अध्यायः 121
सात्यकिना पाण्डवानपेक्षणेन स्वैरेव धार्तराष्ट्रादिहननपूर्वकं पाण्डवानामावनवाससमापनमभिमन्यो राज्येऽभिषच नोक्तिः ॥ 1 ॥ कृष्णेन सात्यकिम्प्रतिपाण्डवानां परबाहुबलैकानुपजीवित्वादिगुणकथनपूर्वकं तन्निपेधनम् ॥ 2 ॥
001 सात्यकिरुवाच । 001a न राम कालः परिदेवनाय यदुत्तरं त्वत्र तदेव सर्वे । 001c समाचरामो ह्यनतीतकालं युधिष्ठिरो यद्यपि नाह किञ्चित् ॥ 002a ये नाथवन्तोऽद्य भवन्ति लोके ते नात्मना कर्म समारभन्ते । 002c तेषां तु कार्येषु भवन्ति नाथाःशैब्यादयो राम यथा ययातेः ॥ 003a येषां तथा राम समारभन्ते कार्याणि नाथाः स्वमतेन लोके । 003c ते नाथवन्तः पुरुषप्रवीरा नानाथवत्कृच्छ्रमवाप्नुवन्ति ॥ 004a कस्मादिमौ रामजनार्दनौ च प्रद्युम्नसाम्बौ च मया समेतौ । 004c वसन्त्यरण्ये सह सोदरीयै-स्त्रैलोक्यनाथानभिगम्य पार्थाः ॥ 005a निर्यातु साध्यद्य दशार्हसेना प्रभूतनानायुधचित्रवर्मा । 005c यमक्षयं गच्छतु धार्तराष्ट्रःसबान्धवो वृष्णिबलाभिभूतः ॥ 006a त्वं ह्येव कोपात्पृथिवीमपीमांसंवेष्टयेस्तिष्ठतु शार्ङधन्वा । 006c स धार्तराष्ट्रं जहि सानुबन्धं वृत्रं यथा देवपतिर्महेन्द्रः ॥ 007a भ्राता च मे यः स सखा गुरुश्च जनार्दनस्यात्मसमश्च पार्थः । 007c तदर्थमेको हि य उद्यमन्वै करोति कर्णोऽस्त्रमवारणीयम् ॥ 008a [यदर्थमैच्छन्मनुजाः सुपुत्रं शिष्यं गुरुं चाप्रतिकूलवादम् । 008c यदर्थमभ्युद्यतमुत्तमं तत्करोति कर्माग्र्यमपारणीयम् ॥] 009a तस्यास्त्रवर्षाण्यहमुत्तमास्त्रैर्विहत्य सर्वाणि रणेऽभिभूय । 009c कायाच्छिरः सर्पविषाग्निकल्पैःशरोत्तमैरुन्मथिताऽस्मि राम ॥ 010a खङ्गेन चाहं निशितेन सङ्ख्ये कायाच्छिरस्तस्य बलात्प्रमथ्य । 010c ततोऽस्य सर्वाननुगान्हनिष्येदुर्योधनं चापि कुरुंश्च सर्वान् ॥ 011a आत्तायुधं मामिह रौहिणेय पश्यन्तु भैमा युधि जातहर्षाः । 011c निघ्नन्तमेकं कुरुयोधमुख्यानग्निं महाकक्षमिवान्तकाले ॥ 012a प्रद्युम्नमुक्तान्निशितान्न शक्ताः ।सोढुं कृपद्रोणविकर्णकर्णाः । 012c जानासि वीर्यं च तवात्मजस्यकार्ष्णिर्भवत्येव यथा रणस्थः ॥ 013a साम्बः ससूतं सरथं भुजाभ्यां दुःशासनं शास्तु बलात्प्रमथ्य । 013c न विद्यते जाम्बवतीसुतस्य रणेऽविषह्यं हि रणोत्कटस्य ॥ 014a एतेन बालेन हि शम्बरस्य दैत्यस्य सैन्यं सहसा प्रणुन्नम् । 014c 'हतः स पापो युधि केवलेन युद्धेऽद्वितीयो हरितुल्यवीर्यः' ॥ 015a वृत्तोरुरत्यायतपीनबाहुरेतेन सङ्ख्ये निहतोऽश्वचक्रः । 015c को नाम साम्बस्य महारथस्य रणे समक्षं रथमभ्युदीयात् ॥ 016a यथा प्रविश्यान्तरमन्तस्य काले मनुष्यो न विनिष्क्रमेत । 016c तथा प्रविश्यान्तरमस्य सङ्ख्येको नाम जीवन्पुनराव्रजेच्च ॥ 017a द्रोणं च भीष्मं च महारथौ तौ सुतैर्वृतं चाप्यथ सोमदत्तम् । 017c सर्वाणि सैन्यानि च वासुदेवः प्रधक्ष्यते सायकवह्निजालैः ॥ 018a किन्नाम लोकेषु विषह्ममस्ति कृष्णस्य सर्वेषु सदेवकेषु । 018c आत्तायुधस्योत्तमबाणपाणेश्चक्रायुधस्याप्रतिमस्य युद्धे ॥ 