अध्यायः 120
बलभद्रेण वृष्णिपाण्डवसभायां भीष्मधृतराष्ट्रादिगर्हणपूर्वकं पाण्डवान्प्रति शोचनम् ॥ 1 ॥
जनमेजय उवाच KK03-06-120-001
प्रभासतीर्थमासाद्य पाण्डवा वृष्णयस्तथा । KK03-06-120-001a
किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन ॥ KK03-06-120-001c
ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः । KK03-06-120-002a
वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम् ॥ KK03-06-120-002c
वैशम्पायन उवाच KK03-06-120-003
प्रभासतीर्थं सम्प्राप्य पुण्यं तीर्थं महोदधेः । KK03-06-120-003a
वृष्णयः पाण्डवान्वीराः परिवार्योपतस्थिरे ॥ KK03-06-120-003c
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः । KK03-06-120-004a
वनमाली हली रामो बभाषे पुष्करेक्षणम् ॥ KK03-06-120-004c
न कृष्ण धर्मश्चरितो भवाय जन्तोरधर्मश्च पराभवाय । KK03-06-120-005a
युधिष्ठिरो यत्रजटी महात्मा वनाश्रयः क्लिश्यति चीरवासाः ॥ KK03-06-120-005c
दुर्योधनश्चापि महीं प्रशास्ति न चास्य भूमिर्विवरं ददाति । KK03-06-120-006a
धर्मादधर्मश्चरितो वरीयानितीव मन्येत नरोऽल्पबुद्धिः ॥ KK03-06-120-006c
दुर्योधने चापि विवर्धमाने युधिष्ठिरे चासुखमात्तराज्ये । KK03-06-120-007a
'हृतस्वराज्यायतनार्थभार्ये दुर्योधनेनाल्पधिया च पार्थे' । KK03-06-120-007c
किन्न्वत्र कर्तव्यमिति प्रजाभिः शङ्का मिथः सञ्जनिता नराणाम् ॥ KK03-06-120-007e
अयं स धर्मप्रभवो नरेन्द्रो धर्मे धृतः सत्यधृतिः प्रदाता । KK03-06-120-008a
चलेद्धि राज्याच्च सुखाच्च पार्थो धर्मादपेतस्तु कथं विवर्धेत् ॥ KK03-06-120-008c
कथं नु भीष्मश्च कृपश्च विप्रो द्रोणश्च राजा च कुलस्य वृद्धः । KK03-06-120-009a
प्रव्राज्य पार्थान्सुखमाप्नुवन्ति धिक्पापबुद्धीन्भरतप्रधानान् ॥ KK03-06-120-009c
किन्नाम वक्ष्यत्यवनिप्रधानःपितॄन्समागम्य परत्र पापः । KK03-06-120-010a
पुत्रेषु सम्यक्चरितं मयेति पुत्रानपापान्व्यपरोप्य राज्यात् ॥ KK03-06-120-010c
नासौ धिया सम्प्रति पश्यति स्म किन्नाम कृत्वाऽहमचक्षुरेवम् । KK03-06-120-011a
जातः पृथिव्यामिति पार्थिवेषु प्रव्राज्य कौन्तेयमिति स्म राज्यात् ॥ KK03-06-120-011c
नूनं समृद्धान्पितृलोकभूमौ चामीकराभान्क्षितिजान्प्रफुल्लान् । KK03-06-120-012a
विचित्रवीर्यस्य सुतः सपुत्रः कृत्वा नृशंसं बत पश्यति स्म ॥ KK03-06-120-012c
व्यूढोत्तरांसान्पृथुलोहिताक्षा-निमान्स्म पृच्छन्स शृणोति नूनम् । KK03-06-120-013a
