अध्यायः 117

रामेण रेणुकायां मानसिकव्यभिचारदर्शिनः पितुर्जमदग्नेर्नियोगात्कुठारेण तस्याः कण्ठच्छेदनम् ॥ 1 ॥ जमदग्निना पुत्रप्रार्थनया रेणुकायाः पुनरुज्जीवनम् ॥ 2 ॥ रामासन्निधाने जमदग्न्याश्रममुपागतेन कार्तवीर्यार्जुनेन तदीयहोमधेनुवत्साहरणपूर्वकं तदाश्रमपीडनम् ॥ 3 ॥ तत आगतेन रामेण कार्तवीर्ये युधि निहते तदीयै रामासन्निधाने जमदग्नेर्वधः ॥ 4 ॥

अकृतव्रण उवाच KK03-06-117-001
स वेदाध्ययने युक्तो जमदग्निर्महातपाः । KK03-06-117-001a
तपस्तेपे ततो देवान्नियमाद्वशमानयत् ॥ KK03-06-117-001c
स प्रसेनजितं राजन्नधिगम्य नराधिपम् । KK03-06-117-002a
रेणुकां वरयामास स च तस्मै ददौ नृपः ॥ KK03-06-117-002c
रेणुकां त्वथ सम्प्राप्य भार्यां भार्गवनन्दनः । KK03-06-117-003a
आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया ॥ KK03-06-117-003c
तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः । KK03-06-117-004a
सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः ॥ KK03-06-117-004c
फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै । KK03-06-117-005a
रेणुका स्नातुमगमत्कदाचिन्नियतव्रता ॥ KK03-06-117-005c
सा तु चित्ररथं नाम मार्तिकावतकं नृपम् । KK03-06-117-006a
ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥ KK03-06-117-006c
क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् । KK03-06-117-007a
ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥ KK03-06-117-007c
व्यभिचाराच्च तस्मात्सा क्लिन्नाम्भसि विचेतना । KK03-06-117-008a
'अन्तरिक्षान्निपतिता नर्मदायां महाह्रदे ॥ KK03-06-117-008c
उतीर्य चापि सा यत्नाज्जगाम भरतर्षभ' । KK03-06-117-009a
प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत ॥ KK03-06-117-009c
स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् । KK03-06-117-010a
धिक्शब्देन महातेजा गर्हयामास वीर्यवान् ॥ KK03-06-117-010c
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः । KK03-06-117-011a
आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा ॥ KK03-06-117-011c
तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् । KK03-06-117-012a
न च ते जातसम्मोहाः किञ्चिदूचुर्विचेतसः ॥ KK03-06-117-012c
ततः शशाप तान्क्रोधात्ते शप्ताश्चेतनां जहुः । KK03-06-117-013a
मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः ॥ KK03-06-117-013c
ततो रामोऽभ्ययात्पश्चादाश्रमं परवीरहा । KK03-06-117-014a
तमुवाच महामन्युर्जमदग्निर्महातपाः ॥ KK03-06-117-014c
जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः । KK03-06-117-015a
तत आदाय परशुं रामो मातु शिरोऽहरत् ॥ KK03-06-117-015c
ततस्तस्य महाराज जमदग्नेर्महात्मनः । KK03-06-117-016a
कोपोऽभ्यगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् ॥ KK03-06-117-016c
ममेदं वचनात्तात कृतं ते कर्म दुष्करम् । KK03-06-117-017a
वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा ॥ KK03-06-117-017c
स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै । KK03-06-117-018a
पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा ॥ KK03-06-117-018c
अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत । KK03-06-117-019a
ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः ॥ KK03-06-117-019c
कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो । KK03-06-117-020a
अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत ॥ KK03-06-117-020c
तमाश्रमपदं प्राप्तमृषिरर्घ्यात्समार्चयत् । KK03-06-117-021a
स युद्धमदसम्मत्तो नाभ्यनन्दत्तथाऽर्चनम् ॥ KK03-06-117-021c
प्रमथ्य चाश्रमात्तस्माद्धोमधेनोस्ततोबलात् । KK03-06-117-022a
जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥ KK03-06-117-022c
आगताय च रामाय तदाचष्ट पिता स्वयम् । KK03-06-117-023a
गां च रोरुदतीं दृष्ट्वा कोपो रामं समाविशत् । KK03-06-117-023c
स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् ॥ KK03-06-117-023e
तस्याथ युधि विक्रम्य भार्गवः परवीरहा । KK03-06-117-024a
चिच्छेद निशितैर्भल्लैर्बाहून्परिघसन्निभान् ॥ KK03-06-117-024c
सहस्रसम्मितान्राजन्प्रगृह्य रुचिरं धनुः । KK03-06-117-025a
अभिभूतः स रामेण संयुक्तः कालधर्मणा ॥ KK03-06-117-025c
अर्जुनस्याथ दायादा रामेण कृतमन्यवः । KK03-06-117-026a
आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् ॥ KK03-06-117-026c
ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम् । KK03-06-117-027a
असकृद्रामरामेति विक्रोशन्तमनाथवत् ॥ KK03-06-117-027c
कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर । KK03-06-117-028a
घातयित्वा शरैर्जग्मुर्यथागतमरिन्दमाः ॥ KK03-06-117-028c
अपक्रान्तेषु वै तेषु जमदग्नौ तथा गते । KK03-06-117-029a
समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ॥ KK03-06-117-029c
स दृष्ट्वा पितरं वीरस्तदा मृत्युवशं गतम् । KK03-06-117-030a
अनर्हं तं तथाभूतं विललाप सुदुःखितः ॥ KK03-06-117-030c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥

3-117-7 ततस्तस्य स्पृहयामास तमैच्छत् । सभार्यं हेममालिनमिति क. ध. पाठः ॥ 3-117-25 कालधर्मणा मृत्युना ॥