अध्यायः 124
कदाचन च्यवनाश्रममुपागताभ्यामश्विभ्यां भार्यात्वाय सुकन्याप्रति प्रार्थनम् ॥ 1 ॥ तदकामयमानां तां प्रत्यश्विभ्यां स्वप्रसादाच्च्यवने रूपयौवनसम्पन्ने सति तुल्यरूपेषु त्रिषु कस्यचिद्वरणचोदना ॥ 2 ॥ भर्त्राज्ञया तया तदङ्गीकारे च्यवनेन सहाश्विभ्यां सरसोऽन्तर्जले निमज्जनम् ॥ 3 ॥ सुकन्यया निमज्ज्योत्थितेषु सरूपेषु त्रिषु तेषु स्वपातिव्रत्यमहिन्ना च्यवनस्यैव वरणम् ॥ 4 ॥ ततस्तुष्टेन च्यवनेनाश्विनोः सोमरसदापनप्रतिज्ञानम् ॥ 5 ॥
001 लोमश उवाच । 001a कस्य चित्त्वथ कालस्य त्रिदशावश्विनौ नृप । 001c कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥ 002a तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव । 002c ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् ॥ 003a कस्य त्वमसि वामोरु वनेऽस्मिन्किं करोषि च । 003c इच्छाव भद्रे ज्ञातुं त्वां तत्वमाख्याहि शोभने ॥ 004a ततः सुकन्या संवीता तावुवाच सुरोत्तमौ । 004c शर्यातितनयां वित्तं भार्यां मां च्यवनस्य च ॥ 'KK0306124005a नाम्ना चाहं सुकन्येति नृलोकेऽस्मिन्प्रतिष्ठिता । 005c साऽहं सर्वात्मना नित्यं भर्तारमनुवर्तिनी' ॥ 006a अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु । 006c कथं त्वमसि कल्याणि पित्रा दत्ताऽऽगता वने ॥ 007a भ्राजसेऽस्मिन्वने भीरु विद्युत्सौदामनी यथा । 007c न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि ॥ 008a अनाभरणसम्पन्ना परमाम्बरवर्जिता । 008c शोभयस्यधिकं भद्रे वनमप्यनलङ्कृता ॥ 009a सर्वाभरणसम्पन्ना परमाम्बरधारिणी । 009c शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी ॥ 010a कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् । 010c त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् ॥ 011a असमर्थं परित्राणे पोषणे तु शुचिस्मिते । 011c सा त्वं च्यवनमुत्सृज्य वरयस्वैकमावयोः ॥ KK0306124012a पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः । 012c एवमुक्ता सुकन्याऽपि सुरौ ताविदमब्रवीत् ॥ 013a रताऽहं च्यवने पत्यौ मैवं मां पर्यशङ्कतम् । 013c तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ ॥ 014a युवानं रूपसम्पन्नं करिष्यावः पतिं तव । 014c ततस्तस्यावयोश्चैव वृणीष्वान्यतमं पतिम् । 014e एतेन समयेनैनमामन्त्रय पतिं शुभे ॥ 015a सा तयोर्वचनाद्राजन्नुपसङ्गम्य भार्गवम् । 015c उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ॥ 016a तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति । 016c 'सा भर्त्रा समनुज्ञाता क्रियतामित्यथाब्रवीत् ॥ 017a श्रुत्वा तदश्विनौ वाक्यं तस्यास्तत्क्रियतामिति' । 017c ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥ 018a ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह । 018c अश्विनावपि तद्राजन्सरः प्राविशतां तदा ॥ 019a ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्त्रयः । 019c दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः । 019e तुल्यवेषधराश्चैव मनसः प्रीतिवर्धनाः ॥ 020a तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे । 020c अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ॥ 021a 'त्वमश्विनोरन्यतरं च्यवनं वा यशस्विनि' । 021c यत्र वाऽप्यभिकामाऽसि तं वृणीष्व सुशोभने ॥ 022a सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् । 022c निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ॥ 023a लब्ध्वा तु च्यवनो भार्यां वयो रूपं च वाञ्छितम् । 023c हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥ 024a यथाऽहं रूपसम्पन्नो वयसा च समन्वितः । 024c कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ॥ 025a तस्माद्युवां करिष्यामि प्रीत्याऽहं सोमपीथिनौ । 025c मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् ॥ 026a तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः । 026c च्यवनश्च सुकन्या च सुराविव विजह्रतुः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥
3-124-1 विवृतामनाच्छादीताम् ॥ 3-124-4 ततः सुकन्या सव्रीडेति झ. पाठः ॥