अध्यायः 119
युधिष्ठिरेण यात्राक्रमेण प्रभासतीर्थम्प्रति गमनम् ॥ 1 ॥ तत्र तद्दिदृक्षया कृष्णबलभद्रादीनामागमनम् ॥ 2 ॥
वैशम्पायन उवाच KK03-06-119-001
गच्छन्स तीर्थानि महानुभावः पुण्यानि रम्याणि ददर्श राजा । KK03-06-119-001a
सर्वाणि वैप्रैरुपशोभितानि क्वचित्क्वचिद्भारत सागरम्य ॥ KK03-06-119-001c
स वृत्तवांस्तेषु कृताभिषेकः सहानुजः पार्थिवपुत्रपौत्रः । KK03-06-119-002a
समुद्रगां पुण्यतमां प्रशस्तां जगाम पारिक्षित पाण्डुपुत्रः ॥ KK03-06-119-002c
तत्रापि चाप्लुत्य महानुभावः सन्तर्पयामास पितॄन्सुरांश्च । KK03-06-119-003a
द्विजातिमुख्येषु धनं विसृज्य गोदावरीं सागरगामगच्छत् ॥ KK03-06-119-003c
ततो विपाप्मा द्रविडेषु राजन्समुद्रमासाद्य च लोकपुण्यम् । KK03-06-119-004a
अगस्त्यतीर्थं च महापवित्रं नारीतीर्थान्यथा वीरो ददर्श ॥ KK03-06-119-004c
तत्रार्जुनस्याग्र्यधनुर्धरस्य निशम्य तत्कर्म परैरशक्यम् । KK03-06-119-005a
सम्पूज्यमानः परमर्षिसङ्घैः परां मुदं पाण्डुसुतः स लेभे ॥ KK03-06-119-005c
स तेषु तीर्थेष्वभिषिक्तगात्रः कृष्णासहायः सहितोऽनुजैश्च । KK03-06-119-006a
सम्पूजयन्विक्रममर्जुनस्य रेमे महीपालपतिः पृथिव्याम् ॥ KK03-06-119-006c
ततः सहस्राणि गवां प्रदाय तीर्थेषु तेष्वम्बुधरोत्तमस्य । KK03-06-119-007a
हृष्टः सह भ्रातृभिरर्जुनस्य सङ्कीर्तयामास गवां प्रदानम् ॥ KK03-06-119-007c
स तानि तीर्थानि च सागरस्य पुण्यानि चान्यानि बहूनि राजन् । KK03-06-119-008a
क्रमेण गच्छन्परिपूर्णकामः शूर्पारकं पुण्यतमं ददर्श ॥ KK03-06-119-008c
तत्रोदधेः कञ्चिदतीत्य देशं ख्यातं पृथिव्यां वनमाससाद । KK03-06-119-009a
तप्तं सुरैरत्र तपः पुरस्तादिष्टुं कतथा पुण्यपरैर्नरेन्द्रैः ॥ KK03-06-119-009c
स तत्र तामग्र्यधनुर्धरस्य वेदीं ददर्शायतपीनबाहुः । KK03-06-119-010a
ऋचीकपुत्रस्य तपस्विसङ्घैः समावृतां पुण्यकृदर्चनीयाम् ॥ KK03-06-119-010c
ततो वसूनां वसुधाधिपः समरुद्गणानां च तथाश्विनोश्च । KK03-06-119-012a
वैवस्वतादित्यधनेश्वराणामिन्द्रस्य विष्णोः सवितुर्विभोश्च ॥ KK03-06-119-012c
भगस्य चन्द्रस्य दिवाकरस्य पतेरपां साध्यगणस्य चैव । KK03-06-119-013a
धातुः पितॄणां च तथा महात्मा रुद्रस्य राजन्सगणस्य चैव ॥ KK03-06-119-013c
सरस्वत्याः सिद्धगणस्य चैव पूष्णश्च ये चाप्यमरास्तथाऽन्ये । KK03-06-119-014a
पुण्यानि चाप्यायतनानि तेषां ददर्श राजा सुमनोहराणि ॥ KK03-06-119-014c
