अध्यायः 123
लोमशेन युधिष्ठिरम्प्रति सुकन्योपाख्यानकथनारम्भः ॥ 1 ॥ कदाचन शर्यातनिना नृपेण सैन्यादिभिःसह च्यवनाश्रमाभिगमनम् ॥ 2 ॥ तत्र शर्यातिकन्यया सुकन्यया चिरतरतपश्चर्यानिरतस्य च्यवनस्य शरीरं पर्यावृत्य विवर्धमानमहावल्मीकावलोकनम् ॥ 3 ॥ तथा कुतूहलाद्वल्मीकोपरि दृश्यमानच्यवननयनयुगलस्याज्ञानात्कण्टकेन विभेदनम् ॥ 4 ॥ ततः क्रुद्धस्य च्यवनस्य प्रसादनाय शर्यातिना भार्यात्वाय तस्मै सुकन्यायाः प्रदानम् ॥ 5 ॥ 001 लोमश उवाच । 001a भृगोर्महर्षेः पुत्रोऽभूच्चयवनो नाम भारत । 001c समीपे सरसस्तस्य तपस्तेपे महाद्युतिः ॥ 002a स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव । 002cअतिष्ठत चिरं कालमेकदेशे विशाम्पते ॥ 003a सवल्मीकोऽभवदृषिर्लताभिरिव संवृतः । 003c कालेन महता राजन्समाकीर्णः पिपीलिकैः ॥ 004a तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः । 004c तप्यते स्म तपो घोरं वल्मीकेन समावृतः ॥ 005a अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः । 005c आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् ॥ 006a तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः । 006c एकैव च सुता सुभ्रूः सुकन्या नाम भारत ॥ 007a सा सखीभिः परिवृता दिव्याभरणभूषिता । 007c चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ॥ 008a सा वै वसुमतीं तत्र पश्यन्ती सुमनोरमाम् । 008c वनस्पतीन्प्रचिन्वन्ती विजहार सखीवृता ॥ 009a रूपेण वयसा चैव मदनेन मदेन च । 009c बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः ॥ 010a तां सखीरहितामेकामेकवस्त्रामलङ्कृताम् । 010c ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम् ॥ 011a तां पश्यमानो विजने स रेमे परमद्युतिः । 011c क्षामकण्ठश्च विप्रर्षिस्तपोबलसमन्वितः । 011e तामाबभाषेकल्याणीं सा चास्य न शृणोति वै ॥ 012a ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी । 012c कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता । 012e किन्नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥ 013a अक्रुद्ध्यत्स तथा विद्धे नेत्रे परममन्युमान् । 013c ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत् ॥ 014a ततो रुद्धे शकृन्मूत्रे सैन्यमासीत्सुदुःखितम् । 014c तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः ॥ 015a तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः । 015c केनापकृतमद्येह भार्गवस्य महात्मनः । 015e ज्ञातं वा यदि वाऽज्ञातं तद्द्रुतं ब्रूतमाचिरम् ॥ 016a तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् । 016c सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु ॥ 017a ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् । 017c पर्यपृच्छत्सुहृद्वर्गं पर्यजानन्न चैव ते ॥ 018a आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम् । 018c पितरं दुःखितं दृष्ट्वा सुकन्येदमथाब्रवीत् ॥ 019a मयाऽटन्त्येह वल्मीके दृष्टं सत्वमभिज्वलत् । 019c खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् ॥ 020a एतच्छ्रुत्वा तु वल्मीकं शर्यातिस्तूर्णमभ्ययात् । 020c तत्रापशय्त्तपोवृद्धं चन्द्रादित्यसमप्रभम् ॥ 021a अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः । 021c अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि ॥ 022a ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा । 022c अपमानादहं विद्धो ह्यनया दर्पपूर्णया ॥ 023a रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् । 023c तामेव प्रतिगृह्याहं राजन्दुहितरं तव । 023e क्षंस्यामीति महीपाल सत्यमेतद्ब्रवीमि ते ॥ 024 लोमश उवाच । 024a ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् । 024c ददौ दुहितरं तस्मै च्यवनाय महात्मने ॥ 025a प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह । 025c प्राप्तप्रसादौ राजा वै ससैन्यः पुरमाव्रजत् ॥ 026a सुकन्याऽपि पतिं लब्ध्वा तपस्विनमनिन्दिता । 026c नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ 027a अग्नीनामतिथीनां च शुश्रूषुनसूयिका । 027c समाराधयत क्षिप्रं च्यवनं सा शुभानना ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥
3-123-2 वीरस्थानेन वीरासनेन ॥ 3-123-11 क्षामकण्ठः क्षीणध्वनिः अतएव सा तद्वचनं न शृणोति ॥ 3-123-20 वयोवृद्धं च भार्गवम् इति झ. ध. पाठः ॥