प्रास्थापयद्यत्स वनं सशङ्को युधिष्ठिरं सानुजमात्तशस्त्रम् ॥ KK03-06-120-013c
योऽयं परषां पृतनां समृद्धां निरायुधो दीर्घभुजो निहन्यात् । KK03-06-120-014a
श्रुत्वैव शब्दं हि वृकोदरस्य मुञ्चन्ति सैन्यानि शकृत्समूत्रम् ॥ KK03-06-120-014c
स क्षुत्पिपासाध्वकृशस्तरस्वी समेत्य नानायुधबाणपाणिः । KK03-06-120-015a
वने स्मरन्वासमिमं सुघोरं शेषं न कुर्यादिति निश्चितं मे ॥ KK03-06-120-015c
न ह्यस्य वीर्येण बलेन कश्चित्समः पृथिव्यामपि विद्यतेऽन्यः । KK03-06-120-016a
स शीतवातातपकर्शिताङ्गो न शेषमाजावसुहृत्सु कुर्यात् ॥ KK03-06-120-016c
प्राच्यां नृपानेकरथेन जित्वा वृकोदरः सानुचरान्रणेषु । KK03-06-120-017a
स्वस्त्यागमद्योऽतिरथस्तरस्वी सोयं वने क्लिश्यति चीरवासाः ॥ KK03-06-120-017c
यः सिन्धुकूले व्यजयन्नृदेवान्समागतान्दाक्षिणात्यान्महीपान् । KK03-06-120-018a
तं पश्यतेमं सहदेवमद्य तरस्विनं तापसवेषरूपम् ॥ KK03-06-120-018c
यः पार्थिवानेकरथेन वीरो दिशं प्रतीचीं प्रतियुद्धशौण्डः । KK03-06-120-019a
जिग्ये रणे तं नकुलं वनेऽस्मिन्सम्पश्यतैनं मलदिग्धगात्रम् ॥ KK03-06-120-019c
सत्रे समृद्धेऽतिरथस्य राज्ञो वेदीतलादुत्पतिता सुता या । KK03-06-120-020a
सेयं वने वासमिमं सुदुःखं कथं सहत्यद्य सती सुखार्हा ॥ KK03-06-120-020c
त्रिवर्गमुख्यस्य समीरणस्य देवेश्वरस्याप्यथवाऽश्विनोश्च । KK03-06-120-021a
एषां सुराणां तनयाः कथं नु वने चरन्त्यस्तसुखाः सुखार्हाः ॥ KK03-06-120-021c
जिते हि धर्मस्य सुते सभार्ये सभ्रातृके सानुचरे निरस्ते । KK03-06-120-022a
दुर्योधने चापि विवर्धमाने कथं न सीदत्यवनिः सशैला ॥ KK03-06-120-022c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥
3-120-5 भवाय अभ्युदयाय ॥ 3-120-6 विवरं शरीरगूहनाय न ददातीत्यर्थः ॥ 3-120-7 मिथः शङ्काधर्माधर्मयोः किं बलीय इति शास्त्रानुभवयोर्विरोधात्संशयः ॥ 3-120-8 राज्याच्च सुखाच्च चलेत् नतु धर्मादिति शेषः । तत्र हेतुः धर्मादिति ॥ 3-120-10 अवनिप्रधानो धृतराष्ट्रः ॥ 3-120-11 किन्नाम पापं कृत्वाऽहमचक्षुर्जातः कौन्तेयं प्रव्राज्य कीदृशो भविष्यामीति धिया नासौ पश्यतीत्यध्याहृत्य योज्यम् ॥ 3-120-12 चामीकराभान् कनकप्रभान् । एतन्मरणचिह्नम् । नृशंसं निन्द्यं कर्म ॥ 3-120-15 शेषं न कुर्यात् निःशेषमेव नाशयेदित्यर्थः ॥ 3-120-17 स्वस्ति क्षेमेण आगमत् आगतः ॥ 3-120-18 यो दन्तकूटे त्वजयत्समेतानिति ध. पाठः ॥ 3-120-20 राज्ञः द्रुपदस्य ॥ 3-120-21 त्रिवर्गमुख्यस्य धर्मस्य ॥