अध्यायः 122

लोमशेन युधिष्ठिरम्प्रति पयोष्णीतटे गयकृतयागवर्णनम् ॥ 1 ॥ तथा च्यवनेन शर्यातियाजनादिकथनम् ॥ 2 ॥ युधिष्ठिरेण लोमशम्प्रतिसविस्तरं च्यवनचरित्रकीर्तनप्रार्थना ॥ 3 ॥

001 लोमश उवाच । 001a गयेन यजमानेन सोमेनेह पुरन्दरः । 001c तर्पितः श्रूयते राजन्स तृप्तो मुदमभ्यगात् ॥ 002a इह देवैः सहेन्द्रैश्च प्रजापतिभिरेव च । 002c इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥ 003a आधूर्तरजसश्चेह राजा वज्रधरं प्रभुः । 003c तर्पयामास सोमेन हयमेधेषु सप्तसु ॥ 004a तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्ययम् । 004c वानप्रस्थं च भौमं च यद्द्रव्यं नियतं मखे ॥ 005a चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः स्रुवाः । 005c तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः ॥ 006a सप्तैकैकस्ययूपस्य चषालाश्चोपरिस्थिताः । 006c तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान् । 006e स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर ॥ 007a तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः । 007c अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥ 008 प्रसङ्ख्यानानसङ्ख्येयान्प्रत्यगृह्णन्द्विजातयः ॥ 009a सिकता वा यथा लोके यथावा दिवि तारकाः । 009c यथा वा वर्षतो धारा असङ्ख्येयाः स्म केनचित् ॥ 010a तथैव तदसङ्ख्येयं धनं यत्प्रददौ गयः । 010c सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु ॥ 011a भवेत्सङ्ख्येयमेतद्धि यदेतत्परिकीर्तितम् । 011c न तस्य शक्याः सङ्ख्यातुं दक्षिणादक्षिणावतः ॥ 012a हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा । 012c ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् ॥ 013a अल्पावशेषा पृथिवी चैत्यैरासीत्समाचिता । 013c गयस्य यजमानस्य तत्रतत्र विशाम्पते ॥ 014a स लोकान्प्राप्तवैनैन्द्रान्कर्मणा तेन भरत । 014c सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् ॥ 015a तरस्मात्त्वमत्र राजेनद्र भ्रातृभिः सहितोच्युत । 015c उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि ॥ 016 वैशम्पायन उवाच । 016a स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह । 016c वैदूर्यपर्वतं चैव नर्मदां च महानदीम् ॥ 017a 'उद्दिश्य पाण्डवश्रेष्ठः स प्रतस्थे महीपतिः' । 017c समागमत तेजस्वी भ्रातृभिः सहितो नघ ॥ 018a तत्रास्य सर्वाण्याचख्यौ लोमशो भगवानृषिः । 018c तीर्थानि रमणीयानि पुण्यान्यायतनानि च ॥ 019a यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह । 019c तत्रतत्राददद्वित्तं ब्राह्मणेभ्यः सहस्रशः ॥ 020 लोमश उवाच । 020a देवानामेति कौन्तेय तथा राज्ञां सलोकताम् । 020c वेदूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च ॥ 021a सन्धिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च । 021c एनमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते ॥ 022a एष शर्यातियज्ञस्य देशस्तात प्रकाशते । 022c साक्षाद्यत्रापिबत्सोममश्विभ्यां सह वासवः ॥ 023a चुकोप भार्गवश्चापि महेन्द्रस् महातपाः । 023c संस्तम्भयामास च तं वासवं च्यवनः प्रभुः ॥ 024a सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान् । 024a 'नासत्यौ च महाभाग कृतवान्सोमपीथिवौ' ॥ 025 युधिष्ठिर उवाच । 025a कथं विष्टम्भितस्तेन भगवान्पाकशासनः । 025c किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ॥ 026a नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ । 026c एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥

3-122-3 आधूर्तरजसो गयनामा ॥ 3-122-4 वानरस्पत्यं वृक्षजं चषालादि । भौमं मृन्मयं स्थाल्यादि ॥ 3-122-5 चषालो यूपकटकः । यूपः यज्ञस्तम्भः । चमसाः सोमपानपात्राणि । पात्र्यः हविःस्थापनार्थानि मृन्मयानि । स्रुचः हविःप्रदानार्थाः । स्रुवाः हविरवदानार्थाः ॥ 3-122-8 प्रसङ्ख्यानान् एकयत्नेन भूयःखर्णमुद्रादेर्मापकान् खारीद्रोणादीन् ॥ 3-122-26 सोमस्य पीथः पानं तद्वन्तौ सोमपीथिनौ ॥