥ 006a प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत् । 006c कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥ 007a तत्रैनं च्यवनो राजन्याजयामास भार्गवः । 007c अद्भुतानि च तत्रासन्यानि तानि निबोध मे ॥ 008a अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा । 008c तमिन्द्रो वारयामास गृह्णानं स तयोर्ग्रहम् ॥ 009 इन्द्र उवाच । 009a उभावेतौ न सोमार्हौ नासत्याविति मे मतिः । 009c भिषजौ दिवि देवानां कर्मणा तेन नार्हतः ॥ 010 च्यवन उवाच । 010a मावमंस्था महात्मानौ रूपद्रविणवत्तरौ । 010c यौ चक्रतुर्मां मधवन्वृन्दारकमिवाजरम् ॥ 011a ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम् । 011c अश्विनावपि देवेन्द्र देवौ विद्धि पुरन्दर ॥ 012 इन्द्र उवाच । 012a चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ । 012c लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः ॥ 013 लोमश उवाच । 013a एतदेव तदा वाक्यमाम्रेडयति वासवे । 013c अनादृत्यततः शक्रं ग्रहं जग्राह भार्गवः ॥ 014a ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा । 014c समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥ 015a आभ्यामर्ताय सोमं त्वं ग्रहीष्यसि यदि स्वयम् । 015c वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् ॥ 016a एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः । 016c जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ॥ 017a ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः । 017c तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः ॥ 018a तं स्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम् । 018c कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ॥ 019a ततः कृत्याऽथ सञ्जज्ञे मुनेस्तस्य तपोबलात् । 019c मदो नाम महावीर्यो बृहत्कायो महासुरः ॥ 020a शरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः । 020c तस्यास्यमभवद्धोरं तीक्ष्णाग्रदशनं महत् ॥ 021a हनुरेका स्थिता त्वस्य भूमावेका दिवं गता । 021c चतस्रश्चायता दंष्ट्रा योजनानां शतंशतम् ॥ 022a इतरे तस्य दशना बभूवुर्दशयोजनाः । 022c प्रासादशिखराकाराः शूलाग्रसमदर्शनाः ॥ 023a बाहू परिघसङ्काशावायतावयुतं समौ । 023c नेत्रे रविशशिप्रख्ये वक्रं कालाग्निसन्निभम् ॥ 024a लेलिहञ्जिह्वया वक्रं विद्युच्चपललोलया । 024c व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् ॥ 025a स भक्षयिष्यन्सङ्क्रुद्धः शतक्रतुमुपाद्रवत् । 025c महता घोररूपेण लोकाञ्शब्देन नादयत् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि प्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥
3-125-1 वयस्थं युवानम् ॥ 3-125-4 सम्भारान् यज्ञोपकरणानि ॥ 3-125-8 ग्रहं सोमस्य । गृह्णानं तयोरर्थे ॥ 3-125-11 सवं सोमम् ॥ 3-125-12 भैषज्यात्कर्मणो निन्द्याविति क. पाठः ॥ 3-125-13 आम्रेड्यति पुनःपुनरावर्तयति ॥