तेषूपवासान्विबुधानुपोष्यदत्त्वा च रत्नानि महान्ति राजा । KK03-06-119-015a
तीर्थेषु सर्वेषु परिप्लुताङ्गः पुनः स शूर्पारकमाजगाम ॥ KK03-06-119-015c
स तेन तीरेण तु सागरस्य पुनः प्रयातः सह सोदरीयैः । KK03-06-119-016a
द्विजैः पृथिव्यां प्रथितं महद्भिस्तीर्थं प्रभासं समुपाजगाम ॥ KK03-06-119-016c
तत्राभिषिक्तः पृथुलोहिताक्षः सहानुजैर्देवगणान्पितॄंश्च । KK03-06-119-017a
सन्तर्पयामास तथैव कृष्णा ते चापि विप्राः सह लोमशेन ॥ KK03-06-119-017c
स द्वादशाहं जलवायुभक्षः कुर्वन्क्षपाहःसु तदाऽभिषेकम् । KK03-06-119-018a
समन्ततोऽग्नीनुपदीपयित्वा तेपे तपो धर्मभृतांवरिष्ठः ॥ KK03-06-119-018c
तमुग्रमास्थाय तपश्चरन्तं शुश्राव रामश्च जनार्दनश्च । KK03-06-119-019a
तौ सर्ववृष्णिप्रवरौ ससैन्यौ युधिष्ठिरं जग्मतुराजमीढम् ॥ KK03-06-119-019c
ते वृष्णयः पाण्डुसुतान्समीक्ष्य भूमौ शयानान्मलदिग्धगात्रान् । KK03-06-119-020a
अनर्हतीं द्रौपदीं चापि दृष्ट्वा सुदुःखिताश्चुक्रुशुरार्तनादान् ॥ KK03-06-119-020c
ततः स रामं च जनार्दनं च कार्ष्णिं च साम्बं च शिनेश्च पौत्रम् । KK03-06-119-021a
अन्यांश्च वृष्णीनुपगम्य पूजां चक्रे यथाधर्ममहीनसत्वः ॥ KK03-06-119-021c
ते चापि सर्वान्प्रतिपूज्य पार्थांस्तैः सत्कृताः पाण्डुसुतैस्तथैव । KK03-06-119-022a
युधिष्ठिरं सम्परिवार्य राजन्नुपाविशन्देवगणा यथेन्द्रम् ॥ KK03-06-119-022c
तेषां स सर्वं चरितं परेषां वने च वासं परमप्रतीतः । KK03-06-119-023a
अस्त्रार्थमिन्द्रस्य गतं च पार्थं कृष्णे शशंसामरराजसूनुम् ॥ KK03-06-119-023c
श्रुत्वा तु ते तस्य वचः प्रतीतास्तांश्चापि दृष्ट्वा सुकृशानतीव । KK03-06-119-024a
नेत्रोद्भवं सम्मुमुचुर्महार्हा दुःखार्तिजं वारि महानुभावाः ॥ KK03-06-119-024c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥
3-119-2 वृत्तवान् सद्वृत्तः । पार्थिवः पृथ्वीपतिः कश्यपस्तस्य पुत्रः सूर्यस्तस्य पौत्रो युधिष्ठिरः तत्पितुर्धर्मस्य सूर्यपुत्रत्वात् । प्रशस्तां नाम नदीम् ॥ 3-119-4 नारीतीर्थानि ग्राहरूपाः पञ्चाप्सरसो मुनिशापवशाद्यत्र स्थिता अर्जुनेन च शापान्मोचितास्तानि नारीतीर्थानि ॥ 3-119-7 अम्बुधरोत्तमस्य समुद्रस्य ॥ 3-119-14 तीर्थेषु । उपवासान् समीपवासिनो विबुधान्पण्डितानुपोष्य वस्त्रैरावास्य रत्नानि च तेभ्य एव दत्त्वा ॥ 3-119-20 कार्ष्णिं प्रद्युम्नम् । पौत्रं सात्यकिम् ॥