019a ततो निरुद्धोऽप्यसिचर्मपाणिर्महीमिमां धार्तराष्ट्रैर्विसञ्ज्ञैः । 019c हृतोत्तमाङ्गैर्निहतैः करोतु कीर्णाङ्कुशैर्वेदिमिवाध्वरेषु ॥ 020a गदोल्मुकौ बाहुकभानुनीथाः शूरश्च सङ्ख्ये निशठः कुमारः । 020c रणोत्कटौ सारणचारुदेष्णौ कुलोचितं विप्रथयन्तु कर्म ॥ 021a सवृष्णिभोजान्धकयोधमुख्यासमागता सात्वतशूरसेना । 021c हत्वा रणे तान्धृतराष्ट्रपुत्रान्लोके यशः स्फीतमुपाकरोतु ॥ 022a ततोऽभिमन्युः पृथिवीं प्रशास्तु यावद्व्रतं धर्मभृतांवरिष्ठः । 022c युधिष्ठिरः पारयते महात्मा द्यूते यथोक्तं कुरुसत्तमेन ॥ 023a अस्मत्प्रमुक्तैर्विशिखैर्जितारिस्ततो महीं भोक्ष्यति धर्मराजः । 023c निर्धार्तराष्ट्रां हतसूतपुत्रामेतद्धि नः कृत्यतमं यशस्यम् ॥ 024 वासुदेव उवाच । 024a असंशयं माधव सत्यमेतद्गृह्णीम ते वाक्यमदीनसत्व । 024c स्वाभ्यां भुजाभ्यामजितां तु भूमिं नेच्छेत्कुरूणामृषभः कथञ्चित् ॥ 025a न ह्येष कामान्न भयान्न लोभाद्युधिष्ठिरो जातु जह्यात्स्वधर्मम् । 025c भीमार्जुनौ चातिरथौ यमौ च तथैव कृष्णा द्रुपदात्मजेयम् ॥ 026a उभौ हि युद्धेऽप्रतिमौ पृथिव्यां वृकोदरश्चैव धनञ्जयश्च । 026c कस्मान्न कृत्स्नां पृथिवीं प्रशासेन्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ॥ 027a यदा तु पाञ्चालपतिर्महात्मा सकेकयश्चेदिपतिर्वयं च । 027c युध्येम विक्रम्य रणे समेतास्तदैव सर्वे रिपवो हि न स्युः ॥ 028 युधिष्ठिर उवाच । 028a नेदं चित्रं माधव यद्ब्रवीषि सत्यं तु मे रक्ष्यतमं न राज्यम् । 028c कृष्णस्तु मां वेद यथावदेकः कृष्णं च वेदाहमथो यथावत् ॥ 029a यदैव कालं पुरुषप्रवीरो वेत्स्यत्ययं माधव विक्रमस्य । 029c तदा रणे त्वं च शिनिप्रवीर सुयोधनं जेष्यसि केशवश्च ॥ 030a प्रतिप्रयान्त्वद्य दशार्हवीरादृष्टोस्मि नाथैर्नरलोकनाथैः । 030c धर्मेऽप्रमादं कुरुताप्रमेयाद्रष्टाऽस्मि भूयः सुखिनः समेतान् ॥ 031 वैशम्पायन उवाच । 031a तेऽन्योन्यमामन्त्र्य तथाऽभिवाद्य वृद्धान्परिष्वज्य शिशूंश्च सर्वान् । 031c यदुप्रवीराः स्वगृहाणि जग्मुस्ते चापि तीर्थान्यमुसंविचेरुः ॥ 032a विसृज्य वृष्णीननु धर्मराजो विदर्भराजोपचितां सुतीर्थाम् । 032c जगाम पुण्यां सरितं पयोष्णीं सभ्रातृभृत्यः सह लोमशेन ॥ 033a सुतेन सोमेन विमिश्रतोयां पयः पयोष्णीं प्रति सोध्युवास । 033c द्विजातिमुख्यैर्मुदितैर्महात्मासंस्तूयमानः स्तुतिभिर्वराभिः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकविंशत्यधिकशततमोऽध्यायः ॥ 121 ॥
3-121-2 शैब्यादय इति स्वार्थे ष्यञ् ॥ 3-121-7 स पार्थोपि तिष्ठत्विति पूर्वेणान्वयः ॥ 3-121-8 यदर्थं शत्रुवधार्थम् । तत् सुपुत्रादिकम् । अस्माकमस्तीति शेषः ॥ 3-121-11 भैमा भीमकर्मकर्तारो भीमवंशजा वा ॥ 3-121-14 एतेन प्रद्युम्नेन ॥ 3-121-33 सुतेन अभिषुतेन । यज्ञे सोमपानतुल्यं तज्जलपानमित्यर्थः । पयोष्णीं प्रति पयोष्ण्यां पयोमात्रमध्युवासं भक्षितवान् ॥