अध्यायः 118

अकृतव्रणेन युधिष्ठिरम्प्रति पितृवधमर्षात् त्रिःसप्तकृत्वः पृथिव्या निःक्षत्रियीकरणादिरामचरित्रकथनम् ॥ 1 ॥ युधिष्ठिरेण परेद्युश्चतुर्दश्यां सन्निहितपरशुरामपूजनादिपूर्वकं महेन्द्रशैलात्पुरः प्रस्थानम् ॥ 2 ॥

राम उवाच KK03-06-118-001
ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः । KK03-06-118-001a
कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः ॥ KK03-06-118-001c
धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे । KK03-06-118-002a
मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः ॥ KK03-06-118-002c
किन्नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः । KK03-06-118-003a
अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः ॥ KK03-06-118-003c
किन्नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च । KK03-06-118-004a
अयुध्यमानं धर्मज्ञमेकं हत्वाऽनपत्रपाः ॥ KK03-06-118-004c
अकृतव्रण उवाच KK03-06-118-005
लालप्यैवं सकुरुणं बहु नानाविधं नृप । KK03-06-118-005a
प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः ॥ KK03-06-118-005c
ददाह पितरं चाग्नौ रामः परपुरञ्जयः । KK03-06-118-006a
प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत ॥ KK03-06-118-006c
सङ्क्रुद्धोऽतिबलः सङ्ख्ये शस्त्रमादाय वीर्यवान् । KK03-06-118-007a
जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः ॥ KK03-06-118-007c
तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ । KK03-06-118-008a
तांश्च सर्वानवामृद्नाद्रामः प्रहरतांवरः ॥ KK03-06-118-008c
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षित्रियां प्रभुः । KK03-06-118-009a
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥ KK03-06-118-009c
स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः । KK03-06-118-010a
साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् ॥ KK03-06-118-010c
ततो यज्ञेन महता जामदग्न्यः प्रतापवान् । KK03-06-118-011a
तर्पयामास देवेन्द्रमृत्विग्भ्यः प्रददौ महीम् ॥ KK03-06-118-011c
वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने । KK03-06-118-012a
दशव्यामायतां कृत्वा नवोत्सेधां विशाम्पते ॥ KK03-06-118-012c
तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा । KK03-06-118-013a
व्यभजंस्ते तदा राजन्प्रख्याताः खाण्डवायनाः ॥ KK03-06-118-013c
स प्रदाय महीं तस्मै कश्यपाय महात्मने । KK03-06-118-014a
'तपः सुमहदास्थाय महाबलपराक्रमः' । KK03-06-118-014c
अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः ॥ KK03-06-118-014e
एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः । KK03-06-118-015a
पृथिवी चापि विजिता रामेणामिततेजसा ॥ KK03-06-118-015c
वैशम्पायन उवाच KK03-06-118-016
ततश्चतुर्दशीं रामः समयेन महामनाः । KK03-06-118-016a
दर्शयामास तान्विप्रान्धर्मराजं च सानुजम् ॥ KK03-06-118-016c
स तमानर्च राजेन्द्र भ्रातृभिः सहितः प्रभुः । KK03-06-118-017a
द्विजानां च परां पूजां चक्रे नृपतिसत्तमः ॥ KK03-06-118-017c
अर्चित्वा जामदग्न्यं स पूजितस्तेन चोदितः । KK03-06-118-018a
महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः ॥ KK03-06-118-018c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥

3-118-12 दशव्यामायतां व्यामो हस्तचतुष्टयम् । चत्वारिंशद्धस्तायामविस्ताराम् । नवोत्सेधां षट्रत्रिंशद्धस्तोच्छ्रायां चेत्यर्थः 3-118-17 आनर्च अर्चितवान् ॥ 3-118-18 उष्य उषित्वा ॥